________________
द्वारं-१,
अध्ययनं -२,
बन्धभोक्षाद्यभावप्रसङ्गात्, तथा निष्क्रियः - सर्वव्यापित्वेनावकाशाभावाद् गमनागम-नादिक्रियावर्जितः, असच्चैतत् देहमात्रोपलभ्यमानतद्गुणत्वेन तन्नियतत्वात्, तथा निर्गुणश्च सत्त्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेव ह्येते गुणा इति, यदाह - " अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने” इति, असिद्धं चास्य सर्वथा निर्गुणत्वं 'चैतन्यं पुरुषस्य स्वरूप' मित्यभ्युपगमात्, तथा 'अणुवलेवउ'त्ति अनुपलेपकः कर्मबन्धरहितः, आह च - " यस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित्, संसरति बध्यते मुच्यते च नानाश्रया प्रकृति" रिति, असच्चैतत्, मुक्तामुक्तयोरेवमविशेषप्रसङ्गात्, पाठान्तरं - 'अन्नो अलेवर' त्ति तत्र अन्यश्च - अपरो लेपतः कर्म्मबन्धनादिति, एतदप्यसत्, कथंचिदिति शब्दानुपादानात्, 'इत्यपिंच' इतिः - उपप्रदर्शने अपिचेति अलीकवादान्तरसमुच्चयार्थः, तथा एवं -- वक्ष्यमाणप्रकारेण 'आहंसु' त्ति ब्रुवते स्म असद्भावं - असन्तमर्थं यदुत यदेव - सामान्यतः सर्वमित्यर्थः
३९५
इह-शस्मिन् किञ्चिद्-अविवक्षितविशेषं जीवलोके-मत्यलोके दृश्यते सुकृतं वा आस्तिकमतेन सुकृतफलं सुखमित्यर्थः दुष्कृतं वा दुष्कृतफलं दुःखमित्यर्तः, एतत् 'जइच्छाए व'त्तियःच्छया वा स्वभावेन चापि दैवतप्रभावतो वापि - विधिसामथ्यतो वापि भवति, न पुरुषकारः कर्म्म वा हिताहितनिमित्तमिति भावः, तत्र अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदच्छा, पठ्यते च“अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् ।
119 11
119 11
"
119 11
काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः ।। " (तथा) “सत्यं पिशाचाः स्म वने वसामो भेरी कराग्रेरपि न स्पृशामः । यदच्छया सिद्धयति लोकयात्रा, भेरीं पिशाचाः परिताडयन्ति ॥" इति, स्वभावः पुनर्वस्तुतः स्वत एव तथापरिणतिभावः, उक्तं च"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । खभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽसल्ति कुतः प्रयत्नः ? ॥” -इति, दैवं तु विधिरिति लौकिकी भाषा, तत्रोक्तं“प्राप्तव्यमर्थं लभते मनुष्यः किं कारणं ? दैवमलङ्घनीयम् । तस्मान्न शोचामि न विस्मयामि, यदस्मदीयं नहि तत्परेषाम् ॥” (तथा) “द्वीपादन्यस्मादपि मध्यादपि जलनिघेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतम् ॥” -इति, असद्भूतता चात्र प्रत्येकमेषां जिनमतप्रतिक्रुष्टत्वात्, तथाहि"कालो सहाव नियई पुव्वकयं पुरिसकारणेगंता ।
119 11
119 11
119 11
मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥” इति,
तथा नास्ति न विद्यतेऽत्र किञ्चिच्छुभमशुभं वा कृतकं - पुरुषकारनिष्पन्नं कृतं च-कार्य प्रयोजनमित्यर्थः, पाठान्तरेण 'नत्थि किंचि कयं तत्तं' तत्र तत्त्वं वस्तुस्वरूपमिति, तथा लक्षणानिवस्तुस्वरूपाणि विघाश्च भेदा लक्षणविधास्तासां लक्षणविधानां नियतिश्च-स्वभावविशेषश्च कारिका-कर्त्री सा च पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजयित्री भवितव्यतेत्यर्थः, अन्ये त्वाहुः - यत् मुद्गादीनां राद्धिस्वभावत्वमितरद्वा स स्वभावः यच्च राद्धावपि नियतरसस्वं न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org