SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ अध्ययन-१, २७१ यदतिरिक्तम्- अधिकमात्मादीनामर्थक्रियासिद्धावप्यवशिष्यते तदुपभोगपरिभोगातिरिक्तं, तदुपचारादतिचारः, तेन ह्यात्मोपभोगातिरिक्तेन परेषां स्नानभोजनादिभिरनर्थदण्डो भवति, अयं च प्रमादव्रतस्यैवातिचार इति ५। उक्ता गुणव्रतातिचाराः, अथ शिक्षाव्रतानां तानाह_ 'सामाइयस्स' त्ति समो-रागद्वेष- वियुक्तो यः सर्वभूतान्यात्मवत्पश्यति तस्य आयःप्रतिक्षणमपूर्वापूर्वज्ञानदर्शनतचारित्रपर्यायाणां निरुपमसुखहेतुभूतानामधःकृतचिन्तामणिकल्पद्रुमोषमानांलाभः समायःसःप्रयोजनम-स्यानुष्ठानस्येतिसामायिकंतस्य-सावद्ययोगनिषेधरूपस्य निरवद्ययोगप्रतिषेधस्वभावस्य च मणदुप्पणिहाणे'त्तिमनसोदुष्टंप्रणिधानं प्रयोगोमनोदुष्प्रणिधानं कृतसामायिकस्य गृहेतिकर्मव्य-तायांसुकृतदुष्कृतपरिचिन्तनमितिभावः १, वयदुप्पाणिहाणे'त्ति कृतसामायिकस्यनिष्ठुरसाव-धवाक्प्रयोगः २, कायदुप्पणिणे'त्ति कृतसामायिकस्याप्रत्युपेक्षितादीभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापनमिति ३, सामाइयस्स सइअकरणय' त्ति सामायिकस्य सम्बन्धिनी या स्मृतिः-अस्यां वेलायां मया सामायिकं कर्तव्यं, तथा कृतं तन्न वा इत्येवंरूपं स्मरणं, तस्याः प्रबलप्रमादतयाऽकरणं स्मृत्यकरणं ४, 'अणवट्ठियस्स करणय'त्ति अनवस्थितस्य अल्पकालीन-स्यानियतस्य वा सामायिकस्य करणमनवस्थितकरणम्, अल्पकाल करणानन्तरमेव त्यजति यथाकथञ्चिद्वा तत्करोतीति भावः ५, इह चाद्यत्रयस्यानाभोगादिनातिचारत्वम् उतरद्वयस्य तु प्रमादवहुलतयेति॥ 'देसावगासियस्स'त्ति दिग्व्रतगृहीतदिक्परिमाणस्यैकदेशो देशस्तस्मिन्नवकाशोगमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकं-पूर्वगृहीतदिग्व्रतसङ्केपरूपंसर्वपव्रतसङ्ग्रेपरूपं चेति, 'आणवणप्पओगे'त्ति इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयंगमनायोगाद्यदन्यःसचित्तादिद्रव्यानयनेप्रयुज्यते सन्देशकप्रदानादिनात्वयेदमानेयम् इत्यानमयनप्रयोगः १, पेसवणप्पओगे' बलाद्विनियोज्यःप्रेष्यस्तस्य प्रयोगो, यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात् "त्वयाऽवश्यमेव तत्र गत्वा मम गवाद्यानेयं इदं वा तत्र कर्तव्यम्" इत्येवंभूतः प्रेष्यप्रयोगः २, 'सद्दाणुवाए'त्ति स्वगृहवृत्तिप्राकारद्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्तौ तत्र स्वयंगमनायोगावृत्तिप्राकारादिप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं तसभ्युत्काशितादिशब्दकरणेन समवसितकान्बोधयतः शब्दानुपातः, शब्दस्यानुपातनम्-उच्चारणंतादग्येन परकीयश्रवणविवरमनुपतत्यसाविति ३, 'रूवाणुवाए'त्ति अभिगृहीकतदेशाद्वहिः प्रयोजनभावे शब्दमनुच्चारयत एवपरेषांस्वसमीपानयनाथस्वशरीररूपदर्शनंरूपानुपातः ४ बहियापोग्गलपक्खेवेत्तिअभिगृहीतदेशाद्वहिः प्रयोजनसद्भावे परेषां प्रबोधनाय लेष्ट्वादिपुद्गलप्रक्षेप इति भावना ५, इह चाद्यद्वयस्यानाभोगादिनाऽतिचारत्वं इतरस्य तु त्रयस्य व्रतसापेक्षत्वादिति ॥ _ 'पोसहोववासस्स'त्तिइह पोषधशब्दोऽष्टम्यादिपर्वसु रूढः, तत्र पोषधेउपवासः पोषधोपवासः, सचाहारादिविषयभेदाच्चतुर्विध इतितस्य, अप्पडिलेहियेत्यादिअप्रत्युपेक्षितो-जीवरक्षार्थं चक्षुषा न निरीक्षित; 'दुष्प्रत्युपेक्षितः' उद्भ्रान्तचेतोवृत्तितयाऽसम्यग्निरीक्षितः शय्या- शयनं तदर्थं समस्तारकः-कुशकम्बलफलकादिः शय्यासंस्तारकः ततः पदत्रयस्य कर्मधारये भवत्यप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारकः, एतदुषभोगस्यातिचारहेतुत्वादयमतिचार उक्तः १, एवमप्रभार्जितदुष्प्रमार्जितशय्यासंस्तारकोऽपि नवरंप्रमार्जनंवसनाञ्चलादिना २, एवमितरौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy