________________
भगवतीअङ्गसूत्रं (२) १२/-/१०/५६० सामायिकादिचारित्रिणांकषायाणांभावाद् यथाख्यातचारित्रिणांचतदभावादिति, 'जहा कसायाया यजोगाया यतहा कसायायावीरियाया य भाणियव्वाओ'त्ति दृष्टान्तःप्राक्-प्रसिद्धः, दार्टान्तिकस्त्वेवंयस्य कषायात्मा तस्य वीर्यात्मा नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति, यस्य पुनर्वीर्यात्मा स्य कषायात्मा भजनया, यतो वीर्यवान् नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति, यस्य पुनर्वीर्यात्मा तस्य कषायात्मा भजनया, यतो वीर्यवान् सकषायोऽपि स्याद् द्यथा संयतः अकषायोऽपि स्याद् यथा केवलीति ६।
अथ योगात्माऽग्रेतनपदैः पञ्चभिः सह चिन्तनीयस्तत्रच लाघवार्थःमतिदिशन्नाह-‘एवं जहा कसायायाए वत्तव्वया भणियातहाजोगायाएविउवरिमाहिं समंभाणियव्व'त्ति, साचैवम्यस्य योगात्मा तस्योपयोगात्मा नियमाद् यथा सयोगानां, यस्य पुनरुपयोगात्मा तस्य योगात्मा स्यादस्ति यथा सयोगानां स्यानास्ति यथाऽयोगिनां सिद्धानां चेति, तथा यस्य योगात्मा तस्य ज्ञानात्मास्यादस्ति सम्यग्दृष्टीनामिव स्यानास्ति मिथ्यादृष्टीनामिव, यस्यज्ञानात्मा तस्यापियोगात्मा स्यादस्ति सयोगिनामिव स्यान्नास्त्ययोगिना मिवेति, तथा यस्य योगात्मा तस्य दर्शनात्माऽस्त्येव योगिनामिव यस्य च दर्शनात्मा तस्य योगात्मा स्यादस्ति योगवतामिव स्यानास्ययोगिनामिव, तथा यस्य योगात्मा तस्य चारित्रात्मा स्यादस्ति विरतानामिव स्यानास्त्यविरतानामिव, यस्यापि चारित्रात्मा तस्य योगात्मा स्यादस्ति सयोगचारित्रवतामिव स्यान्नास्त्ययोगिनामिवेति ।
वाचनान्तरे पुनरिदमेवंद्दश्यते-'जस्सचरित्ताया तस्स जोगाया नियमतितत्रचचारित्रस्य प्रत्युपेक्षणादिव्यापाररूपस्य विवक्षितत्वात्तस्य च योगाविनाभावित्वात् यस्य चारित्रात्मा तस्य योगात्मा नियमादित्युच्यत इति, तथा यस्य योगात्मा तस्य वीर्यात्माऽस्त्येव योगसद्भावे वीर्यस्यावश्यम्भावात्, यस्य तु वीर्यात्मा तस्य योगात्मा भजनया यतो वीर्यविशेषवान् सयोग्यपि स्याद् यथा सयोगकेवल्यादि अयोग्यपि स्याद् यथाऽयोगिकेवलीति ५।
अथोपयोगात्मना सहान्यानि चत्वारि यथा सम्यग्दृशां स्यान्नास्ति यथा मिथ्याशां, यस्य चज्ञानात्मा तस्यावश्यमुपयोगात्मा सिद्धानामिवेति १,तता यस्योपयोगात्मा तस्यदर्शनात्माऽस्त्येव यस्यापि दर्शनात्मा तस्योपयोगात्माऽस्त्येव यथा सिद्धादीनामिवेति २, तथा यस्योपयोगात्मा तस्य चारित्रात्मा स्यादस्ति स्यान्नास्ति यथा संयतानामसंयतानांच, यस्य तु चारित्रात्मा तस्योपयोगात्माऽस्त्येवेति यथा संयतानां ३, तथायस्योपयोगात्मातस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धानामिव यस्य पुनर्वीर्यात्मा तस्योपयोगात्माऽस्त्येव संसारिणामिवेति ४।।
अथ ज्ञानात्मना सहान्यानि त्रीणि चिन्त्यन्ते-'जस्स नाणे'त्यादि, तत्र यस्य ज्ञानात्मा तस्य दर्शनात्माऽस्त्येव सम्यग्दृशामिव, यस्य च दर्शनात्मा तस्य ज्ञानात्मा स्यादस्ति यता सम्यग्दृशां स्यान्नास्ति यथा मिथ्याशामत एवोक्तं 'भयणाए'त्ति १। तथा 'जस्सनाणाया तस्स चरित्ताया सियअत्थि'त्तिसंयतानामिव 'सिय नत्थित्तअसंयतानामिव 'जस्सपुण चरित्ताया तस्स नाणाया नियमं अस्थि'त्ति ज्ञानं विना चारित्रस्या- भावादिति २, तथा 'नाणाये'त्यादि अस्यार्थः यस्य ज्ञानात्मातस्य वीर्यात्मा स्यादस्ति केवल्यादी-नामिव स्यान्नास्ति सिद्धानामिव, यस्यापि वीर्यात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टेरिव स्यान्नास्ति मिथ्याशय इवेति ३। अथदर्शनात्मना सह द्वे चिन्त्येते-'जस्स दंसणाये' त्यादि, भावनाचास्य-यस्य दर्शनात्मा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only