SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३७२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/७ चक्षुाह्यान्, कानेवंविधानित्याह-त्रसकायः-त्रसनामकर्मोदयवर्तिजीवराशिस्तत्र भवास्त्रसकायिकाः तान्, कियतइत्याह-असङ्ख्यातान्, तथा स्थावरकायांश्च-सूक्ष्माश्चबादराश्चतत्तन्नामकर्मोदयवर्तिनः, प्रत्येकशरीरमिति नामकर्मविशेषो येषां ते प्रत्येकशरीरनामानस्ते च साधारणाश्च-साधारणशरीरनामकर्मोदयवर्तिन इति द्वन्द्वोऽतस्तान्, कियतः ?-अनन्तान् साधारणानेव, शेषस्थावराणामसंख्येयत्वात्, जीवानिति योगः, किमिति इत्याह-ध्नन्ति, किम्भूतान्? -अविजानतश्चस्ववधं, परिजानतश्च-सुखदुःखैरनुभवतः एकेन्द्रियान्, अथवा स्ववधमजानतः एकेन्द्रियान् तमेव परिजानतस्त्रसानिति जीवान्-जन्तून् एभिर्विविधैः कारणैः-प्रयोजनैः, किंते'त्तिकिंतत्तद्यथेतिवा, कर्षणंकृषिः पुष्करिणी-पुष्करवती चतुष्कोणा वा वापी निष्पुष्करा वृत्ता वा 'वप्पिण'त्ति केदारः कूपसरस्तडागाः प्रतीताः चितिःभित्त्यादेश्चयनंमृतकदहनार्थंदारुविन्यासोवावेदिः-वितर्दिका खातिका-परिखाआरामो-वाटिका विहारो-बौद्धाद्याश्रयः स्तूपः-चितिविशेषःप्राकारः-शालं द्वारं-प्रतीतंगोपुरं-प्रतोली कपाट इत्यन्ये अट्टालकः-प्राकारोपरिवत्याश्रयविशेषः चरिकाः-नगरप्राकारयोरन्तरेऽष्टहस्तप्रमाणो मार्गः सेतुः-मार्गविशेषः पालिर्वा सङ्कङ्कमो-विषमोत्तरणमार्गःप्रासादो-नरेन्द्राश्रय; विकल्पाः-तभेदा भवनानि-चतुःशालादीनि गृहाणि-सामान्यानि शरणानि-तृणमयानि लयनानि-पर्वतनिकुट्टितगृहाणि आपणा-हट्टाः चैत्यानि-प्रतिमाः देवकुलानि-सशिखरदेवप्रासादाः चित्रसभाः-चित्रकर्मवन्मण्डपाः प्रपा-जलदानस्थानंआयतनं-देवायतनंआवसथ;परिव्राजकाश्रयः भूमिगृहं प्रतीतं मण्डपः-छायाद्यर्थः पटादिमय आश्रयविशेषः एतेषां द्वन्द्वस्तत एतेषां कृते-निमित्ते पृथिवीं हिसंति इति सम्बन्धः, भाजनानि-अमत्राणि सौवर्णादीनि भाण्डानि-तान्येव मृन्मयानि क्रयाणकानि वा लवणादीनि उपकरणानि-उदूखलादीनि एषांसमाहारद्वन्द्वः ततस्तस्य विविधस्य चार्थाय हेतवे पृथिवीं-पृथ्वीकायिकान् हिंसन्ति मदन्बुद्धिकाः,तथा जलं च-अप्कायिकांश्च हिंसंतीति वर्तते, मज्जनकं-स्नानं पानं भोजनं च प्रतीतं वस्त्रधावनं-वासःक्षालनं शौचः-आचमनमेतदादिभिः कारणैरिति प्रक्रमः, तथा पचनं पाचनं च ओदनादेः जलवणन्ति-स्वतः परतो वाऽग्नेरुद्दीपनं विदर्शनं अन्धकास्थवस्तुप्रकाशनं एगैः कारणैः चः समुच्चये अग्नि हिंसंति, तथा सूर्य प्रतीतं व्यञ्जनं-वायूदीरकं तालवृन्तं तदेव द्विपुटादि 'पेहुणं ति मयूराङ्गं मुखं-आस्यं करतलं-हस्तः सर्गपत्रं-वृक्षविशेषपर्णं वस्त्रं-प्रतीतं, एतदादिभिर्वातोदीरणवस्तुभिरनिलं-वायुं हिंसन्तीति, तथा अगारंगेहं परियारो'त्ति परिचारो-वृत्तिः खग्रादिकोशो वा भक्ष्याणि-मोदकादीनि 'खरविशदमभ्यवहार्य भक्ष्य मिति वचनात् भोजनानि-ओदनादीनि शयनानि शय्याः आसनानि-विष्टराणि फलकानि-अवष्टम्भनद्यूतादिनिमित्तानि मुशलान्युदूखलाश्च प्रसिद्धाः ततानि-वीणादीनि विततानि-पटहादीन्यातोद्यानि-वाद्यानि वहनानि-यानपात्रणि वाहनानिशकटादीनि मण्डपाः प्रतीताः विविधभवनानि-चतुःशालादीनि तोरणानि प्रतीतानि विटङ्क:-कपोतपाली देवकुलंप्रतीतंजालकंछिद्रान्वितोगृहावयवविशेषःअर्द्धचन्द्रः-सोपानविशेषः निर्वृहकं-द्वारोपरितनपार्श्वविनिर्गतदारुचन्द्रशालिका–प्रासादोपरितनशाला वेदिका-वितर्दिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy