________________
२७२
उपासकदशाङ्गसूत्रम् १/९ द्वौ, नवरमुच्चारः-पुरिषं, स्रवणं, मूत्रंतयोभूमिः स्थण्डिलम् ३, ४, एते चत्वारोऽपिप्रमादितयाऽतिचाराः, पोसहोववासस्ससम्मअननुपालणय'त्तिकृतपोषधोपवासस्यास्थिर-चित्ततयाऽऽहारशरीरसत्काराब्रह्मव्यापाराणामभिलषणादननुपालना पोषधस्येति, अस्य चातिचारत्वं भावतो विरतेर्बाधितत्वादिति॥
_ 'अहासंविभागस्से'तिअहत्ति-यथासिद्धस्यस्वार्थंनिवर्तितस्येत्यर्थः,अशनादेःसमितिसङ्घतत्वेन पश्चात्कर्मादिदोषपरिहारेण विभजनंसाधवेदानद्वारेण विभागकरणंयथासंविभागःतस्य, 'सचित्तनिक्खिवणये' त्यादि सचित्तेषु व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्धया मातृस्थानतः सचित्तनिक्षेपणं १, एवं सचित्तेन फलादिना स्थगनं सचित्तपिधानं २, 'कालातिक्रमः' कालस्यसाधुभोजनकालस्यातिक्रमः-उल्लङ्घनं कालातिक्रमः, अयमभिप्रायः, कालमूनमधिकंवा ज्ञात्वा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयंददाति एवं विकल्पतो दानार्थभ्युत्थानमतिचार इति ३, तथा 'परव्यपदेशः' परकीयमेतत् तेन साधुभ्यो न दीयते इति साधुसमक्ष भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेकत्तदा कथमस्मभ्यं न दद्याद्? इति साधुसम्प्रत्ययार्थम्भणनं, अथवा अस्माद्दानान्मम मात्रादेः पुण्यमस्त्विति भणनमिति ४, मत्सरिता' अपरेणेदं दत्तं किमहं तस्मादपि कृपणो हीनो वा अतोऽहमपि ददामि इत्येवंरूपो दानप्रवर्तकविकल्पो मत्सरिता ५,
___ एतेचातिचाराएव, नभङ्गाः, दानार्थमभ्युत्थानादानपरिणतेश्चदूषितत्वाद्, भङ्गस्वरूपस्य चेहैवमभिधानाद्, यथा॥१॥ दानन्तरायदोसा न देइ दिजन्तयं च वारेइ ।
दिन्ने वा परितप्पइ इति किवणत्ता भवे भङ्गो । आवश्यकटीकायां हि न भङ्गातिचारयोर्विशेषेऽस्माभिरवबुद्धः, केवलमिह भङ्गाद्विवेकं कुर्वद्भिरस्माभिरतिचारा व्याख्याताःसम्प्रदायात् नवपदादिषु तथा दर्शनात्, ॥२॥ जारिसओजइभेओजह जायइ जहेव तत्थ दोसगणा।
- जयणा जह अइयारा भङ्गा तह भावणा नेया॥ इत्यस्या आवश्यकचूण्यां पूर्वगतगाथाया दर्शनात्, अतिचारशब्दस्य सर्वभङ्गे प्रायोऽप्रसिद्धत्वाच्च, ततोनें शङ्कनीयंयएतेऽतिचारा उक्तास्तेभङ्गा एवेति, तथायएते प्रतिव्रतं पञ्चपञ्चातिचारास्त उपलक्षणमतिचारान्तराणामसेया न त्ववधारणं, यदाहुः पूज्याः॥१॥
“पञ्चे पञ्चाइयाराउ, सुत्तम्मि जे पदंसिया।
ते नावहारणट्ठाए, किन्तु ते उवलक्खणं॥" इति, इदं चेह तत्त्वं-यत्र व्रतविषयेऽनाभोगादिनाऽतिक्रमादिपदत्रयेण वा स्वबुद्धिकल्पनया वा व्रतसापेक्षतया व्रतविषयं परिहरतः प्रवृत्तिः सोऽतिचारो, विपरीततायां तु भङ्गः, इत्येवं सङ्कीर्णातिचारपदगमनिका कार्या।
अथ सर्वविरतावेवातिचारा भवन्ति, देशाविरतौ तु भङ्गा एव, यदाह॥१॥ “सव्वेऽविय अइयारा सञ्जलणाणं तु उदयओ हुन्ति ।
मूलच्छेज्जं पुण होइ बारसण्हं कसायाणं ॥" अत्रोच्यते, इयं हि गाथा सर्वविरतावेवातिचारभङ्गोपदर्शनार्था, न देशविरत्यादि
दिलेला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org