________________
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/१८ वर्द्धितुंप्रवृत्तेषुअभ्युनतेषु-गगनमण्डलव्यापनेनोन्नतिमत्सुअभ्युत्थितेषु-प्रवर्षणाय कृतोद्योगेषु सगर्जितेषु-मुक्तमहाध्वनिषु सविद्युत्केषु प्रतीतं 'सफुसिएसुत्ति प्रवृत्तप्रवर्षणबिन्दुषु सस्तनितेषु-कृतमन्दमन्दध्वनिषुमातेन-अग्नियोगेनयोधौतः-शोधितोरूप्यपट्टो-रजतपत्रकं सतथाअङ्गो-रलविशेषः शङ्खचन्द्रौ-प्रतीतौ कुन्दः-पुष्पविशेषःशालिपिष्ट-राशिः-व्रीहिविशेषचूर्णपुञ्ज एतत्समा प्रभा येषां ते तथा तेषु, शुक्लेष्वित्यर्थः,
तथा चिकुरो-रागद्रव्यविशेष एव हरितालो-वर्णकद्रव्यं भेदस्तद्गुटिकाखण्ड चम्पकसनकोरण्टकसर्षपग्रहणात्तत्पुष्पाणि गृह्यन्ते पद्मरजः-प्रतीतं तत्समप्रभेषु, वाचनान्तरे सनस्थाने काञ्चनं सर्षपस्थाने सरिसगोत्ति पठ्यते, तत्र चिकुरादिभिः सदृशाश्च ते पद्मरजः समप्रभाश्चेति विग्रहोऽतस्तेषु पीतेष्वित्यर्थः, तथा लाक्षारसेन सरसेन सरसरक्तकिंशुकेन उवासुमनोभिः रक्तबन्धुजीवकेन, बन्धुजीवकं हि पञ्चवर्णं भवतीति रक्तत्वेन विशिष्यते, जातिहिङ्गुलकेन-वर्णकद्रव्येण, स कृत्रिमोऽपि भवतीति जात्या विशेषितसरसकुडमेन, नीरसं हि विवक्षितवर्णोपेतं न भवतीति सरसमुक्तं,
तथा उरभ्रः-ऊरणः शशः-शशकस्तयो रुधिरेण-रक्तेन इन्द्रगोपको-वर्षासुकीटकविशेषस्तेन च समाप्रभा येषांते तथा तेषु रक्तेष्वित्यर्थः, तथा बर्हिणो-मयूराः नीलं-रत्नविशेषः गुलिका-वर्णकद्रव्यं शुकचाषयोः पक्षिविशेषयोः पिच्छंपत्रं भृङ्गः-कीडविशेषस्तस्य पत्रं-पक्षः सासको-बीयकनामा वृक्षविशेषःअथवा सामत्तिपाठः तत्र श्यामा-प्रियङ्गुः नीलोत्पलनिकरःप्रतीतः नवशिरीषकुसुमानि च नवशावलं-प्रत्यग्रहरितं एतत्समप्रभषु नीलप्रभेषु नीलवर्णोवित्यर्थः,तथा जात्यं-प्रधानं यदञ्जनं-सौवीरकंभृङ्गभेदः-भॉङ्गाभिधानंः कीटविशेषः विदलिताङ्गारोवा रिष्ठकं-रत्नविशेषः भ्रमरावली प्रतीता गवलगुलिका-महिषशृङ्गगोलिका कज्जलं-मषी तत्समप्रभेषु कृष्णेष्वित्यर्थः, स्फुराद्विद्युत्काश्च सगर्जिताश्च येतेषु,
-तथा वातवशेन विपुले गगनेचपलं यथा भवत्येवं परिसक्किरेसुत्तिपरिष्वष्कितुंशीलं येषां ते तथा तेषु, तथा निर्मलवरवारिधाराभिः प्रगलितः-क्षरितः प्रचण्डमारुतसमाहतः सन् 'समोत्थरंत'त्ति समवस्तृणंश्च-महीपीठमाक्रामन् उपर्युपरि च सातत्येन त्वरितश्च शीघ्रो यो वर्षो-जलसमूहः स तथा तं प्रवृष्टेषु-वर्षितुमारब्धेषु मेघेष्विति प्रक्रमः, धाराणां पहकरो'त्ति निकरस्तस्य निपातः-पतनं केन निर्वापितं-शीतलीकृतं यत्तत्तथा तस्मिन्, निर्वापितशब्दाच्च सप्तम्येकवचनलोपो दृश्यः,
कस्मिन्नित्याह-मेदिनीतलेभूतले, तथा हरितकानां-हस्वतृणानां योगण; स एवकञ्चको यत्राच्छादकत्वात् तत्तथा तत्र, 'पल्लविय'त्ति इह सप्तमीवहुवचनलोपो दृश्यः, ततः पल्लवितेषु पादपगणेषु तथा वल्लीवितानेपु प्रसृतेषु-जातप्रसरेष्वित्यर्थः, तथोन्नतेषु भूप्रदेशेष्विति गम्यते सौभाग्यमुपगतेषुअनवस्थितजलत्वेनाकर्दमत्वात् पाठान्तरेनगेषु-पर्वतेषुनेदेषुवा-इदेषुतथा वैभाराभिधानस्य गिरेः ये प्रपाततटाः-भृगुतटा : कटकाश्च पर्वतैकदेशास्तेभ्यो ये विमुक्ताःप्रवृत्तास्ते कथातेषुकेषु?-'उज्झरेसु'त्तिनिझरेषुत्वरितप्रधावितेन यः पल्लोट्ट' त्तिप्रवृत्त उत्पन्नः फेनस्तेन आकुलं-व्याप्तं । सकलुसं'तिसकालुष्यंजलंवहन्तीषुगिरिनदीषुसर्जार्जुननीपकुटजानां वृविशेषाणां यानि कन्दलानि-प्ररोहाः शिलन्ध्राश्च-छत्रकाणितैः कलितानि यानि तानि तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org