________________
द्वारं-१, अध्ययनं -२,
३९१
तदितरस्य तु सर्वथा अप्रतीयमानत्वाद्, यत्तु चैतन्यं भूतेषुपलभ्यते तद्भूतेषु एव कायाकारपरिणतेष्वभिव्यज्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, तथा न भूतेभ्योऽतिरिक्तं चैतन्यं कार्यत्वान्मृदो घटवदिति, ततो भूतानामेव चैतन्याभि- व्यक्तिर्जलस्य बुद्बुदाभिव्यक्तिवदिति, अलीकवादिता चैषामात्मनः सत्त्वात्, सत्त्वंच प्रमाणोपपत्तेः, प्रमाणं च सर्वजनप्रतीतं जातिस्मरणाद्यन्यथाऽनुपपत्तिलक्षणमनेकधा शास्त्रान्तरप्रसिद्धमिति, न च भूतधर्म्मश्चैतन्यं, तदभावेऽपि तस्य भावाद्विवक्षितभूताभावेऽपि प्रेताद्यवस्थायां सर्वचैतन्यसद्भावाच्चेति,
'पंच यं खंधे भांति केई 'त्ति पंच च स्कन्धान् रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान् भणंति केचिदिति–बौद्धाः, तत्र रूपस्कन्धः - पृथिवीधात्वादयो रूपादयश्च वेदनास्कन्धः पुनः - सुखा दुःखा सुखदुःखेति त्रिविधवेदनास्वभावः विज्ञानस्कन्धस्तु रूपादिविज्ञानलक्षणः संज्ञास्कन्धश्चसंज्ञानिमित्तोदग्राहणात्मकः प्रत्ययः संस्कारस्कन्धः पुनः - पुण्यापुण्यादिधर्मसमुदाय इति, न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षादिभिरवसीयत इति,
तथा ‘मणंच मणजीविया वयंति' त्ति न केवलं पञ्चैव स्कन्धान् मनश्चमनस्कारो - रूपादिज्ञानलक्षणानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धैः, मन एव जीवो येषां मतेन ते मनोजीवास्त एव मनोजीविकाः, अलीकवादिता चैषशां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे खल्पितेऽपि परलोकासिद्धेः, तदसिद्धिश्चावस्थितस्यैकस्यात्मनोऽ- सत्त्वान्मनोमात्रात्मनः क्षणान्तरस्यैवोत्पादनात् अकृताभ्यागमादिदोषप्रसङ्गात् कथञ्चिदनुगामिनि तु मनसि जीवत्वाभ्युपगमः सम्यक्पक्ष एवेति,
तथा 'वाउजीवोत्ति एवमाहंसु' त्ति वातः - उच्छ्वासादिलक्षणो जीव इत्याहुरेके, सद्भावाभावयोर्जीवनमरणव्यपदेशात् नान्यः परलोकयाय्यात्माऽस्तीति, अलीकवादिता चैषां वायोर्जडत्वेन चैतन्यरूपजीवत्वायोगात्, तथा शरीरं सादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् 'इह भवे एगे भवे' त्ति इह भव एव - प्रत्यक्षजन्मैव एको भवः - एकं जन्म नान्यः परलोकोऽस्ति प्रमाणाविषयत्वात् तस्य - शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशो विप्रनाशस्तस्मिन् सति सर्वनाश इति - नात्मा शुभाशुभरूपं वा कर्म्म विशिष्टमशिष्यते इति एतत् एवं
उक्तप्रकारं ‘जंपंति’ जल्पन्ति, के ? - मृषावादिनः, मृषावादिता चैषां जातिस्मरणादिना जीवपरलोकसिद्धेः, तथा किमन्यद्वदन्तीत्याह- यस्मात् शरीरं सादिकमित्यादि तस्माद्दानव्रतपौषधानां - वितरणनियमपर्वोपवासानां तथा तपः - अनशनादि संयमः - पृथिव्यादिरक्षा ब्रह्मचर्यं प्रतीतं एतान्येव कल्याणं कल्याणहेतुत्वात्तदादिर्येषां ज्ञानश्रद्धादीनां तानि तथा तेषां नास्ति फलं - क्रम्मक्षयसुगतिगमनादिकं, नापि चास्ति प्राणवधालीकवचनमशुभफलसाधनतयेति गम्यं, न चैव नैव च चौर्यकरणं परदासेवनं चास्त्यशुभफलसाधनतयैव, सह परिग्रहेण यद्वर्त्तते तत्सपरिग्रहं तच्च तत्पापकर्म्मकरणं च- पातकक्रियासेवनं तदपि नास्ति किञ्चित्, क्रोधमानाद्यासेवनरूपं नरकादिका च जगतो विचित्रता स्वभावादेव न कर्म्मजनिता, तदुक्तं
॥१॥
"कण्टकस्य प्रतीक्ष्णत्वं, मयूरस्य विचित्रता ।
वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति ही ।” ति,
मृषावादिता चैवमेतेषां स्वभावो हि जीवाद्यर्थान्तरभूतस्तदा प्राणातिपातादिजनितं कर्मैवासी
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International