SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३३४ अन्तकृद्दशाङ्ग सूत्रम् ५/१/२० साबाधमानसो यस्तस्यापि यथाप्रवृत्तां - यथाप्ररूपतां वृत्तिं - आजीवनम् 'अनुजानाति' पूर्ववद्ददाति न पुनर्वत्त्यर्जकस्य प्रव्रजितत्वेन पाश्चात्यनिर्वाह्यतत्कुटुम्बस्य तामपहरतीति । 'जाव किमंग पुण' इत्यत्र 'उदुम्बरपुप्फंपिव दुलभा सवणयाए किमंग पुण पासणयाए 'त्ति द्रष्टव्यमिति । 'आलित्ते ण 'मित्यादाविदं दृश्यम् - आदीप्तो भदन्त ! लोकः एवं प्रदीप्तः आदीप्तप्रदीप्तश्च जरया मरणेन च, तत इच्छामि देवानांप्रियैः स्वय मेवात्मानं प्रव्राजितुं यावत् आचारगोचरविनयवैनयिकचरणकरणयात्रामात्राप्रवृत्तिकं धर्म्माख्यातुमिति, यात्रामात्रार्थं च वृत्तिर्यत्र स तथा ताम् । 'ईरियासमिया' इत्यादौ यावत्करणाद्ग्रन्थान्तरेषु 'भासासमिया' इत्यादि 'मणगुत्ता' इत्यादि 'वयगुत्ता गुत्तिंदिया गुत्तबंभचारिणी'ति द्रष्टव्यं । 'बहूहि' इत्यत्रैवं द्रष्टव्यं - 'छट्टट्टमदसमदुवालसेहिं मासद्धमासखमणेहिं विविहेहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरइ'त्ति । 'जस्सट्ठाए कीरति नग्गाभवे' इत्यादौ यावत्करणादिदं दृश्यं - 'मुंडभावे कोसलोचे बंभचेरवासे अण्हाणगं अच्छत्तयं अणुवाहणयं भूमिसेज्जाओ फलगलसिज्जाओ परघरप्पवेसे लद्धावलद्धाई माणोवमाणाइं परेसिं हलणाओ निंदणाओ खिंसणाओ तालणाओ गरहणाओ उच्चावया विरूवरूवा बावीसं परीसहोवसग्गा गामकंडगा अहियासिज्जंति तमट्ठमाराहेइ' त्ति कण्ठ्यं, नवरं हीलना-अनभ्युत्थानादि निन्दना - स्वमनसि कुत्सा 'खिंसणा' लोकसमक्षमेव जात्याद्युद्घट्टनं तर्जना - ज्ञास्यसि रे जाल्मेत्यादि भणनं ताडना - चपेटादिना गर्हा - गर्हणीयसमक्षं कुत्सा उच्चावचा - अनुकूलप्रतिकूलाः असमञ्जसा इत्यर्थः विरूपरूपाः - विविधस्वभावा द्वाविंशतिः परीषहाः, उपसर्गाश्च षोडश ग्रामकण्टका-इन्द्रियग्रामस्य बाधकत्वेन कण्टका इवेति । वर्ग: : ५ - अध्ययनं - १ समाप्तम् -: वर्ग:- ५, अध्ययानानि - २...८ : मू. (२१) तेणं कालेणं २ बारवई रेवतए उज्जाणे नंदनवने तत्थ णं बारव० कण्हे वासु० तरसणं कण्हवासुदेवस्स गोरी देवी वन्नतो अरहा समोसढे कण्हे निग्गते गोरी जहा पउमावती तहा निग्या धम्मका परिसा पडिगता, कण्हेवि, तणं सा गोरी जहा पउमावती तहा निक्खंता जाव सिद्धा ४। एवं गंधारी । लक्खणा । सुसीमा । जंबवई । सच्चभामा । रूप्पिणी । अट्ठवि पउमावतीसरिसाओ अट्ठ अज्झयणा ॥ वृ. ‘अट्ठवि पउमावतीसरिसाउ' त्ति पद्मावत्या सहाष्टौ, ताश्च पद्मावतीसदृशाः समानवक्तव्यता इत्यर्थः परं नामसु विशेषः, एवं च 'अट्ठ अज्झयण'त्ति एतान्यष्टावध्ययनानि, सध्शानि च वासुदेवभार्याष्टकप्रतिबद्धत्वात्, अन्त्यं तु अध्ययनद्वयमष्टकविलक्षणं वासुदेवस्नुषाप्रतिबद्धत्वा दिति । पञ्चमस्य वर्गस्य निक्षेपो वाच्याः । वर्ग:- ५, अध्ययनानि - २... ८ समाप्तानि -: वर्ग :- ५ अध्ययने - ९...१० : मू. (२२) तेणे कालेणं बारवतीनगरीए रेवतते नंदनवने कण्हे०, तत्थ णं बारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंबवतीए देवीए अत्तते संबे नामं कुमारे होत्था, अहीण०, तस्स णं संबस्स कुमारस्स मूलसिरीनामं भारिया होत्था वन्नओ, अरहा समोसढे कण्हे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy