________________
३६६
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/६
अभिधानानीमानि-वक्ष्यमाणतया प्रत्यक्षासन्नानि गौणानि-गुणनिष्पन्नानि भवति त्रिंशत्, तद्यथा-प्राणानां-प्राणिनां वधो-घातः प्राणवधः १ 'उम्मूलणा सरीराउ'त्ति वृक्षस्योन्मूलनेव उन्मूलना-निष्काशनं जीवस्य शरीराद्-देहादिति २,
'अवीसंभो'त्ति अविश्वासः, प्राणिवधप्रवृत्तो हि जीवानामविश्रभणीयो भवतीति प्राणवधस्याविश्रम्भकारणत्वादविथम्भव्यपदेश इति ३, 'हिंसविहिंस'त्ति हिंस्यंत इति हिंस्याजीवास्तेषां विहिंसा-विधातो हिंस्यविहिंसा, अजीवविधाते किल कथंचिप्राणवधो न भवतीति हिंस्यानामिति विशेषणं विहिंसाया उक्तमथवा हिंसा विहिंसा चैकैवेह ग्राह्या द्वयोरुपादानेऽपि बहुसमत्वादिति, अथवा हिंसनशीलोहिं:-प्रमत्तः 'जो होइअप्पमत्तो अहिंसओ हिंसओइयरो'त्ति वचनात् तत्कृता विशेषवती हिंसा हिंविहिंसा ४,
तथा 'अकिच्चं वत्ति तथा-तेनैव प्रकारेण हिंस्यविषयमेवेत्यर्थः, अकृत्यं च अकरणीयं च, चशब्द एकार्थिकसमुच्चयार्थः ५, घातना मरणा च प्रतीते, चकारः समुच्चयार्थ एव ६-७, 'वहण'त्ति हननं ८ 'उद्दवण'त्ति उपद्रवणमपद्रवणं वा ९
_ 'तिवायणायेतित्रयाणां मनोवाक्कायानामथवा त्रिभ्योदेहायुष्केन्द्रियलक्षणेभ्यः प्राणेभ्यः पातना-जीवस्य भ्रसंना त्रिपातना, उक्तंच-'कायवइमणोतिण्णि उ अहवा देहाउइंदिअप्पाणा' त्यादि, अथवा अतिशयवती यातना-प्राणेभ्यो जीवस्यातिपातना तीतपिधानादिशब्देष्वि - वाकारलोपात्, चकारोऽत्रापि समुच्चयार्थ इति १०,
'आरंभसमारंभो'त्तिआरभ्यन्ते-विनाश्यन्तइतिआरम्भा जीवास्तेषांसमारम्भः-उपमर्दः अथवा आरम्भः-कृष्यादिव्यापारस्तेन समारम्भोजीवोपमईः अथवा आरम्भो-जीवानामुपद्रवणं तेन सह समारम्भः-परितापनमित्यारम्भसमारम्भः प्राणवधस्य पर्याय इति, अथवा आरम्भसमारम्भशब्दयोरेकतर एव गणनीयो, बहुसमरूपत्वादिति ११,
'आउयकम्मस्सुवद्दवो भेदनिट्ठवणगालणा य संवट्टगसंखेवो'त्ति आयुः कर्मण उपद्रव इति वा तस्यैव भेद इति वा तनिष्ठापनमिति वा तद्गालनति वा, चः समुच्चये, तत्संवर्तक इति वा, इह स्वार्थे कः, तत्सङ्ग्रप इति वा, प्राणवधयस्य नाम, एतेषां च उपद्रवादीनामेकतरस्यैव गणनेन नाम्नां त्रिंशत्पूरणीया, आयुश्छेदलक्षणार्थापेक्षया सर्वेषामेकत्वादिति १२
___ मृत्युः १३ असंयमः १४ एतौ प्रतीतौ तथा कटकेन-सैन्येन किलिओन वाआक्रम्य मर्द्दनं कटकमर्दनं, ततो हि प्राणवधो भवतीत्युपचारात् प्राणवधः कटकमद्देनशब्देन व्यपदिश्यत इति १५ 'वोरमणं तिव्युपरमणप्राणेभ्योजीवस्यव्युपरतिः,अयंचव्युपरमणशब्दोऽन्तर्भूतकारितार्थः, प्राणवधपर्यायो भवतीति भावनीयं १६ परभवसङ्कमकारक' इतिप्राणवियोजितस्यैव परभवे सङ्कङ्कान्तिसद्भावात् १७
दुर्गतौ नरादिकायां कर्तारं प्रपातयतीति दुर्गतिप्रपातः दुर्गतौ वा प्रपातो यस्मात् स तथा १८ 'पापकोवो यत्ति पापं-अपुण्यप्रकृतिरूपं कोपयति-प्रपञ्चयति पुष्णाति यः स पापकोप इति अथवा पापंचासौ कोपकार्यत्वात् कोपश्चेति पापकोपः चः समुच्चये १९ प पापलोभो'त्ति पापं-अपुण्यं लुभ्यति-प्राणिनि स्निह्यति संश्लिष्यतीतियावत् यतः स पापलोभः, अथवा पापं चासौ लोभश्च तत्कार्यत्वात्पापलोभः २० 'छविच्छेओ'त्ति छविच्छेदः-शरीरच्छेदनं तस्य च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org