________________
३०८
उपासकदशाङ्गसूत्रम्७/४६
सत्पथविप्रनष्टान्-त्यक्तजिनशासनान्, एतदेव कथमित्याह-मिथ्यात्वबलाभिभूतान्, तथा अष्टविधकर्मैव तमःपटलम्-अन्धकारसमूहः तेन प्रत्यवच्छन्नानिति।।
तथा निर्यामकालापके 'वुडमाणे'त्ति निमज्जतः 'निबुड्डमाणे'त्ति नितरां निमज्जतः जन्ममरणादिजले इति गम्यते, 'उप्पियमाणे'त्ति उत्प्लाव्यमानान् ।। 'पभु' त्ति प्रभवः समर्थाः इतिच्छेकाः-इति एवमुपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि,छेकाः-प्रस्तावज्ञाः, कलापण्डिता इतिवृद्धा व्याचक्षते तथा इतिदक्षाः-कार्याणामविलम्बितकारिणः तथा इतिप्रष्ठा-दक्षाणांप्रधाना वाग्गिमनइतिवृद्धैरुक्तं, क्वचित्पत्तट्ठांइत्यधीयते, तत्रप्राप्ताः -कृतप्रयोजनाः,तथाइतिनिपुणाः सूक्ष्मदर्शिनः कुशला इति च वृद्धोक्तं, इतिनयवादिनो-नीतिवक्तारः, तथा इत्युपदेशलब्धा लब्धाप्तोपदेशाः, वाचनान्तरे 'इतिमोघाविनः' अपूर्वश्रुतग्रहणशक्तिमन्तः 'इतिविज्ञानप्राप्ताः' अवाप्तसद्बोधाः।
_ 'सेजहे'त्यादि, अथयथा नामकश्चित्पुरुषः 'तरुणे' त्तिवर्धमानवयाः, वर्णादिगुणोपचित इत्यन्ये, यावत्करणादिदं दृश्यं बलवं सामर्थ्यवान् ‘जुगवं' युगंकालविशेषःतप्रशस्तमस्यास्तीति युगवान, दुष्टकालस्यबलहानिकरत्वात्तद्वयवच्छेदार्थमिदं विशेषणं, जुवाणे' त्तियुवा-वयःप्राप्तः, 'अप्पायङ्केत्ति नीरोगः 'थिरग्गहत्थे' त्ति सुलेखकवद्, अस्थिराग्रहस्तो हि न गाढग्रहो भवतीति विशेषणमिदं दढपाणिपाए'त्तिप्रतीतं पासपिट्ठन्तरोरुपरिणए'त्तिपाझेच पृष्ठान्तरेच-तद्विभागौ ऊरूच परिणतौ-निष्पत्तिप्रकर्षावस्थां गतौ यस्य स तथा, उत्तमसंहनन इत्यर्थः, _ 'तलजमलजुयलपरिधनिभबाहुत्ति तलयोः- ताला भिधानवृक्षविशषयोः यमलयोःसमश्रेणीकयोर्ययुगलंपरिघश्च-अर्गला तन्निभौ-तत्सदशौ बाहूयस्य स तथा, आयतबाहुरात्यर्थः, 'घणनिचियवट्टपालिखन्धे'त्ति घननिचितः "-अत्यर्थं निबिडो वृत्तश्च-वर्तुलः पालिवत्तडागादिपालीव स्कन्धौ-अंशदेशीयस्य स तथा, चम्मेढगदुहणमोट्ठियसमाहयनिचियगायकाए'त्ति चर्मेष्टका-इष्टकाशकलादिभृतचर्मरकुतपरूपायदाकर्षणेन धनुर्धरा व्यायामंकुन्तिद्रुघणो-मुद्गरो मौष्टिको-मुष्टिप्रमाणः प्रोतचर्मज्जुकः पाषाणगोलकस्तैः समाहतानि-व्यायामकरणप्रवृत्तौ सत्यां ताडितानि निचितानिगात्राणि-अङ्गानियत्रस तथास एवंविधःकायो यस्य सथाय, अनेनाभ्यासजनितं सामर्थ्यमुक्तं,
'लङ्घणपवणजइणवायामसमत्थे त्तिलक्षणंच-अतिक्रमणंप्लवनंच-उत्लवनंजविनव्यायामश्च-तदन्यः शीघ्रव्यापारस्तेषु समर्थो यः स तथा, 'उरस्सबलसमागए'त्ति अन्तरोत्साहवीर्ययुक्तइत्यर्थः छेए' त्तिप्रयोगज्ञः 'दक्खे' त्तिशीघ्रकारी पत्तट्टे' त्तिअधिकृतकर्मणि निष्ठाङ्गतः प्राप्तार्थः,प्रज्ञ इत्यन्ये, 'कुसले' त्तिआलोचितकारी मेहावि' त्ति सकृददष्टश्रुतरर्मज्ञः निउणे'त्ति उपायरम्भकः 'निउफणसिप्पोवगए' त्ति सूक्ष्मशिल्पसमन्वित इति,
अजं वा-छगलं एलकं वा-उरभ्रं शूकरं वा-वरागं कुर्कुटतित्तिरवर्तकलावककपोतकपिअलवायसश्येनकाः पक्षिविशेषा लोकप्रसिदद्धाः, 'हत्थंसि वत्ति यद्यप्यजादीनां हस्तो न विद्यते तथाप्यनेतनपादो हस्त इव हस्त इतिकृत्वा हस्ते वेत्युक्तं, यथासम्भवं चैषां हस्तपादखुरपुच्छपिच्छशृङ्गविषाणरोमाणि योजनीयानि, पिच्छपक्षावयवविशेषः, शटङ्गमिहाजैडकयौः प्रतिपत्तव्यं, विषाणशब्दोयद्यपिगजदन्तेरूढस्तथापीहशूकरदन्तेप्रतिपत्तव्यः, साधर्म्यविशेषादिति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org