________________
प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११
अथानर्थान्तरभूतस्ततो जीव एवासौ तदव्यतिरेकात् तत्स्वरूपवत्, ततो निर्हेतुका नारकादिविचित्रता स्यात्, न च निर्हेतुकं किमपि भवत्यतिप्रसङ्गादिति,
तथा न नैरयिकतिर्यग्मनुजानां योनिः - उत्पत्तिस्थानं पुण्यपापकर्मफलभूताऽस्तीति प्रकृतं, न देवलोको वाऽस्ति पुण्यकर्मफलभूतः, नैवास्ति सिद्धिगमनं सिद्धेः सिद्धस्य चाभावात्, अम्बापितरावपि न स्तः, उत्पत्तिमात्रनिबन्धनत्वान्मातापितृत्वस्य, न चोत्पत्तिमात्रनिबन्धस्य मातापितृतया विशेषो युक्तः, यतः कुतोऽपि किञ्चिदुत्पद्यत एव यथा यचेतनात् सचेतनं यूकामत्कूणादि अचेतनं मूत्रपुरीषादि अचेतनाच्च सचेतनं यथा काष्ठाद् धुणकीटादि अचेतनं चर्णादि, तस्मात् जन्यजनकभावमात्रमर्थानामस्ति नान्यो मातापित-पुत्रादिर्विशेष इति, तद्मावात्तद्भोगविनाशापानादिषु न दोष इति भावो, मृषावादिता चैषां वस्त्वन्तरस्यापि च जनकत्वे समानेऽपि तयोरत्यन्तहिततया विशेषवत्त्वेन सत्त्वात्, हितत्वं च तयोः प्रतीतमेव, आह च - "दुष्प्रतिकारा" वित्यादि, नाप्यस्ति पुरुषकारः, तं विनैव नियतितः सर्वप्रयोजनानां सिद्धे, उच्यते च
119 11
३९२
“प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥”
मृषावादिता चैवमेषां सकललोकप्रतीतपुरुषकारापलानेन प्रमाणातीतनियतिमताभ्युपगमादिति, तथा प्रत्याख्यानमपि नास्ति धर्म्मसाधनतया, धर्मस्यैवाभावादिति, अस्य च सर्वज्ञवचनप्रमाणाण्येनास्तित्वात् तद्वादिनामसत्यता, तथा नैवास्ति कालमृत्युः, तत्र कालो नास्ति अनुपलम्भात्, यच्च वनस्पतिकुसुमादि काललक्षणमाचक्षते तत्तेषामेव स्वरूपमिति मन्तव्यं,
असत्यतायामपि स्वरूपस्य वस्तुनोऽनतिरेकात् कुसुमादिकरणमकारणं तरूणां स्यात्, तथा मृत्युः - परलोकप्रयाणलक्षणोऽसावपि नास्ति, जीवाभावेन परलोकगमनाभावात्, अथवा कालक्रमेण विवक्षितायुष्ककर्मणः सामस्त्यनिर्जरावसरे मृत्युः, तदभावश्चायुष एवाभावात्, तथा अर्हदादयो 'नत्थि'त्ति न सन्ति प्रमाणाविषयत्वात् 'नेवत्थि केई रिसउ' त्ति नैव सन्ति केचिदपि ऋषयो- गौतमादिमुनयः प्रमाणाविषयत्वादेव, वर्त्तमानकाले वा ऋषित्वस्यापि सर्वविरत्याद्यनुष्ठानस्यासत्तवात्, सतोऽपि वा निष्फलत्वादिति, अत्र च शिष्यादिप्रवाहानुमेयत्वा दर्हदादिसत्त्वस्यानन्तरोक्तत्वाद् वादिनामसत्यता, ऋषित्वस्यापि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्येवमाज्ञाग्राह्यार्थापलापिनां सर्वत्रासत्यवादिता भावनीयेति, तथा धर्माधर्मफलमपि नास्ति किञ्चिद्बहुकं वा स्तोकं वा, धर्माधर्मयोरदष्टत्वेन नास्तित्वात्,
'नत्थि फलं सुकए' त्यादि यदुक्तं प्राक्तत्सामान्यजीवापेक्षया यच्च 'धम्माधम्मे' त्यादि तद् दृश्यापेक्षयेति न पुनरुक्ततेति, 'तम्ह' त्ति यस्मादेवं तस्मादेव - उक्तप्रकारं वस्तु विज्ञाय 'जहा सुबहुइंदियाणुकलेसु' त्तियथा-यत्प्रकाराः सुबहु - अत्यर्तमिन्द्रियानुकूला ये ते तथा तेषु सर्वविषयेषु वर्त्तितव्यं, नास्ति काचित् क्रिया वा - अनिन्द्यक्रिया अक्रिया वा- पापक्रिया पापेतरक्रिययोरास्तिककल्पितत्वेनापारमार्थिकत्वात्, भांति च
“पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते ।
For Private & Personal Use Only
119 11
Jain Education International
www.jainelibrary.org