SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/१७ षण्डानि-नलिनीषण्डानितेषां बोधकोयः तस्मिन् उत्थिते-उदयानन्तरावस्थावाप्ते 'सूरे आदित्ये किंभूते?-सहस्ररश्मौ तथा 'दिनकरे' दिनकरणशीले तेजसा ज्वलति सतीति। ___ 'अट्टणसाल'त्ति अट्टनशाला व्यायामशालेत्यर्थः, अनेकानि यानि व्यायामानि योग्या च-गुणनिका वल्गनंच-उल्ललनव्यामर्दनंच-परस्परेणबाह्यद्यङ्गमोटनंमल्लयुद्धंच-प्रतीतंकरणानि च-बाहुभङ्गविशेषा मल्लशास्त्रप्रसिदअधानि तैः श्रान्तः सामान्येन परिश्रान्तो अङ्गप्रत्यङ्गापेक्षया सर्वतः शतकृत्वो यत्पक्वंशतेन वा कार्षापणानां यत्पक्वं तच्छतपक्वमेवमितरदपि सुगन्धिवरतैलादिभिरभ्यंगैरिति योगः आदिशब्दात् घृतकपूरपानीयादिग्रहः किम्भूतैः? 'प्रीणनीयैः' रसरूधिरादिधातुसमताकारिभिर्दीपनीयैः-अग्निजननैः दर्पणीयैः-बलकरैः मदनीयैः-मन्मथबृहणीयैर्मासोपचयकारिभिः सर्वेन्द्रियगात्रप्रह्लादनीयैः अभ्यंगैः-स्नेहनैः अभ्यंगः क्रियते यस्यसोऽभ्यङ्गितः सन्, ततस्तैलचर्मणि-तैलाभ्यक्तस्यसंबाधनाकरणाय यच्चर्मततैलचर्म तस्मिन् संवाहिते 'समणे'त्तियोगः, कैरित्याह?-पुरुषैः, कथम्भूतैः?-प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि-अतिकोमलानितलानि-अधोभागा येषांतेतथातैः, छेकैः-अवसरज्ञैर्द्धिसततिकलापण्डितैरिति च वृद्धाः, दक्षैः-कार्याणामविलम्बितकारिभिः प्रष्ठैः-वाग्गिमभिरिति वृद्धव्याख्या, अथवा प्रष्टै:-अग्रगामिभिः कुशलैः-साधुभिःसंबाधनाकर्मणिमेधाविभिः-अपूर्वविज्ञानग्रहणशक्तिनिष्ठैः निपुणैः-क्रीडाकुशलैर्निपुणशिल्पोपगतैः-निपुणानि-सूक्ष्माणियानि शिल्पानि-अङ्गमर्दनादीनी तान्युपगतानि-अधिगतानि यैस्ते तथा तैर्जितपरिश्रमैः, ___-व्याख्यान्तरंतुछेकैः-प्रयोगज्ञैर्दक्षः-शीघ्रकारिभिः एत्तठेहिं तिप्राप्ताथैरधिकृतकर्मणि निष्ठांगतैः कुशलैः-आलोचितकारिभिःमेधाविभिः-सुकृच्छ्रुतदष्टकर्मज्ञैःनिपुणैः-उपायारम्भिभिः नमिपुणशिल्पोपगतैः-सूक्ष्मशिल्पसमन्वितैरिति, अभयङ्गनपरिमर्दनोद्वलनानांकरणेयेगुणास्तेषु निमतिः, अस्थ्नां सुखहेतुत्वादस्थिसुखा तया 'संवाहनये ति विश्रामणया अपगतपरिश्रमः 'समंतजालाभिरामे'त्ति समन्तात्-सर्वतो जालकैर्विच्छित्तिभिः छिद्रवद्गहावयवविशेषैरभिरामो-रम्यो यः स्नानमण्डपः स तथा, पाठान्तरे 'समत्तजालाभिरामेत्ति तत्र समस्तैर्जालकैरभिरामो यःस तथा, पाठान्तरेण 'समुत्तजालाभिरामे' सह मुक्ताजालैर्यो वर्ततेऽभिरामश्च स तथा तत्र, शुभोदकैः-पवित्रस्थानाहतैःगन्धोदकैः-श्रीखण्डादिमित्रैः पुष्पोदकैः-पुष्परसमित्रैः शुद्धोदकैश्च स्वाभाविकैः, कथंमज्जितइत्याह-'तत्र' स्नानावसरेयानि कौतुकशतानिरक्षादीनि तैः ‘पक्ष्मले त्यादि पक्ष्मला-पक्ष्मवतीअत एव सुकुमाला गन्धप्रधाना काषायिका-कषायरक्ता शाटिका तयालुषितमङ्गंयस्यसतथा, अहतं-मलमूषिकादिभिरनुपद्रुतंप्रत्यग्रमित्यर्थः, सुमहाध दूष्यरत्नं-प्रधानवस्त्रंतेन सुसंवृतः-परिगतस्तदवासुष्टुसंवृतं-परिहितंयेन सतथा, शुचिनी-पवित्रे माला च-पुष्पमाला वर्णकविलेपनं च-मण्डनकारि कुडमादि विलेपनं यस्य स तथा, आविद्धानि-परिहितानिमणिसुवर्णानि येन सतथा, कल्पितो-विन्यस्तोहारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः त्रिसरिकंच प्रतीतमेव यस्य स तथा, प्रालम्बो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कट्याभरणविशेषेण सुष्ठु कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुकृता शोभा यस्य स तथा, तथा पिनद्धानि-परिहितानि नैवेयकाङ्गुलीयकानियेन स तथा, तथा ललिताङ्गके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy