SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६८ उपासकदशाङ्गसूत्रम् १/९ सन्धानकरणे, विवादच्छेद इत्यर्थः, इह च न्यासापहारादिद्वयस्य आधत्रयान्तविऽपि प्रधानविवक्षयाऽपह्नवसाक्षिदानक्रियमयोर्भेदेनोपादानं द्रष्टव्यमिति। _ 'तेनाहडे' त्ति स्तेनाहृतं-चौरानीतं, तत्समर्घमिति लोभात्काणक्रयेण गृह्णतोऽतिचरति तृतीयव्रतमित्यतिचारहेतुत्वात् स्तेनाहृतमित्यतिचार उक्तः,अतिचारताचास्य साक्षाच्चौर्याप्रवृत्तेः १, 'तक्करप्पओगे'त्ति तस्करप्रयोगश्चौरव्यापारणं, 'हरत यूयम्' इत्येवमभ्यनुज्ञानमित्यर्थः, अस्याप्यतिचारताऽनाभोगादिभिरिति२, विरुद्धरज्जाइक्कमे त्तिविरुद्धपयोराज्यंतस्यातिक्रमःअतिलङ्घनं विरुद्धाराज्यातिकम न हि ताभ्यां तत्रातिक्रमोऽनुज्ञातः, चौर्यबुद्धिरपि तस्य तत्र नास्तीति, अतिचारताऽस्यानाभोगादिना इति ३, 'कूडतुलकूडमाणे'त्ति तुला-प्रतीता मानंकुडवादि कूटत्वं-न्यूनाधिकत्वं, ताभ्यां न्यूनाभ्यां ददतोऽधिकाभ्यां गृह्णतोऽतिचरतिव्रतमिति अतिचारहेतुत्वा-दतिचारः कूटतुलाकूटमानमुक्तः, अतिचारत्वंचास्यानाभोगादेः,अथवा 'नाहं चौरः क्षत्रखन- नादेरकरणात्' इत्यभिप्रायेण व्रतसापेक्षत्वात् ४, 'तप्पडिरूवगववहारे' त्ति तेन-अधिकृतेन प्रतिरूपकं-सशंतप्रतिरूपकंतस्य विविधमवहरणंव्यवहारः-प्रक्षेपस्तप्रतिरूपकव्यवहारः, यद्यत्र घटते व्रीहिघृतादिषुपलजीवसादितस्य प्रक्षेपइतियावत्, तप्रतिरूपकेन वा वसादिना व्यवहरणंतप्रतिरूपकव्यवहारः, अतिचारता चास्य पूर्ववत् ५। _ 'सदारसंतोसीए'त्ति स्वदारसन्तुष्टेरित्यर्थः, 'इत्तरियपरिग्गहियागमणे'त्ति इत्वरकालपरिगृहीता कालशब्दलोपादित्वपरिगृहीता-भाटीप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्यां गमनं-मैथुनासेवनमित्वरपरिगृहीतागमनं, अतिचारताचास्यातिक्रमादिभिः १, अपरिग्गहियागमणे'त्तिअपरिगृहीतानामवेश्या अन्यसत्कपरिगृहीतभाटिका कुलाङ्गना वाअनाथेति,अस्याप्यातिचारताऽतिक्रमादिभिरेव २, अनङ्गकीड'त्तिअनङ्गानिमैथुनकमपिक्षया कुचकुक्षोरुवदनादीनितेषुक्रीडनमनङ्गक्रीडा, अतिचारताचास्यस्वदारेभ्योऽन्यत्रमैथुनपरिहारेणानुरागादालिङ्गनादिविदघतोव्रतमालिन्यादिति ३, परविवाहकरणे'त्तिपरेषाम्-आत्मन आत्मीयापत्येभ्यश्च व्यतिरिक्तानां विवाहकरणं परविवाहकरणं, अयमभिप्राय:-स्वदारसन्तोषिणो हिन युक्तःपरेषां विवाहादिकरणेन मैथुननियोगोऽनर्थको विशिष्टविरतियुक्तत्वादित्येवमनाकलयतः परार्थकरणोद्यततयाऽतिचारोऽयमिति ४, कामभोगतिव्वाभिलासे'त्ति कामौ शब्दरूपे भोगाःगन्धरसस्पर्शास्तेषु तीव्राभिलाषः-अत्यन्तं तदध्यवसायितं कामभोगतीव्राभिलाषः, अयमभिप्रायः-स्वदारसन्तोषी हि विशिष्टविरतिमान्, तेनच तावत्येवमैथुनासेवा कर्तुमुचिता यावत्या वेदजनिताबाधोपशाम्यति, यस्तुवाजिकरणादिभिः कामशास्त्रविहितप्रयोगैश्च तामधिकामुत्पाद्य सततं सुरतसुखमिच्छति स मैथुनविरतिव्रतं परमार्थतो मलिनयति, को हि नाम सकर्णकः पामामुत्पाद्याग्निसेवाजनितं सुखं वाञ्छेदिति अतिचारत्वं कामभोगतीव्राभिलाषस्येति ५ 'खेतवत्थुपमाणाइक्कमेत्ति क्षेत्रवस्तुनःप्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतमानोल्लङ्घनमित्यर्थः, एतस्य चातिचारत्वमनाभोगादिनाऽतिक्रमादिनावा, अथवा एकक्षेत्रादिपरिमाणकर्तुस्तदन्यक्षेत्रस्य वृत्तिप्रभृतिसीमापनयनेन पूर्वक्षेत्रे योजना क्षेत्रप्रमाणातिक्रमोऽतिचार एव, व्रतसापेक्षत्वात्तस्येति १, हिरण्णसुवण्णपमाणाइक्कमे तिप्राग्वत्, अथवा राजादेःसकाशाल्लब्धं हिरण्याद्यभिग्रहावधिं यावदन्यस्मै प्रयच्छतः 'पुनरवधिपूर्ती ग्रहीष्यामि' इत्यव्यवसायवतोऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy