________________
अध्ययनं-१,
भङ्गदर्शनार्था, तथैव वृत्तौ व्याख्यातत्वात्, तथा सञ्जवलनोदयविशेषे सर्वविरतिविशेषस्यातिचारा एव भवन्ति, न मूलच्छेदः प्रत्याख्यानावरणादीनां तूदये पञ्चानुपूर्व्या सर्वविरत्यादीनां मूलतः छेदो भवतीत्येवंभूतव्याख्यानान्तरेऽपि न देशविरत्यादावतिचाराभावः सिध्यति, यतो यथा संयतस्य चतुर्थानामुदये यथाख्यातचारित्रं भ्रश्यति इतरचारित्रं सम्यकत्वं च सातिचारमुदयविशेषान्निरतिचारं च भवतीति एवं तृतीयोदये सरागचरणं भ्रश्यति देशविरतस्य तु देशविरतिसम्यकत्वे सातिचारे निरतिचारे च प्रत्येकं तथैव स्यातां, द्वीतीयोदये देशविरतिर्भ्रश्यति, सम्यकत्वं तु तथैव द्विधा स्यात्, प्रथमोदये तु सम्यकत्वं भ्रश्यतीति, एवं चैतत् कथमन्यथा सम्यकत्वातिचारेषु दैशिकेषु प्रायश्चित्तं तप एव निरूपितं, सार्विकेषु तु मूलमिति, अथानन्तानुबन्ध्यादयो द्वादश कषायाः सर्वघातिनः सञ्जवलनास्तु देशघातिन इति, ततश्च सर्वघातिनामुदये मूलमेव, देशघातिनां त्वतिचार इति, सत्यं, किन्तु यदेतत्सर्वघातित्वं द्वादशानां कषायाणां तत्सर्वविरत्यपेक्षमेव शतकचूर्णिकारेण व्याख्यातं, न तु सम्यकत्वाद्यपेक्षमिति, तथा हि तद्वाक्यं - "भगवप्पणीयं पञ्चमहव्वयमइयं अट्ठारसीलङ्गसहस्सकलियं चारितं घाएन्ति त्ति सव्वघाइणो "त्ति
किञ्च - प्रागुपदर्शितायाः 'जारिसओ' इत्यादिगाथायाः सामर्थ्यादतिचारभङ्गौ देशविरतिसम्यकत्वयोः प्रतिपत्तव्याविति 'अपच्छिमे' त्यादि, पश्चिमैवापश्चिमा मरणं - प्राणत्यागलक्षणं तदेवान्तो मरणान्तः तत्र भवामारणान्तिकी संलिख्यते - कृशीक्रियते शरीरकषायाद्यनयेति संलेखना - तपोविशेषलक्षणा ततः पदत्रयस्य कर्मधारयः तस्या जोषणा - सेवना तस्या आराधना, अखण्डकालकरणमित्यर्थः, अपश्चिममारणान्तिकसंलेखनाजोषणाराधना, तस्याः, 'इहलोगे' त्यादि, इहलोकोमनुष्यलोकः तस्मिन्नाशंसा - अभिलाषः तस्याः प्रयोग इहलोकाशंसाप्रयोगः, श्रेष्ठी स्यां जन्मान्तरेऽमात्यो वा इत्येवंरूपा प्रार्थना १ एवं परलोकाशंसाप्रयोगो 'देवोऽहं स्याम्' इत्यादि २, ‘जीविताशंसाप्रयोगो’जीवितं - प्राणधारणं तदाशंसायाः - तदभिलाषस्य प्रयोगो, यदि 'बहुकुलमहं जीवेयम्' इति । अयं हि संलेखनावान्कश्चिदूस्त्रमाल्यपुस्तकवाचनादिपूजादर्शना - बहुपरिवारावलोकनाल्लोकश्लाघाश्रवणाचैवं मन्यते, यथा 'जीवितमेव श्रेयः, प्रतिपन्नानशनस्यापि यत एवंविधा मदुद्देशेन विभूतिर्वेर्ते' इति ३, 'मरणाशंसाप्रयोगः ' उक्तस्वरूपपूजाद्यभावे भावयत्यसौ यदि 'शीघ्नं म्रियेऽहम्' इतिस्वरूप इति ४, कामभोगशंसाप्रयोगो “यदि मे मानुष्यकाः कामभोगा दिव्या वा सम्पद्यन्ते तदा साधु" इति विकल्परूपः ५ ।
मू. (१०) तए णं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावयधम्मं पडिवज्जइ २ त्ता समणं भगवं महावीरं वंदइ नमंसइ २ त्ता एवं वयासी
२७३
“नो खलु मे भंते! कप्पइ अज्झप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्ननउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा, पुव्वि अणालत्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असनं वा पानं वा खाइमं वा साइमं वा दाउँ वा अणुप्पदाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवाभिओएगेणं गुरुनिग्गहेणं वित्तिकन्तारेणं कप्पइ मे समणे निग्गन्थे फासुएणं एसणिज्जेणं असनपानखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुंछणेणं
7 18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org