________________
ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/८/८७
हारविशेषाणां अथवा ओषधानां - एकद्रव्यरूपाणां भेषजानां द्रव्यसंयोगरूपाणां आवरणानांअङ्गरक्षकादीनां बोधिस्थप्रक्षराणां च 'अज्जे 'त्यादि, आर्य ! - हे पितामह ! तात ! - हे पितः ! हे भ्रातः ! हे मातुल ! हे भागिनेय ! भगवता समुद्रेण अभिरक्ष्यमाणा यूयं जीवत, भद्रं च 'भेत्ति भवतां भवत्विति गम्यते, पुनरपि लब्धार्थान् कृतकार्यान् अनघान् समग्रान्, अनधत्वं- निर्दूषणतया समग्रत्वम्-अहीनधनपरिवारतया, निजकं गृहं 'हव्वं 'ति शीघ्रमागतान् पश्याम इतिकृत्वा - इत्यभिधाय 'सोमाहिं' ति निर्विकारत्वात् 'निद्धाहिं' ति सस्नेहत्वात् 'दीहाहिं' ति दूरं यावदवलोकनात् ‘सप्पिवासाहिं’ति सपिपासाभिः पुनर्दर्शनाकाङ्क्षवतीभिर्दर्शनातृप्ताभिर्वा 'पप्पुयाहिं' ति प्रप्लुतभिः अश्रुजलार्द्राभिः ‘समाणिएसु'त्ति समापितेषु दत्तेषु नावीति गम्यते सरसरक्तचन्दस्य दद्दरण - चपेटाप्रकारेण पञ्चाङ्गुलितलेषु हस्तकेष्वित्यर्थः,
१४४
'अनुक्खित्तंसी 'ति अनूत्क्षिप्ते - पश्चादुत्पाटिते धूपे पूजितेषु समुद्रवातेष । नैसांयात्रिकप्रक्रियया समुद्राधिपदेवपादेषु वा 'संसारियासु वलयबाहासु' त्ति स्थानान्तरादुचितस्थाननिवेशितेषु दीर्घकाष्ठलक्षणबाहुषु आवल्लकेष्विति सम्भाव्यते, तथा उच्छ्रितेषु - ऊर्द्धकृतेषु सितेषु ध्वजाग्रेषु - पताकाग्रेषु पटुभिः पुरुषैः पटु वा यथा भवतीत्येवं प्रवादितेषु तूर्येषु जयिकेषु जयावहेषसर्वशकुनेषु - वायसादिषु गृहीतेषु राजवरशासनेषु - आज्ञासु पट्टकेषु वा प्रक्षुभितमहासमुद्ररवभूतमिव तदात्मकमिव तं प्रदेशमिति गम्यते 'तओ पुस्समाणवो वक्कमुयाहुत्ति ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स्म इत्यर्थः, तदेवाह - सर्वेषामेव 'भे' भवतामर्थसिद्धिर्भवतु, उपस्थितानि कल्याणानि प्रतिहतानि सर्वपापानि - सर्वविघ्नाः, 'जुत्तो' त्ति युक्तः 'पुष्यो' नक्षत्रविशेषः चन्द्रमसा इहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकरं, यदाह - " अपि द्वादशमे चन्द्रे, पुष्यः सर्वार्थसाधन” इति, मागधेन तदुपन्यस्तं, विजयो मुहूर्त्तस्त्रिशतो मुहूर्त्तानां मध्यात्, अयंदेशकालः - एष प्रस्तावो गमनस्येति गम्यते 'वक्केउदाहिए' ति वाक्ये उदाहते हृष्टतुष्टाः कर्णधारोनिर्यामकः कुक्षिधारा - नौपार्श्वनियुक्तकाः आवेल्लकवाहकादयः गर्भे भवाः गर्भजाः - नौमध्ये उच्चावचकर्मकारिणः संयात्रानौवाणिजका - भाण्डपतयः,
- एतेषां द्वन्द्वः, 'वावरिसु' त्ति व्यापृतवन्तः स्वस्वव्यापारेष्विति, ततस्तां नावं पूर्णोत्सङ्गांविविधभाण्डभृतमध्यां पण्यमध्यां वा मध्यभागनिवेशितमङ्गल्यवस्तुत्वात् पूर्णमुखीं पुण्यमुखीं वा तथैव वन्धनेभ्यो विसर्जयन्ति – मुञ्चन्ति, पवनबलसमाहता - वातसामर्थ्यप्रेरिताः 'ऊसियसिय'त्ति उच्छ्रितसितपटा, यानपात्रे हि वायुसङ्ग्रहार्थं महान् पट उच्छ्रितः क्रियते, एवं चासावुपमीयते विततपक्षेव गरुडयुवतिः गङ्गासलिलस्य तीक्ष्णाः ये श्रोतोवेगाः - प्रवाहवेगास्तैः सङ्क्षुभ्यन्ती २प्रेर्य- माणा समुद्रं प्रतीति ऊर्मयो–महाकल्लोलाः तरङ्गा-हस्वकल्लोलास्तेषां मालाः- समूहाः तत्सहस्राणि 'समतिच्छमाणि 'त्ति समतिक्रामन्ती 'ओगाढ' त्ति प्रविष्टा, 'तालजंघ' मित्यादि तालोवृक्षविशेषः स च दीर्घस्कन्धो भवति ततस्तालवज्जङ्खेयस्य तत्तथा, 'दिवंगयाहिं बाहाहिं ति आकाशप्राप्ताभ्यमतिदीर्घाभ्यां बाहुभ्यां युक्तमित्यर्थः, 'मसिमूसग महिसकालगं' ति मषी - कज्जलं मूषकःउन्दुरविशेषः अथवा मषीप्रधाना मूषा- ताम्रादिधातु- प्रतापनभाजनं मषीभूषा महिषश्च प्रतीत एव तद्वत्कालकं यत्तत्तथा 'भरियमेहवण्णं' ति जलभृत- मेघवर्णमित्यर्थः, तथा लम्बोष्ठं 'निग्गयग्गदंतं'ति निर्गतानि मुखादग्राणि येषां ते तथा निर्गताग्रा दन्ता यस्य तत्तथा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org