________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं ८
जिनप्रति- बिम्बमवस्वापं च प्रतिसञ्जहार, क्षोमयुगलं कुण्डलयुगंल च तीर्थकरस्योच्छीर्षकमूले स्थापयति स्म श्रीदामगण्डकं च नानामणिमयं जिनस्योल्लोके दृष्टिनिपातनिमित्तमतिरमणीयं निचिक्षेप,
१३७
ततः शक्रो वैश्रमणमवादीत् भो देवानुप्रिय ! द्वात्रिंशद्धिरण्यकोटीर्द्वात्रिंशत्सुवर्णकोटीश्च जिनजन्मभवने यथा संहरेति, तदादेशाच्च जृम्भका देवास्तथैव चक्रुः शक्रः पुनर्देवैर्जिनजन्मनगर्यां त्रिकादिष्वेवं घोषणं कारयामास, यथा- हन्त ! भुवनवास्यादिदेवाः ! श्रृण्वन्तु भवन्तो यथा यो जिने जिनजनन्यां वाऽशुभं मनः सम्प्रधायरयति तस्यार्जकमञ्जरीव सप्तधा मूर्द्धा स्फुटतु, ततो देवा नन्दीश्वरे महिमानं विदधुः, स्वस्थानानि च जग्मुरिति । मालायै हितं तत्र वा साध्विति माल्यं कुसुमं तद्गतदोहदपूर्वकंजन्मत्वेनान्वर्धतः शब्दतस्तु निपातनात् मल्लीति नाम कृतं यस्तु स्त्रीत्वेऽपि तस्यार्हज्जिनस्तीर्थकर इत्यादिशब्दैव्यपदेशः सोऽर्हदा-दिशब्दानां बाहुल्येन पुंस्खेव प्रवृत्तिदर्शनादिति, ‘यथा महाबल’इति भगवत्यां महाबलोऽभिहित इहैव वा यथा मेघकुमार इति । मू. (८३) सा वद्धती भगवती दियलोयचुता अणोवमसिरीया । दासीदासपरिवुडा परिकिन्ना पीढमद्देहिं ।।
वृ. 'सा वहुए भगवती' त्यादि गाथाद्वयं आवश्यकनियुक्तिसम्बन्धि ऋषभमहावीरवर्णकरूपं बहुविशेषसाधर्म्यादिहाधीतं न पुनर्गाथाद्वयोक्तानि विशेषणानि सर्वाणि मल्लिजिनस्य घटन्त एव, तच्च दर्शयिष्यामः, ततः सा वर्द्धते - वृद्धिमुपगच्छति स्म भगवती ऐश्वर्यादिगुणयोगात् देवलो - काच्युता अनुत्तरविमानावतीर्णत्वात् अनुपमश्रीका - निरुपमानशोभा दासीदासपरिवृतेति प्रतीतं, परिकीर्णा - परिकरिता पीठमर्द्दे :- वयस्यैरिति एतत्किल प्रायः स्त्रीणामसम्भवि, वयस्थिकानामेव तासां सम्भवात्, अथवा अलौकिकचरितत्वेन पीठमर्द्दसम्भवेऽपि निर्दूषणत्वेन भगवत्या नेदं विशेषणं न सम्भवविति ।
मू. (८४)
असियसिरया सुनयणा बिंबोट्ठी धवलदंतपंतीया ।
वरकमलकोमलंगी फुल्लुप्पगंधनीसासा ।।”
वृ. असितशिरोजा - कालकुन्तला सुनयना - सुलोचना बिम्बोष्ठी - पक्वगोल्हाभिधानफलविशेषाकारोष्ठी धवलदन्तपङ्कितका पाठान्तरेण धवलदन्तश्रेणिका वरकमलगर्भगौरीत्येतद्विशे षणं न सम्भवति तस्याः कमलगर्भस्य सुवर्णवर्णत्वात् भगवत्याश्च मल्लयाः प्रियङ्गुवर्णत्वेन श्यामत्वाद्, उक्तं च
॥१॥
“पउमाभ वासुपूज्जा रत्ता ससिपुप्फदंत ससिगोरा ।
सुव्वयनेमी काला पासो मल्ली पियंगाभा ॥” इति,
अथवा वरकमलस्य-प्रधानहरिणस्य गर्भ इव गर्भो जठरसम्भूतत्वसाधर्म्यात् वरकमलगर्भः- कस्तूरिका तद्वद् गौरी - अवदाता वरकमलगर्भगौरी श्यामवर्णत्वात्, कस्तूरिकाया इव श्यामेत्यर्थः, पाठान्तरेण वरकमलगर्भवर्णा, तत्रापि श्यामवर्णेत्यर्थः, वाचनान्तरेण वरकमलकोमलाङ्गीत्यनवद्यमेव, फुल्लं - विकसितं यदुत्पलं- नीलोत्पलादि तस्य यो गन्धस्तद्वन्निःश्वासो गन्धसाधर्म्याद्यस्याः सा तथा सुरभिनिःश्वासेत्यर्थः,
पाठान्तरेण 'पउमुप्पलुप्पलगंधनीसास' त्ति तत्र पद्मं - शतपत्रादि गन्धद्रव्यविशेषो वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org