________________
द्वारं-१, अध्ययनं-१, मथितश्च-विलोडितो देहो येषां ते तथा, तथा यन्नत्रोपपीडनेन स्फुरन्तश्च कल्पिताश्च-छिन्ना यन्त्रोपपीडनस्फुरत्कल्पिताः केइत्य'तिकेचिदत्र-नरकेसचर्मकाः-चर्मणासह विकृत्ता-उत्क्लृप्ताः पृथक्क तचर्माण इत्यर्थः, तथा निर्मूलोल्लूनकोष्ठ- नासिकाश्छिन्नहस्तपादाः असिक्रकचतीक्ष्णकुन्तपरशूनां प्रहारैः स्फाटिता-विदारिता येते तथा, वास्या संतक्षितान्यङ्गोपाङ्गानि येषां ते तथा,
ततः पदद्वयस्य कर्मधारयः, तथा 'कलकल'त्ति कलकलायमानक्षारेण यत्परिक्षिप्तंपरिषेकः तेन गाढं-अत्यर्तं 'डझंत'त्ति दह्यमानं गात्रं येषां ते तथा, कुन्ताग्रभिन्नो जर्जरितश्च सर्वो देहो येषां ते तता ततः कर्मधारयः, विलोलिंति' विलुलन्ति लुण्ठन्तीत्यर्थः महीतले-भूतले 'सूणियंगमंग'त्ति जातश्वयथुकाङ्गोपाङ्गाः, वाचनान्तरे तु निर्गताग्रजिह्वाः, _ 'तत्थ यत्ति तथा च-महीतलविलोलने वृकादिभिः विक्षिप्यन्त इति योगः, तत्र वृकाईहामृगाः ‘सुणग'त्तिकौलेयकाःश्रृगालाः-गोमायवःकाकाः-वायसाः मार्जारा-बिडालाःसरभाःपरासराः द्वीपिकाः-चित्रकाः 'विग्घय'त्ति वैयाघ्राः व्याधापत्यानि शार्दूला-व्याघ्राः सिंहाः प्रतीताः,एते च ते दर्पिताश्च-हप्ताः क्षुदभिभूताश्च-बुभुक्षिता इति ते तथा तैः, नित्यकालमनशितैरिवानशितैः-निर्भोजनैःघोरा-दारुणक्रियाकारिणः आरसन्तः-शब्दायमानाः भीमरूपाश्च ये ते तथा तैः, आक्रम्य दढदंष्ट्राभिर्गाढ-अत्यर्तं 'डक्क'त्ति दृष्टाः ‘कड्डिय'त्ति कृष्टाश्च आकर्षिता येते तथा, सुतीक्ष्णनखैः स्फाटित ऊर्दो देहो येषां ते तता ततः पदद्वयस्य कर्मधारयः, विक्षिप्यन्तेविकीर्यन्ते ‘समन्ततः' सर्वतः, किम्भूतास्ते?
विमुक्तसन्धिबन्धनाः-श्लथीकृताङ्गसन्धानाः तथा व्यङ्गितानि-विकलीकृतान्यङ्गानि येषां तेतथा, तथा कङ्काः-पक्षिविषशेषाः कुररा-उत्क्रोशाः गृध्राः-शकुनिविशेषाः घोरकष्टा-अतिकष्टाश्च येवायसास्तेषांगणास्तश्च 'पुणो'त्तिसमुच्चयार्थः स्वराः-कर्कशाः स्थिरा-निश्चलाः हेढा-अभङ्गुरा नखा येषां ते तथा लोहवत् तुंडं येषां ते तथा ततः कर्मधारयस्तैरवपत्य-उपनिपत्य पक्षैराहताः तीक्ष्णनखैर्विक्षिप्ता आकृष्टा जिह्वा आञ्छिते च-आकृष्टे नयने-लोचने निर्दयं च निष्कृपं यथा भवकत्येवं उल्लुगं'तिअवरुग्णं भग्नं विकृत्तंच वदनं येषांतेतथा, पाठान्तरेणअवलुग्णानि छिन्नानि विकत्तानि गात्राणि येषां ते तथा, उक्रोशन्तश्च-क्रन्दन्तः उत्पतन्तो निपतन्तो भ्रमन्तः पूर्वकर्मोदयोपगता इतिचपदचतुष्टयं व्यक्तं, पश्चादनुशयेन-पश्तचात्तापेन दह्यमानाः निन्दन्तोजुगुप्समानाः 'पुरेक्खडाइं पूर्वभवकृकतानि कर्माणि-क्रियाः पापकानि-प्राणातिपादादीनि,
ततः 'तहिं २'ति तस्यां २ रत्नप्रभादिकायां पृथिव्यां प्रकृष्टादिस्थितिके नरके ताशानि जन्मान्तरे उपार्जितानि परमाधार्मिकोदीरितपरस्परोदीरितक्षेत्रप्रत्ययरूपाणि
"उस्सन्नचिक्कणाइंति उस्सन्नं-प्राचुर्येण चिक्कणाई-दुर्विमोचानि दुःखानि अनुभूयततश्च निरयादायुःक्षयेणोवृत्ताः सन्तो बहवो गच्छन्ति तिर्यग्वसति-तिर्यग्योनि, यतोऽल्पा एव मनुष्येषूत्पद्यन्ते, दुःखोत्तारां अनन्तोत्सर्पिण्यवसर्पिणीरूपकायस्थितिकत्वात् तस्यां सुदारुणां दुःखाश्रयकत्वात् जन्मजरामरणव्याधीनांयाः परिवर्तनाः-पुनःपुनर्भवनानिताभिररघट्टइवारघट्टो या सा तथा तां तिर्यग्वसतिं जलस्थलखचराणां परस्परेण विहिंसनस्य-विविधव्यापादनस्य प्रपञ्चो-विस्तारो यस्यां सा तथा तां, तस्यां च इदं वक्ष्यमाणप्रत्यक्षं जगप्रकटं न केवलमागमगम्यं किन्तु जङ्गमजन्तूनां
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only