SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/४ उत्कर्षभिधानार्थं चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि, नवरं कुलं - पैतृकः पक्षः तथा बलं - संहननविशेषसमुत्थः प्राणः रूपम् - अनुत्तरसुररुपादनंतगुणं शरीरसौन्दर्यं विनयादीनि प्रतीतानि नवरं लाघवं - द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः एभिः संपन्नो यः स तथा, 'ओयंसि 'त्ति ओजोमानसोऽवष्टम्भस्तद्वानोजस्वी तथा तेजस्वी तेज:शरीरप्रभा तद्वांस्तेजस्वी वचो - वचनं सौभाग्याद्युपेतं यस्यास्ति स वचस्वी अथवा वर्चः - तेजः प्रभाव इत्यर्थस्त-द्वान् वर्चस्वयशस्वी - ख्यातिमान्, इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृतत्वात्, जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीतं, नवरं क्रोधादिजय उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः, तथा जीवितस्य - प्राणधारणस्याशा - वाञ्छामरणाच्चा यद्मयं ताभ्यां विप्रमुक्तः जीविताशामरणभयवि-प्रमुक्तस्तदुभयोपेक्षक इत्यर्थः, तथा तपसा प्रधान - उत्तमः शेषमुनिजना पेक्षया तपो वा प्रधानं यस्य स तपः प्रधानः, एवं गुणप्रधानोऽपि, नवरं गुणाः - संयमगुणाः, एतेन च विशेषणद्वयेन तपः संयमौ पूर्वबद्धाभिनवयोः कर्मणोर्निर्जरणानुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयावुपदर्शितौ, गुणप्रधान्ये प्रपञ्चार्थमेवाह १२ 'एवं करणे' त्यादि, यथा गुणशब्देन प्रधानशब्दोत्तरपदेन तस्य विशेषणमुक्तमेवं करणादिभिरेकविंशत्या शब्दैरेकविंशतिविशेषणान्यध्येयानि, तद्यथा-करणप्रधानश्चरणप्रधानो यावच्चरित्रप्रधानः, तत्रकरणं-पिण्डविशुद्धयादिः, यदाह - " पिंडविसोही समिई भावणे” त्यादि, चरणं-महाव्रतादि, आहच - ' वयसमणधम्मसंजमवेयावच्चं चे 'त्यादि, निग्रहः – अनाचार - प्रवृत्तेनिषेधनं निश्चयः- तत्त्वानां निर्णयः, विहितानुष्ठानेषु वाऽवश्यंकरणाभ्युपगमः आर्जवं मायानिग्रहो मार्दवं-माननिग्रहो लाघवं - क्रियासु दक्षत्त्वं क्षान्तिः - क्रोधनिग्रहः गुप्तिर्मनोगुप्तयादिका, मुक्तिर्निर्लोभता, विद्याः प्रज्ञत्यादिदेवताधिष्ठिता वर्णानुपूर्व्यः, मन्त्रा- हरिणेगमिष्यादिदेवताधिष्ठितास्ता एवअथवा विद्याः ससाधनाः साधनरहिता मन्त्रा ब्रह्म - ब्रह्मचर्य सर्वमेव वा कुशलानुष्ठानं वेदः–आगमो लौकिकलोकोत्तरकुप्रावचनिकभेदः नया - नैगमादयः सप्त प्रत्येकं शतविधाः नियमा-विचित्रा अभिग्रहविशेषाः सत्यं-वचनविशेषं शौचं - द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञानं-मत्यादि दर्शनं - चक्षुर्दर्शनादि सम्यकत्वं वा चारित्रं - बाह्यं सदनुष्ठानं, यच्चेह करणचरणग्रहणेऽपि आर्जवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थं, ननु जितक्रोधत्वादीनां आर्जवादीनां च को विशेषः ?, उच्यते, जितक्रोधादिविशेषणेषु तदुदयविफलीकरणमुक्तं मार्दवप्रधानादिषु तु उदयनिरोधः, अथवा यत एव जितक्रोधादिरत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्मावात् विशेषः, तथा ज्ञानसंपन्न इत्यादौ ज्ञानादिमत्त्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तु तद्वतां मध्ये तस्य प्राधान्यमित्येवमन्यत्राप्यपौनरुक्तयं भावनीयं, तथा ‘ओराले’त्ति भीमो भयानकः, कथम् ? - अतिकष्टं तपः कुर्वन् पार्श्ववर्त्तिनामल्पसत्त्वानां भयानको भवति, अपरस्त्वाह ‘उराले’त्ति उदारः - प्रधानः 'धोरि' त्ति धोरो निर्घृणः परिषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये त्वात्मनिरपेक्षं घोरमाहुः, तथा 'घोरव्वए' त्ति घोराणि - अन्यैर्दुरनुचराणि व्रतानिमहाव्रतानि यस्य स तथा, घोरैस्तपोभिस्तपस्वीच, तथा घोरंच दहह्मचर्यं चाल्पसत्त्वैर्दुःखं यदनुचर्यते तस्मिन् घोरब्रह्मचर्ये वस्तुं शीलमस्येति घोरब्रह्मचर्यवासी 'उच्छढशरीरे' 'उच्छूढं' ति उज्झितमि For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy