________________
१६९
नाप.
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-९ प्रावृषि पुष्यन्ति सितकुसुमाश्च भवन्ति त एव कुसुमिताः सन्तो दन्ता यस्य धवलत्वासाधर्म्यात् सःकन्दलसिलीन्ध्रदन्तः, इहचसिलीन्ध्राणांकुसुमितत्वविशेषणंसामर्थ्याव्याख्यातं, कुसुमाभावे तेषांप्रावृषोऽन्यत्रापिकालान्तरेसम्भवादिति, तथा निउरो'त्ति वृक्षविशेषःतस्ययानिवरपुष्पाणि तान्येव पीवरः-स्थूरः करोयस्यसतथा, कुटजार्जनुनीपा-वृक्षविशेषास्तत्पुष्पाणिकुटजार्जुननीपानि तान्येव सुरभिदानं-सुगन्धिमदजलं यस्य स तथा, प्रावृट् ऋतुरेव गजवरः प्रावृड्ऋतुगजवरः स्वाधीनः, इह सिलिन्ध्रादिवनस्पतीनां कालान्तराकृतकुसुमानां सदाकुसुमितानां भावादात्मवशोऽस्तीति भावः। मू. (११५) तत्थ य-सुरगोवमणिविचित्तो ढुकुरकुलरसियउज्झररवो।
बरहिणविंदपरिणद्धसिहरो वासारत्तो उऊपव्वतो साहीणो॥ वृ. तथा तत्रैव वनखण्डे सुरगोपा-इन्द्रगोपकाभिधाना रक्तवर्णाः कीटास्त एव मणयः पद्मरागादयः तैर्विचित्रः-कर्बुरो यः स तथा, तथा दर्दुरकुलरसितं-मण्डूकसमूहरटितं तदेव उज्झररवो-निर्झरशब्दो यत्र स तथा, बर्हिणवृन्देन-शिखण्डिसमूहेन परिणद्वानि-परिगतानि शिखराणि ऋतुपक्षे वृक्षसम्बन्धीनि पर्वतपक्षे कूटानि यत्र स तथा वर्षारात्रऋतुरेव पर्वत इति विग्रहः, स्वाधीनः-स्वायत्तस्तद्धर्माणां सर्वदा तत्र भावादिति ।
मू. (११६) तत्थ णं तुब्भे देवाणुप्पिया! बहुसु बावीसु य जाव सरसरपंतियासु बहूसु आलीघरएसुय मालीघरएसुयजाव कुसुमघरएसु य सुहंसुहेणं अभिरममाणा विहरेजाह, जति गंतुब्भे एत्थवि उद्विग्गावा उस्सुया वा उप्पुयावाभवेजाहतोणंतुब्भे उत्तरिल्लंवणसंडंगच्छेज्जाह, तत्थ णं दो ऊऊसया साहीणा तं०-सरदो य हेमंतो य।
वृ. 'वावीसु' इत्यादिप्रथमाध्ययनवत्, ‘सरओहेमंतोय'त्ति कार्त्तिकमार्गशीर्षी पौषमाधौ चेत्यर्थः, इहापि गीतिकाद्वयंमू. (११७) तत्थ उ सणसत्तवण्णकउओ नीलुप्पलपउमनलिणसिंगो।
सारसचक्कवायरवितघोसो सरयऊऊगोवती साहीणो॥ वृ. 'तत्थ उ'इत्यादि, तत्रैवसनो-वल्कप्रधानो वनस्पतिविशेषः सप्तपर्णः-सप्तच्छदस्तयोः पुष्पाणि सनसप्तपर्णानि तान्येव ककुदं-स्कन्धदेशविसेषो यस्य स तथा, नीलोत्पलपद्मनलिनानि-जलजकुसुमविशेषास्तान्येव श्रृङगेयस्य सतथा, सारसाश्चक्रवाकाश्च-पक्षिविशेषां 'रवियं'ति रुतं तदेव घोषो-नर्दितं यस्य स तथा शरदतुरेव गोपतिः-गवेन्द्रः शरदतुगोपतिः स्वाधीनः । मू. (११८) तत्थ य सियकुंदधवलजोण्हो कुसुमितलोद्धवणसंडमंडलतलो ।
तुसारदगधारपीवरकरो हेमंतऊऊससी सया साहीणो॥ वृ. तथैव तत्र वनखण्डे सितानि यानि कुन्दानि-कुन्दाभिधनवनस्पतिकुसुमानि तान्येव धवला ज्योत्स्ना-चन्द्रिका यस्य स तथा, पाठान्तरेण 'सितकुंदविमलजोण्हो'त्ति स्पष्टं, कुसुमितो यो लोध्रवनखण्डः स एव मण्डलतलं-बिम्ब यस्य स तथा, तुषारं-हिमंतप्रधानाः या उदकधारा-उदकबिन्दुप्रवाहास्ता एव पीवराः-स्थूलाः कराः-किरणा यस्य स तथा, हेमन्तऋतुरेव शशी-चन्द्र इति विग्रहः स्वाधीनः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org