SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ - शतकं-१२, वर्गः:, उद्देशकः-१० ८९ सह चिन्त्यते, तत्रयस्यजीवस्य 'द्रव्यात्मा' द्रव्यात्मत्वंजीवत्वमित्यर्थः तस्य कषायात्मा ‘स्यादस्ति' कदाचिदस्ति सकषायावस्थायां 'स्यानास्ति' कदाचिन्नास्ति क्षीणोपशान्तकषायावस्थायां, यस्य पुनः कषायात्माऽस्ति तस्य द्रव्यात्मा द्रव्यात्मत्वं-जीवत्वं नियमादस्ति, जीवत्वं विना कषायाणामभावादिति।तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति, योगवतामिव, नास्ति चायोगिसिद्धानामिव, तथा यस्य योगात्मा तस्य द्रव्यात्मा नियमादस्ति, जीवत्वं विना योगानामभावात्, एतदेव पूर्वसूत्रोपमानेन दर्शयन्नाह-‘एवं जहा दवियायेत्यादि । तथा यस्य जीवस्य द्रव्यात्मा तस्यनियमादुपयोगात्मा, यस्याप्युपयोगात्मातस्यनियमाइव्यात्मा, एतयोः परस्परेणाविनाभूतत्वाद् यथा सिद्धस्य, तदन्यस्य च द्रव्यात्माऽस्त्युपयोगात्मा चोपयोगलक्षणत्वाज्जीवानां, एतदेवाह'जस्स दवियाये'त्यादि। __ तथा ‘जस्स दवियाया तस्स नाणाया भयणाए जस्स पुण नाणाया तस्स दवियाया नियम अत्थि'त्ति यस्य जीवस्य द्रव्यात्मा तस्य ज्ञानात्मा स्यादस्ति यथा स्मयग्दृष्टीनां स्यान्नास्ति यथा मिथ्यादृष्टीनामित्येवं भजना, यस्य तु ज्ञानात्मा तस्य द्रव्यात्मा नियमादस्ति, यथा सिद्धस्येति । 'जस्स दयियाया तस्सदसणाया नियमं अस्थित्तियथा सिद्धस्य केवलदर्शनं 'जस्सविदंसणाया तस्सदवियाया नियमअत्थि'त्ति यथा चक्षुर्दर्शनादिदर्शनवतांजीवत्वमिति, तथा 'जस्सदवियाया तस्स चरित्ताया भयणाए'त्ति यतः सिद्धस्याविरतस्य वा द्रव्यात्मत्वे सत्यपि चारित्रात्मा नास्ति विरतानांचास्तीति भजनेति, एवंवीरियातेविसमंतियथाद्रव्यात्मनश्चारित्रात्मनासह भजनोक्ता नियमश्चैवं वीर्यात्मनाऽपिसहेति, तथाहि-यस्य द्रव्यात्मा तस्य वीर्यात्मा नास्ति, यथा सकरणवीयपिक्षया सिद्धस्य तदन्यस्य त्वस्तीति भजना, वीर्यात्मनस्तुद्रव्यात्माऽस्त्येव यथा संसारिणामिति ___अथ कषायात्मना सहान्यानिषट्पदानि चिन्त्यन्ते-'जस्सण'मित्यादि, यस्य कषायात्मा तस्य योग्तामाऽस्त्येव, नहि सकषायोऽयोगी भवति, यस्य तु योगात्मा तस्य कषायात्मा स्याद्वा न वा, सयोगानां सकषायाणामकषायाणां च भावादिति, “एवं उवओगाया, एवी' त्यादि, अयमर्थः-यस्य कषायात्मा तस्योपयोगात्माऽवश्यं भवति, उपयोगरहितस्य कषायाणामभावात्, यस्य पुनरुपयोगात्मा तस्य कषायात्मा भजनया, उपयोगात्मतायां सत्यामपि कषायिणामेव कषायात्मा भवति निष्कषायाणां तु नासाविति भजनेति। तथा 'कसायाया यनाणायायपरोप्परंदोविभइयव्वाओ'त्ति, कथम्?, यस्य कषायात्मा तस्यज्ञानात्मा स्यादस्ति, यतः कषायिणः सम्यग्दृटेानात्माऽस्ति मिथ्याटेस्तुतस्य नास्त्यसाविति भजना, तथा यस्य ज्ञानात्मास्ति तस्य कषायात्मा स्यादस्ति स्यान्नास्ति, ज्ञानिनां कषायभावात् तदभावाचेति भजनेति, 'जहा कसायाया उवओगाया य तहा कसायाया य दंसणाया यत्ति अतिदेशः, तस्माच्चेदंलब्भं-'जस्स कसायाया तस्स दंसणाया नियमअत्थि' दर्शनरहितस्यघटादेः कषायात्मनोऽभावात् ‘जस्स पुण दंसणाया तस्स कसायाया सिय अस्थि सिय नत्थि' दर्शनवतां कषायसद्भावात्तदभावाच्चेति, दृष्टान्तार्थःस्तु प्राक् प्रसिद्ध एवेति । 'कसायायाय चरित्ताया यदोवि परोप्परं भइयव्याओ'त्ति, भजनाचैवं-यस्य कषायात्मा तस्य चारित्रात्मास्यादस्ति स्यान्नास्ति, कयं?,कषायिणांचारित्रस्य सद्भावात्प्रमत्तयतीनामिव तदभावाचासंयतानामिवेति, तथा यस्य चारित्रात्मा तस्य कषायात्मा स्यादस्ति स्यान्नास्ति, कथं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy