SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१, २६९ यमतिचारस्तथैवेति२, धणधन्नपमाणाइक्कमे त्तिअनाभोगादेः अथवालभ्यमानंधनाद्यभिग्रहावधिं यावत्परगृह एव बन्धनबद्धं कृत्वाधारयतोऽतिचारोऽयमिति ३, 'दुपयचउप्पयपमाणाइक्कमे'त्ति अयमपितथैव, अथवा गोवडवादिचतुष्पदयोषित्सुयथा अभिग्रहकालावधीपूर्तो प्रमाणाधिकवत्सादिचतुष्पदोत्पत्तरिभवति तथा षष्ढादिकं प्रक्षिपतोऽतिचारोऽयं, तेन हि जातमेव वत्सादिकमपेक्ष्य प्रमाणातिक्रमस्य परिहृतत्वाद्गर्भगतापेक्षया तस्य सम्पन्नत्वादिति ४, 'कुवियपमाणाइक्कमे'त्ति कुप्यं-गृहोपस्करःस्थालकच्चोलकादि, अयंचातिचारोऽनाभोगादिना, अथवापञ्चैवस्थालानिपरिग्रहीतव्यानीत्याद्यभिग्रहवतः कस्याप्यधिकतराणांतेषांसम्पत्तौ प्रत्येकं यादिमेलनेन पूर्वसङ्ख्यावस्थापनेनातिचारोऽयमिति ५, आह च॥१॥ "खेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे । जोयणपयाणबन्धणकारणभावेहि नो कुजा ।।" दिग्व्रतं शिक्षाव्रतानिच यद्यपि पूर्वंनोक्तानितथापितत्रतानि द्रष्टव्यानि, अतिचारभणनस्यान्यथा निरवकाशता स्यादिहेति, कथमन्यथाप्रागुक्तं-“दुवालसविहंसावगधम्मपडिवज्जिस्सामि" इति, कथंवा वक्ष्यति-'दुवालसविहंसावगधम्मपडिवजई' इति, अथवा सामायिकादीनामित्वरकालीनत्वेन प्रतिनियतकालकरणीयत्वान्न तदैव तान्यसौप्रतिपन्नवान् दिग्व्रतं च विरतेरभावाद्उचितावसरे तुप्रतिपत्स्यतइति भगवतस्तदतिचारवर्जनोपदेशनमुपपन्नं, यच्चोक्तं 'द्वादशविधंगृ–हिधर्मप्रतिपत्स्ये' यच्च वक्ष्यति-'द्वादशविधं श्रावकधर्मप्रतिपद्यते' तद्यथाकालं तत्करणाभ्युपगमनादनवद्यचमवसेयमिति । तत्र ‘उड्ढदिसिपमाणाइक्कमे' त्ति, क्वचिदेवं पाठः, क्वचित्तु ‘उड्ढदिसाइक्कमे'त्ति, एते चोर्ध्वादिगाद्यतिक्रमा अनाभोगादिनाऽतिचारतयाऽवसेयाः १-३, 'खेत्तवुड्डित्ति एकतो योजनशतपरिमाणमभिगहीतमन्यतोदशयोजनान्यभिगृहीतानि, ततश्च यस्यां दिशिदशयोजनानि तस्यां दिशिसमुत्पन्ने कार्ययोजनशतमध्यादपनीयान्यानिदशयोजनानितत्रैवस्वबुद्धयाप्रक्षिपति, संवर्धयत्येकत इत्यर्थः,अयं चातिचारोव्रतसापेक्षत्वादवसेयः४, सइअन्तरद्ध' त्तिस्मृत्यन्तर्धास्मृत्यन्तर्धानंस्मृतिभ्रंशः 'किंमयाव्रतंगृ–हीतं शतमर्यादयापञ्चाशन्मर्यादयावा?' इत्येवमस्मरणे योदजनशतमर्यादायामपि पञ्चशतमतिक्रामतोऽयमातिचारोऽवसेय इति ५। _ 'भोयणओ कम्मओ य' त्ति भोजनतो-भोजनमाश्रित्य वाह्याभ्यन्तरभोजनीयवस्तून्यपेक्ष्येत्यर्थः, 'कर्मतः' क्रियां जीवनवृत्तिं बाह्याभ्यन्तरभोजनीयवस्तुप्राप्तिनिमित्त-भूतामाश्रित्येत्यर्थः, 'सचित्ताहारे'त्ति सचेतनाहारः,पृथिव्यप्कायवनस्पतिकायजीवशरीरिणां सचेतनानामभ्यवहरणमित्यर्थः, अयंचातिचारः कृतसचित्ताहारप्रत्याख्यानस्य कृततत्परिमाणस्य वाऽनाभोगादिना प्रत्याख्यातं सचेतनं भक्षयतस्तद्वा प्रतीत्यातिक्रमादौ वर्तमानस्य १, 'सचित्तपडिबद्धहारे'त्ति सचित्तेवृक्षादौ प्रतिबद्धस्य गुन्दादेरभ्यवहरणम्, अथवा सचित्ते-अस्थिके प्रतिबद्धंयत्पक्कमचेतनंखर्जूरफलादितस्यसास्थिकस्यकटाहमचेतनंभक्षयिष्यामीतरत्परिहरिष्यामि इति भावनया मुखे क्षेपणमिति, एतस्य चातिचारत्वं व्रतसापक्षत्वादिति २, ‘अप्पउलिओसहिभक्खणय'त्तिअपक्कायाः-अग्निनाऽसंस्कृतायाः ओषधेः-शाल्यादिकाया भक्षणता-भोजनमित्यर्थः, अस्याप्यतिचारताऽनाभोगादिनैव, ननु सचित्ताहारातिचारेणैव अस्य संगृहीतत्वात्किं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy