________________
३२८
अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३
'निंदु'त्ति मृतप्रसविनी, यत्रैते षडप्यनगारास्तत्रोपागच्छति तांश्च सा वन्दत इति ।
'आगयपण्हय'त्तिआगतप्रश्नवा-पुत्रस्नेहात् स्तनागतस्तन्या पप्फुयलोयणे'तिप्रप्लुते आनन्दजलेन लोचने यस्याः सा तथा 'कंचुयपरिक्खित्त'त्ति परिक्षीप्तो विस्तारित इत्यर्थः कञ्चकोवारवाणो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'दरियवलयबाह'त्ति दीर्णवलयौहर्षरोमाञ्चस्थूलत्वात् स्फुटितकटको बाहू-भुजौ यस्याःसा तथा प्राकृतत्वेन दरियवलयबाहा 'धाराहयकयंबपुष्फगंपिव समूससियरोमकूवा' धाराभिः- मेघजलधाराभिराहतं यत्कदम्बपुष्पं तदिव समुच्छ्रितानि रोमाणि कूपकेषु यस्याः सा तथा। _ 'अयमब्भत्थिए'त्तिइहैवं श्यम्-'अयमेयास्वेअब्भस्थिए चिंतिते पत्थिएमनोगए संकप्पे समुप्पज्जित्था' तत्रायमेतद्रूपः आध्यात्मिकः-आत्माश्रितश्चिन्तितः-स्मरणरूपःप्रार्थितः-अमिलाषरूपो मनोगतो-मनोविकाररूपः सङ्कल्पो-विकल्पः समुत्पन्नः।
___'धन्नाओणंताओ' इत्यादि, धन्या धनमर्हन्ति लप्स्त्यन्ते वा यास्ता धन्या इति, यासामित्यपेक्षया अन्या अम्बाः-स्त्रियः पुण्याः-पवित्राः क-तपुण्याः कृतार्थाः-कृतप्रयोजनाःकृतलक्षणाः-सफलीकृतलक्षणाः ‘जासिं'ति यासांमन्ये इति वितर्कार्थो निपातः निजककुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः स्तनदुग्धेलुब्धानि यानि तानि तथा, मधुराः समुल्लापा येषां तानि तथा मन्मनंअव्यक्तमीषत्स्खलितंप्रजल्पितं येषांतानितथा, स्तनमूलात्कक्षादेशभागमभिसंचरन्तिमुग्धकानिअत्यव्यक्तविज्ञानानि भवन्तीति गम्यते, पुनश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति ददति समुल्लापकान् सुमधुरान् पुनः पुनर्मअलप्रभणितान् मजुलं-मधुरं प्रभणितं-भणितिर्येषु ते तथा तान्, इह सुमधुरानित्यभिधाय यन्मञ्जलप्रभणितानित्युक्तं तत्पुनरुक्तमपि न दुष्टं सम्भ्रमभणितत्वादस्येति,
‘एत्तो'ति विभक्तिपरिणामादेषामुक्तविशेषणवतां डिम्भानां मध्यात् एकतरमपिअन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्युपहतमनः सङ्कल्पा भूतदष्टिका करतले पर्यस्तितमुखी ध्यायति । 'तहा धत्तिस्सामि'त्ति यतिष्ये 'कणीयसे'त्ति कनीयान्-कनिष्ठो लघुरित्यर्थः । _ 'जहा अभओ'त्ति यथा प्रथमे ज्ञातेऽभयकुमारोऽष्टमं कृतवान् तथाऽयमपीति नवरं-केवलमयं विशेषः अयं हरिणेगमैषिण आराधनायाष्टमं कृतवान्, स तु पूर्वसङ्गतिकस्य देवस्येति, विइण्णं'तिवितीर्ण-दत्तंयुषामाभिरिति गम्यते, तंसि तारिसगंसी'त्यादौयावत्करणात् शयनसिंहवर्णकौ साद्यन्तौ दृश्यौ, 'सुमिणे पासत्ताणं पडिबुद्धा जाव'त्ति इतो यावत्करणात् हृष्टा तुष्टा स्वप्नावग्रहं करोति शयनीयात्पादपीठाच्चावरोहति राज्ञे निवेदयति, स तु पुत्रजन्म तत्फलमादिशति, “पाढग'त्ति स्वप्नापाठकानाकारयति, तेऽपि तदेवादिशन्ति, ततो राज्ञा तदादिष्टमुपश्रुत्य परिवहइ'त्ति सुखंसुखेन गर्भं परिवहतीति द्रष्टव्यमिति,
'जासुमिणे' त्यादि जपा-वनस्पतिविशेषस्तस्याः सुमनसः-पुष्पाणि रक्तबन्धुजीवकंलोहितबन्धुकं तद्धि पञ्चवर्णमपि भवतीति रक्तग्रहणं लाक्षारसो-यावकः ‘सरसपारिजातकम्' अम्लानसुरद्रुमविशेषकुसुमं 'तरुणदिवाकरः' उदयद्दिनकरः एतैः समा-एतत्प्रभातुल्येत्यर्थः प्रभा-वर्णो यस्य स तथा रक्त इत्यर्थः तं, सर्वस्यजनस्य नयनानांकान्तः-कमनीयोऽभिलषणीय इत्यर्थः सर्वनयनकान्तस्तं सूमालेत्ति सुकुमालपाणिपाय'मित्यादिवर्णको दृश्यो यावत्स्वरूपमिति
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only