SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/9/१२ अस्तरविशेषः जालं-सच्छिद्रो गवाक्षविशेषः, अर्द्धचन्द्रः-अर्धचन्द्रकारं सोपानं निर्मूहकद्वारपार्श्वविनिर्गतदारु अंतरं-अस्तरविशेष एव पानीयान्तरमिति सूत्रधारैर्यद् व्यपदिश्यते निर्वृहकद्वयस्य यान्यन्तराणि तानि वा निर्मूहकान्त-राणि कणकालीअस्तरविशेषश्चन्द्रसालिका च-गृहोपरि शाला एतेषां गृहांशानां या विभक्तिः-विभजनं विविक्तता तया कलितं-युक्तं यत्तत्तथा तस्मिन्, 'सरसच्छवाडवडंबसरइए' त्ति स्थाप्यं, कैश्चित् पुनरेवं संभावितमिदं “सरसच्छधाउवलवन्नरइए'त्ति तत्र सरसेन अच्छेन धातूपलेन-पाषाणधातुना गैरिकविशेषेणेत्यर्थः वर्णो रचितो यत्र तत्तथा 'बाहिरओ दूमियघट्टमट्टे'त्ति दूमितं-धवलितं धृष्टंकोमलपाषाणादिना अत एव मृष्टं-मसृणं यत्तत्तथा तस्मिन्, तथा अभ्यन्तरतः प्रशस्तं-स्वकीय २ कर्मव्यापृतं शुचि-पवित्र लिखितंचित्रकर्मयत्रतत्तथा तस्मिन्, तथा नानिविधानां जातिभेदेन पञ्चवर्णानांमणिरत्नानासत्कं कुट्टिमतलं-मणिभूमिका यस्मिंस्तत्तथा तत्र तथा पौः-पद्माकारैरेवं लताभिरशोकलताभिः पद्मलताभिर्वामृणालिकाभिः पुष्पवल्लीभिः-पुष्पप्रधानाभिः पत्रवल्लिभिः तथावराभिः पुष्पजातिभिः-मालतीप्रभृतिभिश्चित्रितमुल्लोकतलं-उपरितनभागो यस्मिन् तत्तथा तत्र,इह चप्राकृतत्वेन उल्लोयचित्तियतले' इत्येवं विपर्ययनिर्देशो द्रष्टव्यइति,अथवा पद्मादिभिरुल्लोकस्य चित्रितंतलं-अधोभागोयस्मिन्निति, तथा वन्द्यन्त इति वन्दना-मङ्गल्याः येवरकनकस्य कलशाः सुष्ठु–'निम्मिय'त्तिन्यस्ताः प्रतिपूजिताः-चन्दनादिचर्चिताः सरसपद्माः-सरसमुखस्थगनकमलाः शोभमाना द्वारभागेषु यस्य पाठान्तरापेक्षया चन्दनवरकनककलशैः सुन्यस्तैस्तथा प्रतिपुञ्जितैः-पुजीकृतैः सरसपझैः शोभमाना द्वारभागा यस्य तत्तथा तस्मिन्, ___तथा प्रतरकाणि-स्वर्णादिमयाआभरणविशेषास्त प्रधानमणिमुक्तानांदामभिः-सग्भिः सुष्ठु विरचिता द्वारशोभा यस्य तत्तथा तस्मिन्, तथा सुगन्धिवरकुसुमैर्मूदुकस्य-मृदोः पक्ष्मलस्य च-पक्ष्मवतःशयनस्य-तूल्यादिशयनीयस्ययः उपचारः-पूजा उपचारोवास विद्यते यस्मिन्मण इत्यस्य मत्वर्थीयत्वात् तत् सुगन्धिवरकुसुममृदुपक्ष्मलशयनीयोपचारवत्तच्च यद् हृदयनिर्वृतिकरं च-मनःस्वास्थ्यकरं तत्तथा तस्मिन्,- तथा कर्पूरश्च लवङ्गानि च-फलविशेषाः मलयचन्दनं च-पर्वतविशेषप्रभवं श्रीखण्डं कालागुरुश्च-कृष्णागरुः प्रवरकुन्दुरुक्कं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिल्हकं धूपश्च-गन्धद्रव्यसंयोगज इति द्वन्द्वः, एतेषां वा संबन्धी यो धूपः तस्य दह्यमानस्य सुरभिर्यो मघमघायमानः-अतिशयवान् गन्धः उद्भूतः-उद्भूतः तेनाभिरामम्-अभिरमणीयंयत्तत्तथा तस्मिन्, तथा सुष्ठुगन्धवराणां-प्रधानचूर्णानांगन्धोयस्मिन् अस्ति तत् सुगन्धवरगन्धिकं तस्मिन्, तथा गंधवतिः-गन्धद्रव्यगुटिका कस्तूरिका वा गन्धस्तद्गुटिका गन्धवर्तिस्तद्भूते-सौरभ्यातिशया-त्तत्कल्पे, तथा मणिकिरणप्रनाशितान्धकारे, किंबहुना वर्णकेन?,वर्णकसर्वस्वमिदंद्युत्या गुणैश्च सुरवरविमानं विडम्बयति-जयति यद्वरगृहकं तत्तथा तत्र, तथा तस्मिन् ताशे शयनीये सहालिङ्गनवा-शरीरप्रमाणोपधानेन यत्तत्सालिङ्गनवर्तिकं तत्र, 'उभओ विव्वोयणे'त्ति उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य 'विब्बोयणे'त्तिउपधाने यत्रतत्तथातस्मिन्, 'दुहओ'त्तिउभयतः उन्नतेमध्येनतंचतन्निम्नत्वाद्गभीरं च महत्त्वान्नतगम्भीरं अथवा मध्येन च भागेन तु गम्भीरे-अवनते गङ्गापुलिनवालुकायाः अवदातः-अवदलनं पादादिन्यासेऽधोगमनमित्यर्थः तेन 'सालिसए'त्ति सशकमतिJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy