________________
श्रुतस्कन्धः-१, वर्गः, अध्ययनं-9
१७
यस्य स, ‘ससिसोमाकारे कंते पियदंसणे' शशिवत् सौम्याकारं कान्तं - कमनीयमत एव प्रियं द्रष्टणां दर्शनं-रूपं यस्य स तथा, अत एव 'सुरूवे' त्ति सुरूप इति, तथा सामदण्डभेदउपप्रदानलक्षणा या राजनीतयः तासां सुष्टुं प्रयुक्तं-प्रयोगो व्यापारणं यस्य स तथा, नयानां - नैगमादीनां उक्तलक्षणनीतीनां चयाविधा-विधयः प्रकारास्तान् जानाति यः स तथा, पश्चात्पदद्वयस्य कर्मधारयः, तत्र परस्परोपकारप्रदर्शनगुणकीर्तनादिना शत्रोरात्मवशीकरणं साम, तथाविधपरिक्लेशे धनहरणादिको दण्डः, विजिगीषितशत्रुपरिवर्गस्य स्वाण्यादिस्नेहापनयनादिको भेदः, गृहीत - धनप्रतिदानादिकमुपप्रदानं, नयविधयस्तु सप्त नैगमादयो नयाः प्रत्येकं शतभेदा, नीतिभेदास्तु सामनीतेः पञ्च दण्डस्य त्रयः भेदस्य उपप्रदानस्य च पञ्च कामन्दकादिप्रसिद्धा । इति ।
तथा हाच - स्थाणुरयं पुरुषो वेत्येवं सदर्थालोचनाभिमुखा मतिचेष्टा अपोहश्च स्थाणुरेवायमित्यादिरूपो निश्चयः मार्गणं च - इह वल्लयुत्सर्णादयः स्थाणुधर्मा एव प्रायो घटन्ते इत्याद्यन्तयधर्मालोचनरूपं गवेषणंच - इह शरीरकण्डव्यनादयः पुरुषधर्माः प्रायो न घटन्त इति व्यतिरेकधर्मालोचनरूपं ईहाव्य॒हमार्गणागवेषणानि तैरर्थशास्त्रे - अर्थोपायव्युत्पादग्रंथे कौटिल्यराजधानीत्यादौ या मतिर्बोधस्तया विशारदः - पण्डितो यः स ईहाव्यूहमार्गणगवेषणार्थशास्त्रमतिविशारदः, तथौत्पत्तिक्यादिकया बुद्धया उपपेतो - युक्तः, तत्रौत्पत्तिकी अष्टाश्रुताननुभूतार्थविषयाऽऽकस्मिकी वैनयिकी गुरुविनयलभ्यशास्त्रार्थसंस्कारजन्या कर्म्मजा कृषिवाणिज्यादिकर्माभ्यासप्रभवा पारिणामिकी- प्रायो वयोविपाकजन्या, तथा श्रेणिकस्य राज्ञः बहुषु कार्येषु च - भक्तसेवकराज्यादिदानलक्षणकृत्येषु विषयभूतेषु तथा कुटुम्बेषु च स्वकीयपरकीयेषु विषयभूतेषु ये मन्त्रादयो निश्चायन्तास्तेषु आप्रच्छनीयः,
तत्रमन्त्रामन्त्रणानि पर्यालोचनानि तेषु च गुह्यानीव गुह्यानि - लञ्जनीयव्यवहारगोपितानि तेषुच रहस्यानि - एकान्तयोग्यानि तेषु निश्चयेषु वा - इत्थमेवेदं विधेयमित्येवंरूपनिर्णयेषु अथवा स्वतन्त्रेषु कार्यादिषु षट्सु विषयेषु चकाराः समुच्चयारार्थाः आप्रच्छनीयः - सकृत् प्रतिप्रच्छनीयो द्वित्रिकृत्वः, किमिति ? - यतोऽसौ 'मेढि 'त्ति खलकमध्यवर्त्तिनी स्थूणायस्यां नियमिता गोपंक्तिर्धान्यं गाहयति तद्वद्यमालम्ब्य सकलमन्त्रिमडलं मन्त्रणीयार्थान् धान्यमिव विवेचयति सा मेढी, प्रमाणं - प्रत्यक्षादि तद्वद्यः तद्धं धर्थानमव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात् स ०
तथा 'आधारे' आधारस्येव सर्वकार्यषु लोकानामुपकारित्वात् तथा 'आलंबनं' रज्वादि तद्वदापद्गर्त्तादिनिस्तारकत्वादालम्बनं तथा चक्षुः - लोचनं तद्वल्लोकस्य मन्त्र्यमात्यादिविविधकार्येषु प्रवृत्तिनिवृत्तिविषयप्रदर्शनकत्वञ्च्चक्षुरिति, एतदेव प्रपञ्चयति - 'मेढिभूए' इत्यादि भूतशब्द उपमार्थः सर्वकार्येषु - सन्धिविग्रहादिषु सर्वभूमिकासु - मन्त्रि अमात्यादिस्थानकेषु लब्धः - उपलब्धः प्रत्ययः - प्रतीतिरविसंवादिवचनं च यस्य स तथा विइण्णवियारे' त्ति वितीर्णोराज्ञाऽनुज्ञातो विचारः - अवकाशो यस्य विश्वसनीयत्वात् असौ वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं, अथवा 'विण्णवियारे' विज्ञापिता राज्ञो लोकप्रयोजनानां निवेदयिता, किं बहुना ? - राज्यधुरश्चिन्तकोऽपि - राज्यनिर्वाहकश्चाप्यभूत्, एतदेवाह - श्रेणिकस्य राज्ञो राज्यं च-राष्ट्रादिसमुदायात्मकं राष्ट्रं च - जनपदं कोशं च - भाण्डागारं कोष्ठागारं च - धान्यगृहं बलं
7 2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org