________________
अध्ययनं-१,
२६७
विशेषाये सम्यकत्वमतिचारयन्तितेचानेकप्रकारागुणिनामनुपबृंहादयः ततस्तेषांमध्ये 'पेयाल'त्ति साराः-प्रधानाःस्थूलत्वेनशक्यव्यपदेशत्वाद्येते तथा तत्र शङ्का-संशयकरणंकाङ्क्ष-अन्यान्यदर्शनग्रहः विचिकित्सा-फलंप्रति शङ्का विद्वज्जुगुप्सावा-साधूनाजात्यादिहीलनेति, परपाषण्डाःपरदर्शनिनस्तेषां प्रशंसा-गुणोत्कीर्तनं परपाषण्डसंस्तवः-तत्परिचयः।
तथा 'बन्धे'त्ति बन्धो द्विपदादीनां रज्ज्वादिना संयमनं 'वहे' त्ति वधो यष्टयादिभिस्ताडनं 'छविच्छेए'त्तिशरीरावयवच्छेदः अइभारे'त्तिअतिभारारोपणंतथाविधशक्तिविकलानांमहाभारारोपणं ‘भत्तपाणवोच्छेए'त्ति अशनपानीयाद्यप्रदानं, इहायं विभागः पूज्यैरूक्तः॥१॥ बन्धवहं छविछेइं अइभारंभत्तपाणवोच्छेयं ।
कोहादिदूसियमणो गोमणुयाईण नो कुज्जा' ॥ (तथा) ॥१॥ न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः ।
निगद्यते यः कुपितः करोति, व्रतेऽनपेक्षस्तदसौ व्रती स्यात् ।। ॥२॥ कायेन भग्न न तो व्रती स्यात्कोपाद्दयाहीनतया तुभग्नम् ।
तद्देशभङ्गादातिचार इष्टः, सर्वत्र योज्यः क्रम एष धीमन् ! ॥ (इती) ___ 'सहसाअब्भक्खाणे' त्ति सहसा-अनालोच्याभ्याख्यानम्-असदोषाध्यारोपणं सहसाऽभ्याख्यानं, यथा ''चौरस्त्वम्' इत्यादि, एतस्य चातिचारत्वं सहसाकारेणैव, न तीव्रसंक्लेशेन भणनादिति १, रहसाअब्भक्खाणे त्तिरह:-एकान्तस्तेन हेतुना अभ्याख्यानंरहोऽभ्याख्यानम्, एतदुक्तं भवति-रहसि मन्त्रयमाणानां वक्ति-एते हीदं चेदं च राजापकारादि मन्त्रयन्तीति, एतस्यचातिचारत्वमनाभोगमभणनात्, एकान्तमात्रोपाधितयाचपूर्वस्माद्विशेषः,अथवासम्भाव्यमानार्थभणनादतिन्रोनतुभङ्गोऽयमिति २, 'सदारमन्तभेए'त्तिस्वदारसंबन्धिनो मन्त्रस्य-विश्रम्भजल्पस्यभेदः-प्रकाशनंस्वादारमन्त्रभेदः, एतस्य चातिचारत्वंसत्यभणनेऽपिकलत्रोक्ताप्रकाशनीय प्रकाशनेन लज्जादिभिर्मरणाद्यनर्थपरम्परासम्भवात्परमार्थतोऽसत्यत्वात्तस्येति ३, 'मोसोवएसे' त्तिमृषोपदेशः-परेषामसत्योपदेशः सहसाकारानाभोगादिना, व्याजेन वायथा अस्माभिस्तदिदमिदं वाऽसत्यमभिधाय परो विजित' इत्येवंवार्ताकथनेन परेषामसत्य- वचनव्युत्पादनमतिचारः, साक्षात्कारेणासत्येऽप्रवर्तनादिति ४, कूडलेहकरणे' त्तिअसद्भूतार्थस्यलेखस्यविधानमित्यर्थः, एतस्य चातिचारत्वंप्रमादादिनादुर्विवेकत्वेन वा, 'मया मृषावादः प्रत्या-ख्यातोऽयंतु कूडलेखो, न मृषावादनम्' इति भावयत इति ५,
वाचनान्तरे तु 'कन्नालियं गवालियं भूमालियं नासावहारे कूडसक्खिज्जं सन्धिकरणे'त्ति पठ्यते, आवश्यकादौ पुनरिमे स्थूलमृषावादभेदा उक्ताः, ततोऽयमर्थः सम्भाव्यते-एते एव प्रमादासहसाकारानाभोगैरभिधीयमानामृषावादविरतेरतिचाराभवन्ति, आकुट्टयातुभङ्गाइति, एतेषां चेदं स्वरूपम्-कन्या-अपरिणीता स्त्री तदर्थमलीकं कन्यालीकं तेन च लोकेऽतिगर्हितत्वादिहोपात्तेन सर्वं मनुष्यजातिविषयमलीकमुपलक्षितं, एवं गवालीकमपि चतुष्पदजात्यलीकोपलक्षणं, भूम्यलीकमपदानांसचेतनाचेतनवस्तूनामलीकस्योपलक्षणं,न्यासो-द्रव्यस्य निक्षेपः,परैः समर्पितंद्रव्यमित्यर्थः, तस्यापहारः-अपलपनंन्यासापहारः, तथाकूटम्-असद्भूतमसत्यार्थसंवादनेन साक्ष्यं-साक्षिकर्मकूटसाक्ष्यं, कस्मिन्नित्याह-सन्धिकरणे' द्वयोर्विवदमानयोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org