SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ शतकं - १२, वर्गः-, उद्देशकः - १० दिष्टोऽनात्मा २ तदुभयस्य - द्विप्रदेशिकस्कन्धतदन्यस्कन्धलक्षणस्य पर्यायैरादिष्टोऽसाववक्तव्यं वस्तु स्यात्, कथम् ?, आत्मेति चानात्मेति चेति २ । तथा द्विप्रदेशत्वात्तस्य देश एक आदिष्टः, सद्भावप्रधानाः-सत्तानुगताः पर्यवा यस्मिन् स सद्भावपर्यवः, अथवा तृतीयाबहुवचनमिदं स्वपर्यवैरित्यर्थः, द्वितीयस्तु देश आदिष्टः असद्भावपर्यवः परपर्यायैरित्यर्थः, परपर्यवाश्च तदीयद्वितीयदेशसम्बन्धिनो वस्त्वन्तरसम्बन्धिनो वेति, ततश्चासौ द्विप्रदेशिकः स्कन्धः क्रमेणात्मा चेति नोआत्मा चेति ४, तथा तस्य देश आदिष्टः सद्भावपर्यवो देशश्चोभयपर्यवस्ततोऽसावात्मा चावक्तव्यं चेति ५, तथा तस्यैव देश आदि टोऽसद्भावपर्यवो देशस्तूभयपर्यवस्ततोऽसौ नोआत्मा चावक्तव्यं च स्यादिति ६, सप्तमः पुनरात्मा च नोआत्मा चावक्तव्यं चेत्येवंरूपो न भवति द्विप्रदेशिके इयंशत्वादस्य त्रिप्रदेशिकादौ तु स्यादिति सप्तभङ्गी । त्रिप्रदेशिकस्कन्धे तु त्रयोदश भङ्गास्तत्र पूर्वोक्तेषु सप्तस्वाद्याः सकलादेशायस्तथैव, तदन्येषु तु त्रिषु त्रयम्रय एकवचनबहुवचनभेदात्, सप्तमस्त्वेकविधि एव यच्चेह प्रदेशद्वयेऽप्येकवचनं क्वचित्तत्तस्य प्रदेशद्वयस्यैकप्रदेशावगाढत्वाहेतुनैकत्वविवक्षणात्, भेदविवक्षायां च बहुवचनमिति चतुष्प्रदेशिकेऽप्येवं नवरमेकोनविंशतिर्भङ्गाः, तत्र त्रयः सकलादेशाः तथैव शेषेषु चतुर्षु प्रत्येकं चत्वारोविकल्पाः, ते चैवं चतुर्थादिषु त्रिषु - सप्तमस्त्वेवम्- । पञ्चप्रदेशिकेतु द्वाविंशति- स्तत्राद्यास्त्रयस्तथैव, तदुत्तरेषु च त्रिषु प्रत्येकं चत्वारो विकल्पास्तथैव, सप्तमे तु सप्त, तत्र त्रिकसंयोगे किलाष्टौ भङ्गका भवन्ति, तेषु च सप्तैवेह ग्राह्या एकस्तु तेषु च सप्तैवेह ग्राह्या एकस्तु तेषु न पतत्यसम्भवात् । इदमेवाह-‘तिगसंजोगे’त्यादि, षटप्रदेशिके त्रयोविंशतिरिति । शतकं -9 ९-१२ उद्देशकः - १० समाप्तः गम्भीररूपस्य महोदधेपतः परं पारमुपैति मङ्क्षु । गतावशक्तोऽपि निजप्रकृत्या, कस्याप्यष्टस्य विजृम्भितं तत् । शतकं - १२ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे अभयदेवसूरि विरचिता द्वादशशतकस्य टीका परिसमाप्ता । शतकं - १३ वृ. व्याख्यातं द्वादशं शतं तत्रचानेकधा जीवादयः पदार्था उक्ताः, त्रयोदशशतेऽपि त एव भङ्गयन्तरेणोच्यन्त इत्येवं सम्बन्धमिदं व्याख्यायते, तत्र पुनरियमुद्देशकसङ्ग्रहगाथा - मू. (५६३) पुढवी १ देव २ मनंतर ३ पुढवी ४ आहारमेव ५ उववाए ६ । भासा ७ कम ८ अनगारे केयाघडिया ९ समुग्धाए १० । ९५ वृ. पुढवी' त्यादि, 'पुढवी 'ति नरकपृथिवीविषयः प्रथमः १, 'देव' त्ति देवप्ररूपणार्थो द्वितीयः २ ‘अनंतर’त्ति अनन्तराहारा नारका इत्याद्यर्थः प्रतिपादनपरस्तृतीयः ३, 'पुढवि' त्ति पृथिवीगतवक्तव्यताप्रतिबद्धश्चतुर्थः ४, ' आहारे' त्ति नारकाद्याहारप्ररूपणार्थः पञ्चमः ५, 'उववाए' त्ति नारका For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy