________________
-
श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ अन्यान्यपिललितानिकृतानि-न्यस्तानिआभरणानियस्य सतथा, ततः पदद्वयस्य कर्मधारयः, तथा नानामणीनां कटकत्रुटिकैः-हस्तबाहाभरणविशेषैर्बहुत्वात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेणसश्रीकः-सशोभोयःसतथा, कुण्डलोद्योतिताननःमुकुटदीप्तशिरस्कः हारेणावस्तृतम्-आच्छादितंतेनैव सुष्टुकृतरतिकंवक्षः-उरोयस्यासौहारावस्तृतसुकृतरतिकवक्षाः, मुद्रिकापिङ्गलाङ्गुलीकः-मुद्रिका-अङ्गुलयाभरणानिताभिः पिङ्गलाः-कपिला अङ्गुलयो यस्य स तथा, प्रलम्बेन-दीर्घेणप्रलम्बमानेनचसुष्टुकृतंपटेनोत्तरीयम्-उत्तरासङ्गोयेनसतथा, नानामणिकनकरलैर्विमलानि महार्हाणि- महा_णि निपुणेन शिल्पिना 'उविय'त्ति परिकर्मितानि 'मिसिमिसंतत्ति दीप्यमानानि यानि विरचितानि-निर्मितानि सुश्लिष्टानि सुगन्धीनि विशिष्टानिविशेषवन्त्यन्येभ्यो लष्टानि-मनोहराणि संस्थितानि प्रशस्तानि च आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हियदि कश्चिदन्योऽप्यस्ति वीरव्रतधारीतदाऽसौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि परिदधाति तानि वीरवलयानीत्युच्यन्ते,
किंबहुना? वर्णितेनेति शेषः, कल्पवृक्ष इव सुष्ठुअलङ्क तो विभूषितश्च फलपुष्पादिभिः कल्पवृक्षोराजातुमुकुटादिभिरलङ्कतोविभूषितस्तुवस्त्रादिभिरिति, सहकोरण्टकप्रधानैर्माल्यदामभिर्यच्छत्रंतेनध्रियमाणेन, कोरण्टकः-पुष्पजातिः, तत्पुष्पाणिमालान्तेषुशोभार्थदीयन्ते, मालायै हितानि माल्यानि-पुष्पाणि दामानि-माला इति, चतुर्णांचामराणांप्रकीर्णकानां वालैर्वीजितमङ्ग यस्येति वाक्यं, मङ्गलभूतो जयशब्दः कृत आलोके-दर्शने लोकेन यस्य स तथा,
-तथाअनेकेयेगणनायकाः-प्रकृतिमहत्तरा दण्डनायकाः-तन्त्रपालाराजानोमाण्डलिकाः ईश्वरा-युवराजानो मतान्तरेणाणिमाद्यैश्वर्ययुक्तैः " तलवराः-परितुष्टनरपतिप्रदत्तपट्टबन्धिभूषिताः राजस्थानीयाः माडम्बिकाः-छिन्नमडम्बाधिपाः कौटुम्बिकाः कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः-प्रतीताः महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति वृद्धाः गणका-गणितज्ञाः भाण्डागारिका इति वृद्धाः दौवारिकाः-प्रतीहाराः राजद्वारिका वा अमात्या-राज्याधिष्ठायकाःचेटाः-पादमूलिकाःपीठमर्दा-आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः 'नगरं' नगरवासिप्रकृतयो निगमाः-कारणिकाः श्रेष्ठिनः-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः-नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहाः-- सार्थनायकाः दूताः-अन्येषांगत्वा राजादेशनिवेदकाः सन्धिपाला-राज्यसन्धिरक्षकाः एषांद्वन्द्वः ततस्तैः, इह तृतीयाबहुवचनलोपोद्रष्टव्यः सार्द्ध-सह, नकेललं तत्सहितत्वमेवापितुतैः समितिसमन्तात् परिवृतः-परिकरित इति, नरपतिर्मज्जनगृहाप्रतिनिष्त्रामतीति संबन्धः, किंभूतः?प्रियदर्शनः, क इव ?- धवलमहामेघनिर्गत इव शशी, तथा 'ससिव्व'त्ति वत्करणस्यान्यत्र सम्बन्धस्ततो ग्रहणदीप्यमानक्षतारागणानां मध्ये इव वर्तमान इति । सिद्धार्थकप्रधानो यो मङ्गलोपचारस्तेन कृतं शान्तिकर्म-विघ्नोपशमकर्म येषु तानि तथा।
'नानामणी'त्यादि, यवनिकामाच्छयतीति सम्बन्धः,अधिकंप्रेक्षणीयं रूपंयस्यां रूपाणि वायस्यांसा तथा तां, महार्धाचासौ वरपत्तने-वरवस्त्रोत्पत्तिस्थाने उद्गताच-व्यूतातांश्लक्ष्णानि बहुभक्तिशतानि यानि चित्राणि तषां स्थानं, तदेवाह-ईहामृगाः-वृकाः ऋषभाः" वृषभाः" तुरगनरमगरविहगाःप्रतीताःव्यालाः-श्वापदभुजगाः किन्नरा-व्यन्तरविशेषाःरूरवो-मृगविशेषाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org