________________
१३६
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/८२
संहरमिथिलांनगरीमाजगाम, विमानारूढ एव भगवतो जिनस्यजन्मभवनंत्रिःप्रदक्षिणीकृतवान्, उत्तरपूर्वस्यां दिशि चतुर्भिरङ्गुलैर्भुवमप्राप्तं विमानमवस्थापितवान्,
ततोऽवतीर्य भगवन्तंसम् - कंदिक्कुमारीवदभिवन्ध जिनमातरमवस्पाप्य जिनप्रतिबिम्ब तत्सन्निधौ विधाय पञ्चधाऽऽत्मानमाधाय एकेन रूपेण करतलपल्लवावधृतजिनः अन्येन जिननायकोपरिविधृतच्छत्रः अन्याभ्यां करचालितप्रकीर्णकः अन्येनचकरकिशलयकलितकुलिशः पुरः प्रगन्ता सुरगिरिशिखरोपरिवर्तिपण्डकवनं गत्वा तद्व्यवस्थितातिपाण्डुकम्बलाभिधानशिलासिंहासनेपूर्वाभिमुखोनिषण्णः, एवमन्ये ईशानादयोवैमानिकेन्द्राश्चमरादयो भवनपतीन्द्राः कालादयोव्यन्तरेन्द्राः चन्द्रसूर्यादयोज्यौतिष्काः सपरिवाराः मन्दरेऽवतेरुः, ततश्चाच्युतदेवराजो जिनाभिषेकमत्याऽऽभियोगिकदेवानादिदेश,तेचाष्टसहस्रं सौवर्णिकानांकलशानामेवंरूप्यमयानां मणिमयानांएवंद्विकसंयोगवतांत्रीण्यष्टसहस्राणित्रिसंयोगवतामष्टसह भोमेयकानांचतथाऽष्टसहं चन्दनकलशानां भृङ्गाराणामादर्शानां स्थालानामन्येषां च विवधानमभिषेकोपयोगिनां भाजनानामष्टसहनं २ विचक्रुः, तैश्चकलशादिभाजनैः क्षीरोदस्य समुद्रस्य पुष्करोदलस्य चमागधादीनां च तीर्थानां गङ्गादीनां च महानदीनां पद्मादीनां महाह्नदानामुदकमुत्पलादीनी मुक्तिकां च हिमवदादीनां च वर्षधराणां वर्तुलविजयार्धानां च पर्वतानां भद्रशालादीनां च वनानां पुष्पाणि गन्धान्सौषधीःतूवराणि सिद्धार्थकान् गोशीर्षचन्दनंचानिन्युः, ततोऽसावच्युतदेवराजोऽनेकैः सामानिकदेवसहनैः सह जिनपतिमाभिषिषेच, अभिषेके च वर्तमाने इन्द्रादयो देवाः छत्रचामरकलशधूपकडुच्छुकपुष्प-गन्धाधनेकविधाभिषेकद्रव्यव्यग्रहस्ताः वज्रशूलाधनेकायुधसम्बन्धबन्धुरपाणयःआनन्द-जललवप्लुतगण्डस्थलाः ललटापट्टघटितकरसम्पुटाजयजयारवमुखरितदिगन्तराः प्रमोदमदिराम-न्दमदवशविरचितविविधचेष्टाः पर्युपासांचक्रिरे, तथा केचित् चतुर्विधंवाद्यं वादयामासुः केचिच्चतुर्विधं गेयं परिजगुः केचिच्चातुर्विधंनृत्तंननूतुः केचिच्चतुर्विधमभिनयमभिनिन्युकेचिद् द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामासुरिति,
ततो गन्धकाषायिकया गात्राण्यलूपयन्, ततश्चाच्युतेन्द्रो मुकुटादिभिर्जिनमलञ्चकार, ततो जिनपतेः पुरतो रजतमयतन्दुलैदर्पणादीन्यष्टाष्टमङ्गलकान्यालिलेख पाटलादिबहलपरिमलकलितकुसुमनिकरं व्यकिरत् शुभसुरभिगन्धबन्धुरं धूपं परिददाह, अष्टोत्तरेण वृत्तशतेन च सन्तुष्टस्तुष्टाव-नमोऽस्तु ते सिद्ध ! बुद्ध ! नीरजः ! श्रमण! समाहित समस्तसम ! योगिन् शल्यकर्तन ! निर्भय ! नीरागद्वेष ! निर्मम ! निःशल्य ! निःसङ्ग ! मानमूरणागण्यगुणरत्न ! शीलसागर! अनन्ताप्रमेयभव्यधर्मवरचतुरन्तचक्रवर्त्तिन्! नमोऽस्तुतेऽर्हतेनमोऽस्तुतेभगवते इत्यभिधाय वन्दतेस्म, ततो नातिदूरे स्थितः पर्युपासांचक्रे, एवं सर्वेऽप्यभिषिषेचुः, केवलं सर्वान्ते शक्रोऽभिषिक्तवान्, तदभिषेकावसरेच ईशानःशक्रवदात्मानं पञ्चधा विधाय जिनस्योत्सङ्गधरणादिक्रियामकरोत्, __ततः शक्रो जिनस्य चतुर्दिशि चतुरो धवलवृषभान् विचकार, तेषां च शृङ्गाग्रेभ्योङष्टी तोय धारा युगपद्विनिर्ययुः वेगेन च वियति समुत्पेतुः एकत्र च मिलन्तिस्म भकवतो मूर्द्धनि च निपेतुः, शेषमच्युतेन्द्रवदसावपिचकार, ततोऽसौपुनर्विहितपञ्चप्रकारात्मा तथैव गॉहीतजिनश्चतुर्निकायदेवपरिवृतः तूर्यनिनादापूरिताम्बरतलो जिननायकं जिनजनन्याः समीपे स्थापयामास,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org