________________
३३
श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-१ तेषु उपवनेषु, तथा मेघरसितेन हृष्टतुष्टा-अतिहष्टाश्चेष्टिताश्च-कृतचेष्टा ये ते तथा तेषु, इदं सप्तमीलोपात्, हर्षवशात्प्रमुक्तो मुत्कलीकृतः कण्ठो-गलो यस्मिन्सतथासचासौ केकारवश्व तं मुञ्चत्सु बर्हिणेषु-मयूरेषु, तथा ऋतुवशेन-कालविशेषबलेन यो मदस्तेन जनितं तरुणसहचरीभिः-युवतिमयूरीभिः सह प्रनृत्तं-प्रनर्तनं येषां ते तथा तेषु, बर्हिर्णेष्वित्यन्वयः,
-नवः सुरभिश्च यः शिलीन्ध्रकुटजकन्दलकदम्बलक्षणानां पुष्पाणां गन्धस्तेन या घ्राणिः-तृप्तिस्तां मुञ्चत्सु गन्धोत्कर्षतां विदधानेष्वित्यर्थः उपवनेषु-भवनासन्नवनेषु, तथा परभृतानां-कोकिलानांयद्रुतं-रवोरिभितं-स्वरघोलनावत्तेन संकुलानियान्युपवनानि तानि तथा तेषु, 'उद्दाइंत'त्ति शोभमाना रक्ता इन्द्रगोपकाः-कीटविशेषाः स्तोककानां-चातकानां कारुण्यप्रधानं विलपितं च येषु तानि तथा तेषूपवनेष्वित्यन्वयः, तथा अवनततृणैर्मण्डितानि यानितानितथातेषु, द१राणांप्रकृष्टंजल्पितंयेषुतानितथा तेषुसंपिण्डिता-मिलिताः दप्ता–दर्पिताः भ्रमराणां मधुकरीणां च ‘पहकर'त्ति निकरा येषु तानि तथा, 'परिलिन्त'त्ति परिलीयमानाः संश्लिष्यन्तोमत्ताः षट्पदाः कुसुमासवलोला:-मकरन्दलम्पटाः मधुरं-कलंगुअन्तः-शब्दायमानाः देशभागेषुयेशांतानि तथा ततः कर्मधारयःततस्तेषुउपवनेषु, तथापरिश्यामिताः-कृष्णीकृताः सान्द्रमेघाच्छादनात्, पाठान्तरेण परिभ्रामिताः-कृतप्रभाभ्रंशाःचन्द्रसूरग्रहाणां यस्मिन्प्रनष्टाच नक्षत्रतारकप्रभा यस्मिंस्तत्तथा तस्मिन्नम्बरतले इति योगः,
-इन्द्रायुधलक्षणो बद्ध इव बद्धः चिह्नपट्टो-ध्वजपटो यस्मिंस्तत्तथा तत्राम्रतले-गगने उड्डीनवलाकापङ्कितशोभमानमेघवृन्देऽम्बरतले इति योगः, तथा कारण्डकादीनां पक्षिणां मानससरोगमनादि प्रत्यौत्सुक्यकरे संप्राप्ते-उक्तलक्षणयोगेन समागते प्रावृषि काले, किंभूता अम्मयाओ? इत्याह- 'हायाओ'इत्यादि, किं ते इति किमपरमित्यर्थः, वरौ पादप्रकाप्तनूपुर मणिमेखला रत्लकाञ्ची हारश्च यासां तास्तथा रचितानि-न्यस्तानि उचितानि-योग्यानि कटकानि-प्रतीतानिखुड्डकानिच-अङ्गुलीयकानियासांतास्तथा विचित्रैर्वरवलयैः स्तम्भिताविव स्तम्भितौ भुजौ यासांतास्तथा ततः पदत्रयस्य कर्मधारयः।।
तथा "कुंडलोजोतिताननावरपायपत्तनेउरमणिमेहलाहाररइयउचियकडगखुड्डयएगावलिकंठमुरयतिसरयवरवलयहेमसुत्तकुंडलुञ्जोवियाणणाओ"त्ति पाठान्तरं तत्र वरपादत्राप्तनूपुरमणिमेखलाहारास्तथा रचितान्युचितानि कटकानिचखुड्डकानिचएकावलीच-विचित्रमणिकृता एकसरिका कण्ठमुरजश्च-आभरणविशेषः त्रिसरकं च वरवलयानि च हेमसूत्रकं च-संकलकं यासांतास्तथा, तथा कुण्डलोद्योतिताननास्ततो वरपादप्राप्तनूपुरादीनां कर्मधारयः रलविभूषिताङ्गयः नासानिः श्वासवातेनोह्यते यल्लधुत्वात्तत्तथा चक्षुर्हरं दृष्टयाक्षेपकत्वात्,
-अथवा प्रच्छादनीयाङ्गदर्शनाच्चक्षुर्हरति धरति वा निवर्तयति यधुवत्वात्तत्तथा, वर्णस्पर्शसंयुक्तं वर्णस्पर्शातिशायीत्यर्थः हयलालाया-अश्वलालायाः सकाशात् 'पेलव'त्ति पेलवत्वेनमूदुत्वलघुत्वलक्षणेनातिरेकः-अतिरिक्तत्वंयस्यतत्तथाधवलंचतत्कनकेनखचितंमंडितमन्तयोःअञ्चलयोः कर्मवानलक्षणं यस्य तत्तथा तच्चेति वाक्यं, आकाशस्फटिकस्य सध्शी प्रभा यस्य धवलत्वात्तत्तथा, अंशुकं-वस्त्रविशएषं प्रवरमिहानुखारलोपो दृश्यः परिहिताः17131
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org