SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं- 9 २१ नम्रत्वाद्यत्तत्तथा तत्र, दृश्यते च हंसतूल्यादिष्वयं न्याय इति । तथा 'उयचिय'त्ति परिकर्मितं यत् क्षौमं दुकूलं-कार्पासिकमतसीमयं वा वस्त्रं तस्य युगलापेक्षया यः पट्टः - एकः शाटकः स प्रतिच्छादनम्-आच्छादनं यस्य तत्तथा तत्र, तथा आस्तरको मलको नवतः करुशको लिम्बः सिंहकेसरश्चैते आस्तरणविशेषास्तैः प्रत्यवस्तृतम् - आच्छादितं यत्तत्तथा, इह चास्तरको लोकप्रतीत एव मलककुशक्तौ तु रूढिगम्यी नवतस्तु ऊर्णाविशेषमयो जीनमिति लोके यदुच्यते, लिम्बो - बालोर प्रस्योर्णायुक्ता कृतिः सिंहकेसरो-जटिलकम्बलः, तथा सुष्ठु विरचितं शुचि वा रचितं रजस्त्राणं-आच्छादनविशेषोऽपरिभोगावस्थायां यस्मिंस्तत्तथा तत्र, रक्तांशुकसंवृते - मशकगृहाभिधानवस्त्रवृते सुरम्ये तथा आजिनकं - चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति तथा रूतं - कर्पासपक्ष्म बूरो- वनस्पतिविशेषः नवनीतं प्रक्षणं एभिस्तुल्यः स्पर्शो यस्य, तूलं वा - अर्कतूलं तत्र पक्षे एतेषामिव स्पर्शो यस्य तत्तथा तत्र, पूर्वरात्रश्चासावपररात्रश्च पूर्वरात्रापररात्रः स एव काललक्षणः समयः न तु सामाचारादिलक्षणः पूर्वरात्रापररात्रकालसमयस्तत्र, मध्यरात्रे इत्यर्थः, इह चार्षत्वादेकरेफलोपेन 'पुव्वरत्तारवरत्ते' त्युक्तं, अपररात्रशब्दो वाऽयमिति, सुप्तजागरा - नातिसुप्ता नातिजाग्रती, अत एवाह 'ओहीरमाणी २'त्ति वारं वारमीषन्निद्रां गच्छन्तीत्यर्थः, एकं महान्तं सप्तोत्सेधमित्यादिविशेषणं मुखमतिगतं गजं दृष्टाप्रतिबुद्धेति योगः, तत्र सप्तोत्सेधं सप्तसु - कुम्भादिषु स्थानेषूत्रतं सप्तहस्तोच्छ्रितं वा 'रययं' ति रूप्यं 'नहयलंसि' ति नभस्त- लान्मुखमतिगतमिति योगः, वाचनान्तरे त्वेवं दृश्यते - 'जाव सीहं सुविणे पासित्ता णं पडिबुद्धा' तत्र यावत्करणादिदं द्रष्टव्यं ‘एक्कं च णं महंतं पंडुरं धवलयं सेयं' एकार्थशब्दत्रयोपादानं चात्यन्तशुक्लताख्यापनार्थं, एतदेवोपमानेनाह - 'संखउलविमलदहिधणगोखीर (विमल) फेणरयणिकरपगासं' शंखकुलस्येव विमलदध्न इव धनगोक्षीरस्येव विमलफेनस्येव रजनीकरस्येव प्रकाशः - प्रभा यस्य स तथा तं, अथवा 'हाररजतखीरसागरदगरयमहासेलपंडुरतरोरुरमणिज्जदरिसणिज्जं' हारादिभ्यः पाण्डुरतरो यः स तथा, इह च महाशैलो - महाहिमवान् तथा उरुः - विस्तीर्णः रमणीयो- रम्योऽत एव दर्शनीय इति पदचतुष्टयस्य कर्मधारयोऽतस्तं, तथा 'थिरलट्ठपउट्ठपीवरसुसिलिट्ठविसिइतिक्खदाढाविडंबियमुहं' स्थिरौ - अप्रकम्पौ लष्टौ - मनोज्ञौ प्रकोष्ठौ - कूराग्रेतनभागौ यस्य स तथा, तथा पीवराः - स्थूला सुम्लिष्टाः - अविसर्वरा विशिष्टा - मनोहरास्तीक्ष्णा या दंष्ट्रास्ताभिः कृत्वा 'विडंबियं ति विवृतं मुखं यस्य स तथा ततः कर्मधारयस्तं, तथा 'परिकम्मियजच्चकमलकोमलमाईयसोहंतल उट्ठ परिकर्म्मितं- कृतपरिकर्मा 'माइय'त्ति मात्रावान् परिमित् इत्यर्थः, शेषं प्रतीतं, तथा 'रत्तुप्पलपत्तमउयसुकुमाल-तालुनिल्लालियग्गजीहं' रक्तोत्पलपत्रमिव मृदुकेभ्यः सुकुमारमतिकोमलं तालु च निर्लालिताग्रा - प्रसारिताग्रा जिह्वा च यस्य स तथा तं, तथा 'महरगुलियभिसंतपिंगलच्छं' मधुगुटिकेव-क्षौद्रवर्त्तिरिव 'भिसंत' त्ति दीप्यमाने पिङ्गले - कपिले अक्षिणी यस्य स तथा तं, तथा 'भूसागयपवरकणयतावियआवत्तायंतवट्टतडियविमलसरिसनयणं' भूषागतं - मृन्मयभाजनविशेषस्थं यत्प्रवरकनकं तापितमाग्निधमनात् 'आवत्तायंत 'त्ति आवर्तत कुर्वत् तद्वत् तथा वृत्ते च तर्द्दिते - विवृत्ते विमले च सध्शे च - समाने नयने यस्य स तथा तं, अत्र च 'वट्टतट्ट' इत्यातावदेव पुस्तके दृष्टं संभावनया तु वृत्ततर्द्दित इति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy