________________
३८०
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ प्रहारो लकुटादिना छिद्धि खङ्गादिना भिंद्धि कुन्तादिना ‘उप्पाडेहित्ति उत्पाटय भूतलादुत्क्षिप 'उक्खणाहित्ति उत्खनाक्षिगोलकबाह्वादिकं 'कत्ताहि'त्ति कृन्त कर्त्तय नासादिकं विकृन्त च-विविधप्रकारैः ‘भुज्जो'त्ति भूयः एकदा हन्त ! पुनरपि पाठान्तरे भञ्ज-आमईय हन-ताडय, क्रियार्थो हनशब्दो निपातः,
विहण'त्ति विशेषेण ताडय 'विच्छुभ'त्ति विक्षिप त्रपुकादिकं मुखे विकीर्णं वा कुरु, वाचनान्तरे विच्छुभ निष्कालयेत्यर्थः, ‘उच्छुभ'त्ति आधिक्येन क्षिप-प्रवेशयेत्यर्थः, आकृषअभिमुखमाकर्षणं कुरु विकृष-विपरीतं विकर्षणं कुरु, किं न जल्पसि?, वाचनान्तरे तु किं न जानासि?, स्मर हे पाप! कर्माणि दुष्कृतानि,
एवं-अमुना प्रकारेण यद्वदनं-नरकपालप्रतिपादनं तेन महाप्रगल्भः-अतिस्फारोयः स तथा, पडिसुय'तिप्रतिश्रुप्रतिशब्दकस्तद्रूपोय; शब्दस्तेन सङ्कुलःत्रासकःवाचनान्तरेतु बीहणओ तासणओ पइभओ अइभउ'त्ति एकार्थाः, सदा-सर्वदा, केषां त्रासक इत्याह कदथ्यमानानां-यात्यमानानां निरयगोचराणां-नरकवर्तिनां 'महानगरडज्झमाणसरिसो'त्ति दह्यमानमहानगरघोषसशो निरअघोषो-महाध्वनिः श्रूयतेऽनिष्टः
'तहियं तितत्र नरके, केषांसम्बन्धीत्याह-'नेरइयाणं किंभूतानामित्याह-यात्यमानानांकदर्थ्यमानानांयातनाभिः-कदर्थनाप्रकारैः, किंतेत्तिकास्ताः?-असिवनं-खड्गाकारपत्रवनं, दर्भवनं प्रतीतं, दर्भपत्राणि छेदकानि तदग्राणि च भेदकानि भवन्तीति तद्यातनाहेतुत्वेनोक्तं, यंत्रप्रस्तरा-घरट्टदिपाषाणा यंत्रमुक्तपाषाणा वा यन्त्राणि च पाषाणाश्चेति वा यन्त्रपाषाणाः सूचीतलं-ऊर्द्धमुखशूचीकंभूतलं क्षारवाप्य:-क्षारद्रव्यभृतवाप्यः ‘कलकलंत'त्ति कलकलायमानं यत् त्रपुकादि तद्म ता वैतरण्यभिधाना या नदी सा कलकलायमानवैतरणी कदम्बपुष्पाकारा वालुका कदम्बवालुकाज्वलिताया गुहा-कन्दरा सा तथा ततोद्वन्द्वः ततोऽसिवनादिषुयन्निरोधनंप्रक्षेपस्तत्तथा, उष्णोष्णेअत्युष्णे 'कण्टइल्ले'त्ति कण्टकवति दुर्गमे कृच्छ्रगतिके रथे-शकटे यद्योजनंगवामिव तत्तथा ततोलोहपथे-लोहमयमार्गेयद्गमनं-स्वयमेवावाहनंच-अपरैर्गवामिव तत्तथा, ततः पदत्रयस्यद्वन्द्वः, ‘इमेहिन्तिएभिर्वक्ष्यमाणैर्विविधैरायुधैः परस्परंवेदनामुदीरयन्तीति योगः किं ते'त्तितद्यता मुद्गरः-अयोधनः मुसुण्ढिः-प्रहणविशेषः 'करकयं तिक्रकचं-करपत्रं शक्तिः-त्रिशूलंहलं-लाङ्गलं गदा-लकुटविशेषः मुशलंचक्रंकुन्तं च प्रतीतंतोमरो-बाणविशेषः शूलं प्रतीतं 'लउड;त्ति लकुटं भिंडिमालः-प्रहणविशेषः सद्धलो-भल्लः पट्टिसः-प्रहरणविशेषः 'चर्मेष्टः' चर्मवेश्टितपाषाणविशेषो द्रुघणोमुद्गरविशेषः मौष्टिको-मुष्टिप्रमाणः पाषाण एव असिखेटकं-असिना सह फलकं खङ्गः-केवल एव चापं धनुः नाराचःआयसो बाणः कणकोबाणविशेषाः कल्पनी-कर्तिकाविशेषः वासी-काष्ठतक्षकोपकरणविशेषः परशुः-कुठारविशेषः तत एतेषां द्वन्द्वः ततस्ते च ते टङ्गकतीक्ष्णा अग्रतीक्ष्णा निर्मलाश्चेति कर्मधारयः, ततस्तैरिति व्याख्येयं, तृतीयाबहुवचनलोपदर्शनादिति, अन्यैश्चेवमादिभिः अशुभै(क्रियैः प्रहरणशतैरभिघ्नन्तः अनुबद्धतीव्रवैरा-अविच्छिन्नोत्कटवैरभावाः परस्परं-अन्योऽन्यं वेदनामुदीरयन्ति, नारका एव तिसृभ्यः नरकपृथ्वीभ्यः, परतो नरकपालानां गमनाभावात्,
'तत्थे तितत्रसपरस्पराभिहननेन वेदनोदीरणेणमुद्गरप्रहारचूर्णितोमुसिण्ढिभिः सम्भग्नो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org