SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/१० च-हस्त्यादि सैन्यं वाहनं च-वेसरादिकं पुरंच-नगरमन्तः पुरं च - अवरोधनं स्वयमेव - आत्मनैव समुप्रेक्षमाणो - निरूपयन् समुत्प्रेक्षमाणो वा व्यापारयन् इह च द्विर्वचनमाभीक्ष्यण्येऽवसेयं, 'विहरति ' आस्ते स्म । मू. (99) १८ तस्स णं सेणियस्स रन्नो धारिणी नामं देवी होत्था । जाव सेणियस्स रन्नो इट्ठा जाव विहरइ । वृ. ‘धारणी नामं देवी होत्था जाव सेणियस्स रन्नो इट्ठा जाव विहरइ' इत्यत्र द्विर्यावच्छब्दकरणादेवं द्रष्टव्यं 'सुकुमालपाणिपाया अहीनपंचेंदियसरीरा लक्खणवंजणगुणोववेया मानुम्माणपमाणसुजायसंव्वगंसुदरंगी ससिसोमाकारा कंता पियदंसणा सुरूवा करतलपरिमिततिवलियबलियमज्झा' करतलपरिमीतो- मुष्टिग्राह्यस्त्रिवलीको - रेखात्रयोपेतो बलितो - बलवान् मध्यो- मध्यभागो यस्याः सा तथा, 'कोमुईरयणिकरविमलपडिपुन्नसोमवयणा' कौमुदीरजनीकरवत् कार्त्तिकीचन्द्र इव विमलं - प्रतिपूर्णं सौम्यं च वदनं यस्याः सा तथा 'कुंडलुल्लिहियगंडलेहा'; कुण्डलाभ्यामुल्लिखिता - घृष्टा गण्डलेखाः - कपोलविरचितमृगमदादिरेखा यस्याः सा तथा 'सिंगारागारचारुवेसा' शृङ्गारस्यरसविशेषस्यागारमिवागारं अथवा शृङ्गारो-मण्डनूषणाटोपः तठप्रधानः आकारः -आकृतिर्यस्याः सा तथा, चारुर्वेषो - नेपथ्यं यस्याः सा तथा, ततः कर्मधारयः, तथा 'संयग गय हसिय भणिय विहिय विलास सललिय संलाव णिउण जुत्तोवयार कुसला' संगता - उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्र विहितं चेष्टितं, विलासोनेत्रचेष्टा, तथा सह ललितेन - प्रसन्नतया से संलापाः - परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, युक्ता-संगता ये उपचारालोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, 'पासाईया' चित्तप्रसादजनिका 'दरिसणिज्जा' यां पश्यचक्षुर्न श्राम्यति, 'अभिरूपा' मनोज्ञरूपा 'पडिरूवा' द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथा, 'सेणियस्स रन्नो इट्ठा वल्लभा' कांता काम्यत्वात् प्रिया प्रेमविषयत्वात् मणुन्ना सुन्दरत्वात् 'नामधेज्जा' नामधेयवती प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्यं-हृदि धरणीयं यस्याः सा तथा, 'वेसासिया' विश्वसनीयत्वात् 'सम्मया' तत्कृतकार्यस्य सम्मतत्वाद्बहुमता - बहुशो बहुभ्यो वाऽन्येभ्यः सकाशान्मता बहुमता बहुमानपात्रं वा 'अणुमया' विप्रियकरणस्यापि पश्चात्मता अनुमती 'भंडकरंडगसमाणा' आभारणकरण्डकसमानोपादेयत्वात् 'तेल्लकेला इव सुसंगोविया' तैल्लकेला - सौराष्ट्र प्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः स च भङ्गभयाल्लोचनभयाच्च सुष्ठु संगोप्यते एवं साऽपि तथोच्यते 'चेलपेडा इव सुसंपरिगिहीया' वस्त्रमञ्जूषेवेत्यर्थः, 'रयणकरंडगोविव सुसारविया' सुसंरक्षितेत्यर्थः, कुत इत्याह, 'मा णं सीयं मा णं उन्हें माणंदसामा णंमसगा माणं वाला मा णंचोरा मा णं वाइयपित्तियसंभियसन्निवाइयविविहरोगायंका फुसंतुत्तिकट्टु सेणिएणं रन्ना सद्धिं विउलाई भोगभोगाई भुंजमाणा विहरति' माशब्दा निषेधार्थाः, णंकारा वाक्यालङ्कारार्थाः, अथवा 'मानणं 'ति मैनामिति प्राकृतत्वात्, व्यालाः- श्वापदभुजगाः रोगाः - कालसहाः आतङ्काः - सद्योघातिनः, इतिकट्टु इतिकृत्वा इतिहेतोर्भोगभोगान् -- अतिशयवद्भोगानिति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy