________________
३७१
द्वार-१, अध्ययनं-१, यकृद्-दक्षिणकुक्षौ मांसग्रन्थिः फिप्पिसं-उदरमध्यावयवविशेषः मस्तुलिङ्गं०कपालभेजकं हृदयं-हृदयमांसं अंत्रं-पुरीतत् पित्तं-दोषविशेषः फोफसं-शरीरावयविशेषः, दन्ता-दशनाः, एतेषां द्वन्द्वः, तत एतेभ्य इदमित्येवं विगृह्यार्थशब्दो योजनीयः, चादिनिमित्तमित्यर्थः, तथाऽस्थीनि-कीकशानि मजा-तन्मध्यावयवविशेषः नखाः-करजाः नयनानि-लोचनानि कर्णाः-श्रवणाः
'हारुणि'त्तिस्नायुः नक्कत्ति-नासिकाधमन्यो-नाड्यः श्रृङ्गं-विषाणंदंष्ट्रा-दशनविशेषः पिच्छं-पत्रं विषंकालकूट विषाणं-हस्तिदन्तः वाला:-केशाः एतेषां द्वन्द्वः ततस्त एव हेतुरित्येवं हेतुशब्दो योज्यः, ततःषष्ठ्र्थे द्वितीया, ततोऽयमर्थः--अस्थिमज्जादिहेतोज़न्तीति प्रक्रमः, तथा हिंसन्ति च बहुसङ्किलष्टकर्माण इति प्रक्रमः, भ्रमराः पुरुषतया लोकव्यवहता मधुकर्यस्तु स्त्रीत्वव्यवहृतास्तद्गणान्-तत्समूहान्रसेषुगृद्धामधुग्रहणार्थमिति भावः, तथैव हिंसन्त्येवेत्यर्थः,
__ त्रीन्द्रियान् यूकामत्कुणादीन् शरीरोपकरणार्थं शरीरोपकाराय यूकादिकृतदुःखपरिहारार्थमथवाशरीराय उपकरणायउपधये, अयमर्थः-शरीरसंस्कारप्रवृत्ता उपकरणसाधनसंस्कारप्रवृत्ताश्च विविधचेष्टाभिस्तान् धनन्तीति, किंभूतान् ?- कृपणान् कृपास्पदभूतानिति, तथा द्वीन्द्रियान् बहून् ‘वत्थोहरपडिमंडणट्ठ'त्ति वस्त्राणि-चीवराणि 'उहर'त्ति उपगृहाणि आश्रयविशेषास्तेषांपरिमण्डनार्थं-भूषार्थं, कृमिरागेण हिराज्यमानानि श्रूयन्ते वस्त्राणि, आश्रयास्तु मण्ड्यन्ते एव शङ्खशुक्तिचूर्णेनेति, अथवा वस्त्रार्थं उपगृहार्थं परिमण्डनार्थं चेति, तत्र वस्त्रार्थं पट्टसूत्रसम्पादने कृमिहिंसा सम्भवति, आश्रयार्थं मृत्तिकाजलादिद्रव्येषु पूतरकादिघातो भवति, परिमण्डनार्थंहारादिकरणेशुक्त्यादिद्वीन्द्रियाणामिति, अन्यैश्चैवमादिकैर्बहुभिः कारणशतैरबुधाबालिशा ‘इह हन्ति' इह-जीवलोके हिंसंति-अन्ति त्रसान् प्राणान्,___-तथा इमांश्चप्रत्यक्षान्एकेन्द्रियान्-पृथिवीकायिकादीन् वराकाः-तपस्विनः समारम्भन्त इतियोगः, न केवलमेकेन्द्रियानेवसांश्चान्यासंतदाश्रितांश्चैव, किंभूतान् ? -तनुशरीरान्अत्राणान् अनर्थप्रतिघातकाभावात् अशरणान् अर्थप्रापकाभावात् अत एव अनाथान् योगक्षेममकारिनायकाभावात् अबान्धवान् स्वजसम्पाद्यकार्याभावात् कर्मनिगडबद्धानिति व्यक्तं, तथा अकुशलपरिणामोदयावर्जितत्वेन मन्दबुद्दिश्च मिथ्यात्वोदयादे यो जनो-लोकस्तेन दुर्विज्ञेया ये ते तथा तान्, पृथिव्या विकारा पृथ्वीमयास्तान् पृथ्वीममयान् पृथ्वीकायिकानित्यर्थः, तथा पृथिवीसंसृतान् अलसादित्रासान्, एवं जलमयान्-अप्कायिकान् जलगतान् पूतरकादित्रसान् सैवलादिवनस्पतिकायिकांश्च अनलः-तेजस्कायः अनिलो-वायुकायस्तृणवनस्पतिगणोबादरवन्पतीनां समुदाय एतन्निसृतांश्च-एकतदुपजीवकांश्च त्रसानिति हृदयं 'तम्मयतज्जिय'त्ति तेषामनलानिल- तृणवनस्पतिगणानां विकारास्तन्मया अनलकायिकादय एव तथा तेषामेवअनलादीनां जीवास्तज्जीवाः तद्योनिकासाइत्यर्थः, तन्मयाश्च तज्जीवाश्चेतितन्मयतज्जीवास्तांश्चैव, पाठान्तरेण तन्मयजीवाश्चेति,
किंभूतांस्तान् ? - 'तदाहारे'त्ति ते-पृथिव्यादय आधारो येषां ते तदाधारास्तानेव वा पृथिव्यादीनाहारयन्तीति तदाहारास्तान्, तेषामेव पृथिव्यादीनां परिणता वर्णगन्धरसस्पर्श बोन्दिः-शरीरं सैव रूपं-स्वभावो येषां ते तथा तान्, अचाक्षुषान्-न चक्षुषा दृश्यांश्चाक्षुषांश्च
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org