SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ द्वारं - 9, अध्ययनं -१, 119 11 नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः १० प्रश्नव्याकरणसूत्रम् सटीकं (दसमं अङ्गसूत्रम्) (मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) आश्रवद्वारे अध्ययनं - १ - प्राणवधः ॥२॥ वृ. श्रीवर्द्धमानमानम्य, व्याख्या काचिद् विधीयते । प्रश्नव्याकरणाङ्गस्य, वृद्धन्यायानुसारतः ॥ अज्ञा वयं शास्त्रमिदं गभीरं, प्रायोऽस्य कूटानि च पुस्तकानि । सूत्रं व्यवस्थाप्यमतो विमृश्य, व्याख्यानकल्पादित एव नैव ॥ वृ. अथ प्रश्नव्याकरणाख्यं दशमाङ्गं व्याख्यायते - अथ कोऽस्याभिधानस्यार्थः ?, उच्यते, प्रश्नाः- अङ्गुष्ठादिप्रश्नविद्यास्ता व्याक्रियन्ते - अभिधीयन्तेऽस्मिन्निति प्रश्नव्याकरणं, क्वचित् 'प्रश्नव्याकरणदशा' इति दृश्यते, तत्र प्रश्नानां विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरा दशा-दशाध्ययनप्रतिबद्धाः ग्रन्थपद्धतय इति प्रश्नव्याकरणदशाः, अयं च व्युत्पत्त्यर्थोऽस्य पूर्वकालेऽभूत्, इदानीं त्वाश्रवपञ्चकसंवरपञ्चकव्याकृतिरेवेहोपलभ्यते, अतिशयानां पूर्वाचार्यैरैदंयुगीनानामपुष्टालम्बनप्रतिषेविपुरुषापेक्षयोत्तारितत्वादिति, अस्य च श्रीमन्महावीरवर्द्धमानस्वामिनसम्बन्धी पञ्चमगणनायकः श्रीसुधर्म्मस्वामी सूत्रतो जम्बूस्वामिनं प्रति प्रणयनं चिकीर्षुः सम्बन्धाभधेयप्रयोजनप्रतिपादनपरां 'जम्बू' इत्यामन्त्रपदपूर्वं 'इणमो' इत्यादिगाथामाहमू. (१) 'जंबू' - ' तेणं कालेणं तेणं समएणं चंपानाम नगरी होत्था, पुन्नभद्दे चेइए वणसंडे असोगवरपायवे पुढविसिलापट्टए, तत्थ णं चंपाए नयरीए कोणिए नाम राया होत्था, धारिणी देवी, तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे नाम थेरे जाइसंपन्ने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विनयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघवसंपन्ने ओयंसी तेयंसी बच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोभे जियनिद्दे जियइंदिए जियपरीस हे जीवियासमरणभयविप्पमुक्के तवप्पहाणे गुणप्पहाणे मुत्तिप्पहाणे विज्जापहाणे मंतप्पहाणे बंभप्पहाणे वयप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे चोहसपुव्वी चउनाणोवगए पंचहिं अनगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा नयरी तेणेव उवागच्छइ जाव अहापडिरूवं उग्गहं For Private & Personal Use Only www.jainelibrary.org Jain Education International ३६१
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy