SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १३५ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ व्यवस्थाप्य जिनसमीपंजिनजननीसमीपंच गत्वा त्रिःप्रदक्षिणीकृत्य कृतप्राञ्जलिपुटाइदमवादिषुःनमोऽस्तु ते रत्नकुक्षिधारिके! नमोऽस्तुते जगप्रदीपदायिके! वयमधोलोकवास्तव्या दिक्कुमार्यो जिनस्य जन्ममहिमानं विधास्यामः अतो युष्माभिर्न भेतव्यमिति अभिधाय च विहितसंवर्त्तवाताः जिनजन्मभवनस्य समन्ताद्योजनपरिमण्डलक्षेत्रस्य तृणपत्रकचवरादेर-शुचिवस्तुनोऽपनयनेन विहितशुध्द्योर्जिनजनन्योरदूरतो जिनस्यासाधारणमगणितगुणगण-मागायन्त्यस्तस्थुः, एवमेवोर्ध्वलोकवास्तव्या नन्दनवनकूटनिवासिन्य इत्यर्थः अष्टौ दिक्कुमारीमहत्तरिकास्तथैवागत्यविरचिताभ्रवईलिकाःआयोजनमानक्षेत्रंगन्धोदकवर्षपुष्पवर्षं धूपघटीश्च कृत्वा जिनसमीपमागत्यपरिगायन्त्यआसांचक्रुः तथापौरस्त्यरुचकवास्तव्यारुचकाभिधानस्यत्रयोदशस्य द्वीपस्य मध्यवर्तिनः प्राकाराकारेण मण्डलव्यवस्थितस्योपरि पूर्वदिग्व्यवस्थितेष्वष्टासु कूटेषु कृतनिवासा इत्यर्थः आगत्य तथैवादहिस्ता गायन्त्यस्तस्थुः, एवंदक्षिणरुचकवास्तव्या जिनस्य दक्षिणेन भृङ्गारहस्ताः पश्चिमरुचकवास्तव्या जिनस्य पश्चिमेनतालवृन्तहस्ता उत्तररुचकवास्तव्याचामरहस्ता जिनस्य उत्तरेण, एवंचतम्रो रुचकस्य विदिग्वास्तव्याआगत्य दीपिकाहस्ता जिनस्य चतसृषु विदिक्षुतथैव तस्थुः, मध्यमरुचकवास्तव्या रुचकद्वीपस्याभ्यनतरार्द्धवासिन्य इत्यर्थः चतम्रस्तास्तथैवागत्य जिनस्य चतुरङ्गुलवर्जनाभिनालच्छेदनंच विवरखननं च नाभिनालनिधानं च विवरस्य रलपूर्ण चतदुपरिहरितालिकापीठबन्धंच पश्चिमावर्जदिक्त्रयेकदलीगृहत्रयंचतन्मध्येषुचतुःशालभवनत्रयं चतन्मध्यदेशे सिंहासनत्रयंच दक्षिणे सिंहासने जिनजनन्योरुपवेशनंच शतपाकादितैलाभ्यङ्गनं चगन्धद्रव्योद्वर्त्तनंचपुष्पोदकंचपूर्वत्र पुष्पोदकगन्धोदकशुद्धोदकमज्जनंच सर्वालङ्कारविभूषणं च उत्तरत्र गोशीर्षचन्दनकाष्ठैर्वह्नयुज्वलनं चाग्निहोमंच भूतिकर्मचरक्षापोट्टलिकांच मणिमयपाषाणद्वयस्य जिनकर्णाभ्यनुप्रताडनंचभवतुभगवान्पर्वतायुरितिभणनंचपुनः समातृकजिनस्य स्वभवननयनं च शय्याशायनं च चक्रुः कृत्वा च गायन्त्यस्तस्थुरिति। सौधर्मकल्पेच शक्रस्यसहसाआसनंप्रचकम्पेअवधिंचासौप्रयुयुजेतीर्थकरजन्मचालुलोके ससंभ्रमंच सिंहासनादुत्तस्थौपादुकेचमुमोचउत्तरासङ्गंचचकारसप्ताष्टानिचपदानि जिनाभिमुखमुपजगाम भक्तिभरनिर्भरो यथाविधि जिनं च ननाम पुनः सिंहासनमुपविवेश हरिणेगमेषीदेवं पदात्यनीकाधिपति शब्दयांचकार तं चादिदेश यथा सुधर्मायां सभायां योजनपरिमण्डलां सुघोषाभिधानांघण्टां त्रिस्ताडयन्नुद्घोषणां विधेहि, यथा-भो भो देवा! गच्छतिशको जम्बूद्वीपं तीर्थकरजन्ममहिमानं कर्तुमतो यूयं सर्वसमृध्द्या शीघ्रं शक्रस्यान्तिके प्रादुर्भवतेति, स तु तथैव चकार, तस्यां च घण्टायां ताडितायामन्यान्येकोनद्वात्रिंशदघण्टालक्षाणि समकमेव रणरणारवं चक्रुः, उपरते च घण्टारवे घोषणामुपश्रुत्य यथादिष्ट देवाःसपदि विदधुः, ___ततोपालकाभिधानाभियोगिकदेवविरचितेलक्षयोजनप्रमाणेपश्चिमावर्जदिक्त्रयनिवेशिततोरणद्वारे नानामणिमयूखमञ्जरीरञ्जितगगनमण्डले नयनमनसामतिप्रमोददायिनि महाविमानेऽधिरूढः सामानिकादिदेवकोटीभिरनेकाभिः परिवृतः पुरःप्रवर्तितपूर्णकलशभृङ्गारच्छत्रपताकाचामराद्यनेकमङ्गल्यवस्तुस्तोमः पञ्चवर्णकुडभिकासहपरिमण्डितयोजनसहोच्छ्रितमहेन्द्रध्वजप्रदर्शितमार्गो नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते कृतावतारोदिव्यविमानर्द्धिमुप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy