SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-१/१२ व्याख्यातमिति, पाठान्तरेण तु 'वट्टपडिपुण्णपसत्थनिद्धमहुगुलियपिंगलच्छं' स्फुटश्चायं पाठः, तथा 'विसालपीवरभमरोरुपडिपुण्णविमलखंधं विशालो-विस्तीर्णः पीवरो-मांसलः 'भ्रमरोरुः' भ्रमरा-रोमावर्ता उखो-विस्तीर्णा यत्र स तथा परिपूर्णो विमलश्च स्कन्धो यस्य स तथा तं, अथवा 'पडिपुन्नसुजायखं,' तथा 'मिदुविसदसुहमलक्खणपसत्थविच्छिन्नकेसरसडं' मृद्व्योविशदा-अविमूढाः सूक्ष्मा लक्षणप्रशस्ताः-प्रशस्तलक्षणा विस्तीर्णाः “केसरसटाः-स्कन्धकेशरजटायस्य सतथातं, अथवा 'निम्मलवरकेसरधर' तथा 'ऊसियसुनिम्मियसुजाय-अप्फोडियलंगूलं उच्छ्रितम्-ऊर्ध्वं नीतंसुनिर्मितंसुष्टुभंगुरतयान्यस्तंसुजातंसद्गुणोपपेततयाआस्फोटितं भुवि लाङ्गुलं-पुच्छं येन स तथा तं, सौम्यं-उपशान्तं सौम्याकारं-शान्ताकृतिं, 'लीलायंत'ति लीलां कुर्वन्तं 'जंभायंतं' विजृम्भमाणं शरीरचेष्टाविशेषं विदधानं 'गगणतलाओ ओवयमाणं सीहं अभिमुहं मुहे पविसमाणं पासित्ता पडिबुद्ध'त्ति 'अयमेयारूवं ति इमंमहास्वप्नमिति संबंधः एतदेव-वर्णितस्वरूपं रूपं यस्य स्वप्नस्य न कविकृतमूनमर्धिकं वा स तथा तं, -'उरालं'तिउदारंप्रधानंकल्याणं-कल्याणानां शुभसमृद्धिविशेषाणांकारणत्वात् कल्ये वा-नीरोगत्व- मणति-गमयति कल्याणं तद्धेतुत्वात्, शिवम्-उपद्रवोपशमहेतुत्वात् धन्यं धनावहत्वात् ‘मंगल्यं' मङ्गले दुरितोपशमे साधुत्वात्सश्रीकं-सशोभनमिति ‘समाणी'त्ति सती हृष्टतुष्टा-अत्यर्थं तुष्टाअथवा हष्टा-विस्मिता तुष्टा-तोषवती, 'चित्तमाणंदिय'त्तिचित्तेनानन्दितं वा चित्तं यस्याः सा चित्तानन्दिता, मकारः प्राकृतत्वात्, प्रीतिर्मनसि यस्याः सा प्रीतिमनाः, 'परमसोमणस्सिया' परमं सौमनस्यं संजातं यस्याः सा परमसौमनस्थिता, हर्षवशेन विसर्पद्विस्तारायायि हृदयं यस्यः सा तथा, सर्वाणि प्राय एकाथिकान्येतानि पदानि प्रमोदप्रकर्षप्रतिपादनार्थत्वात् स्तुतिरूपत्वाच्च न दुष्टानि, आह च॥१॥ “वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृद्धयात्तनुपनरुक्तंन दोषाय ॥" इति, ‘पच्चोरुहइत्तिप्रत्यवरोहति, अत्वरितमानसौत्सुक्याभावेनाचपलं कायतःअसंभ्रान्त्याऽस्खलन्त्याअविलम्बितया अविच्छिन्नतया 'राजहंससरिसीए तिराजहंसगमनसश्यागत्या 'ताहिं' ति या विशिष्टगुणोपेतास्ताभिर्गीभिरिति संबन्धः, इष्टाभिः-तस्य वल्लभाभिः कान्ताभिःअभिलषिताभिः सदैवतेन प्रियाभिः-अद्वेष्याभिःसर्वेषामपि मनोज्ञाभिः-मनोरमाभिःमनःप्रियाभिश्चिन्तयापि उदाराभिः-उदारनादवर्णोच्चारादियुक्ताभिः कल्याणाभिःसमृद्धिका- रिकाभिः शिवाभिः-गीर्दोषानुपद्रुतानि धन्याभिः-धनलम्भिकाभिर्मङ्गल्याभिः-मङ्गलसाध्वीभिः सश्रीकाभिः-अलङ्कारादिशोभावद्मिः हदयगमनीयाभिः-ह्यदये या गच्छन्ति कोमलत्वात् सुबोधत्वाच्च तास्तथा ताभिः, हदयप्रह्लादिकाभिः-हदयप्रह्लादनीयाभिः आह्लादजनकाभिः "मितमधुररिभित- गंभीरसश्रीकाभिः' मिताः-वर्णपदवाक्यापेक्षया परिमिताः मधुराः-स्वरतःरिभिताः-स्वरघोलना-प्रकारवत्यः गम्भीराः-अर्थतशब्दतश्च सह श्रिया-उक्तगुणलक्ष्म्यायास्तास्तथा ततःपदपञ्चकस्यकर्मधारयस्ततस्ताभिः गीर्भिः-वाग्भिः संलपन्ती-पुनः पुनर्जल्पन्तीत्यर्थः नानमणिकनकरलानां भक्तिभिः-विञ्चित्तिभिश्चित्रं-विचित्रं यत्तत्तथा तत्र Jain Education International For Private & Personal Use Only For Priv www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy