________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-९
१७५
-योगक्षेमकरिन् ! दयित!-वल्लभ! रक्षित! इति वा प्रिय!-प्रेमकर्त्तः! रमण-भतः! कान्त!कमनीय! स्वामिक!-अधिपते! निघृण!-निर्दय ! सस्नेहाया वियोगदुःस्थाया मम परित्यागात् 'नित्थक्क'त्ति अनवसरज्ञ अनुरक्ताया ममाकाण्डे एव त्यागादित्यर्द्ध।
'छिन्न'त्ति स्त्यान ! कठिन मदीयात्यन्तानुकूलचरिताद्रवीकृतहदयत्वात् निष्कृप! मम दुःखिताया अप्रतीकारात्, अकृतज्ञ! मदीयोपकारस्यानपेक्षणात् शिथिलभाव ! अकस्माद् मम मोचना निर्लज्ज ! प्रतिपन्नत्यागात् रूक्ष! स्नेहकार्याकरणात् अकरुण! हे जिनरक्षितमम हदयरक्षक!-वियोगदुःखेन शतधास्फुटतो हदयस्य त्रायक पुनर्मम स्वीकरणत इत्यर्थः इति चतुर्थं, । मू. (१३०) नहु जुञ्जसि एक्कियं अनाहं अबंधवं तुज्झ
चलणओवायकारियं उज्झिउं महण्णं ।
अहं तुमे विहूणा न समत्थावि जीविउंखणंपि ।। वृ. 'नहु' नैव युज्यसे-अर्हसि एककामनाथामबान्धवां तव चलनोपपातकारिकांपादसेवाविधायिनीमुज्झितुमधन्यामिति, इहच समानार्थनेकशब्दोपादानेऽपिन पुनरुक्तदोषः सम्भ्रमाभिहितत्वात्, यदाह॥१॥ “वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् ।
यत्पदमसकृद् ब्रूयात् तत्पुनरुक्तं न दोषाया॥" इति अर्धं, हे गुणसंकर!-गुणसमुदायरूप! हं इति अकारलोपदरअसनादहमिति दृश्यं त्वयाविहीना न समर्था जीवितुं क्षणमपीति पञ्चमं । मू. (१३१) इमस्स उ अनेगझसमगरविविधसावयसयाउलधरस्स। . रयणागरस्स मज्झे अप्पाणं वहेमि तुज्झ पुरओ एहि
नियत्ताहि जइसि कुविओखमाहि एक्कावराहं मे ॥ वृ.तथा 'इमस्स उत्तिअस्यपुनः अनेकेयेझषा-मत्स्यामकरा-ग्राहाः विविधश्चापदाश्चजलचरश्रुद्रसत्त्वरूपास्तेषां यानि शतानि तेषामाकुलगृहं आकीर्णगेहं झषादीनां वा सदा-नित्यं कुलगृहमिव कुलगृहं यः स तथा तस्येत्यर्द्ध, रत्नाकरस्य-समुद्रस्य मध्ये आत्मानं 'वहेमि'त्ति हन्मि तव-भवतः पुरतः-अग्रतः तथा एहि निवर्तस्व 'जइसि'त्ति यदि भवसि कुपितः क्षमस्वैकापराधं त्वं मे इति षष्ठं। मू. (१३२) तुज्झ य विगयघणविमलसमिमंडलगारसस्सिरीयं
सारयनवकमलकुमुदकुवलयविमलदलनिकरसरिसनिभं ।
नयणं वयणं पिवासागयाए सद्धा मे पेच्छिउंजे अवलोएहि ता इओ ममं नाह जा ते पेच्छामि वयणकमलं ॥ ७. 'तुज्झ यत्ति तव च विगधनं विमलंच यच्छशिमण्डलं तस्येवाकारो यस्य श्रिया च सह यद्वर्त्तते तत्तथा, पाठान्तरेण विगतघनविमलशशिमण्डलेनोपमा यस्य सश्रीकं च यत्तत्तथा, शारदं-शरत्कालसमभवं यन्नवं-प्रत्यग्रं कमलं च-सूर्यबोध्यं कुमुदं च-चन्द्रबोधं कुवलयं च-नीलोत्पलं तेषांयोदलनिकरः-दलवृन्दं तत्सदशे नितरांभात इति-निभेच नयने यत्र तत्तथा, पाठान्तरेण शारदनवकमलकुमुदे च ते विमुकुले च ते विकसिते शेषं तथैव,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org