SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं (२) १२/-/८/५५३ वृ. 'गोलंगूलवसभे' त्ति गोलाङ्गूलानां वानराणां मध्ये महान् स एव वा विदग्धो विदग्धपययत्वाद्वृषभशब्दस्य एवं कुर्कुटवृषभोऽपि एवं मण्डूकवृषभोऽपि, 'निस्सील 'त्ति समाधानरहिताः 'निव्वय'त्ति अणुव्रतरहिताः 'निग्गुण'त्ति गुणव्रतैः क्षमादिभिर्वा रहिताः 'नेरइयत्ताए उववज्जेज्जा' इति प्रश्नः, इह च 'उववज्रेज्जा' इत्येतदुत्तरं तस्य चासम्भवमाशङ्कमानस्तत्परिहारमाह · 'समणे' इत्यादि, असम्भवश्चैवं यत्र समये गोलाङ्गूलादयो न तत्र समये नारकास्ते अतः कथं ते नारकतयोत्पद्यन्ते इति वक्तव्यं स्याद् ? अत्रोच्यते - श्रमणो भगवान् महावीरो न तु • जमाल्यादि एवं व्याकरोति - यदुत उत्पद्यमानमुत्पन्नमिति वक्तव्यं स्यात्, क्रियाकालनिष्ठाकालयोरभेदाद्, अतस्ते गोलाङ्गूलप्रभृतयो नारकतयोत्पत्तुकामा नारका एवेतिकृत्वा सुट्ठूच्यते 'नेरइयत्ताए उववज्जेज्ज’त्ति, ‘उस्सप्पिणिउद्देसए' त्ति सप्तमशतस्य षष्ठ इति ॥ शतकं - १२, उद्देशकः-८ समाप्तः ८२ -: शतकं - १२ उद्देशकः - ९: वृ. अष्टमोद्देशके देवस्य नागादिषूत्पत्तिरुक्ता नवमे तु देवा एव प्ररूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (५५४) कइविहा णं भंते! देवा पन्नत्ता ?, गोयमा ! पंचविहा देवा पन्नत्ता, तंजहा- भवियदव्वदेवा १ नेरदेवा २ धम्मदेवा ३ देवाहिदेवा ४ भावदेवा ५, से केणट्टेणं भंते! एवं बुच्चइ भवियदव्वदेवा भवियदव्वदेवा ?, गोयमा ! जे भविए पंचिंदियतिरिक्खजणिए वा मस्से वा देवेसु उववजित्तए से तेणट्टेणं गोयमा ! एवं वुच्चइ भवियदव्वदेवा २ । सेकेणट्टेणं भंते! एवं वुच्चइ नरदेवा नरदेवा ?, गोयमा ! जे इमे रायाणो चाउरंतचक्कवट्टी उप्पन्नसमत्तचक्करयणप्पहाणा नवनीहीपइणो समिद्धकोसा बत्तीसं रायवरसहस्णुजायमग्गा सागरवरमेहलाहिवणो मणुस्सिदा से तेणट्टेणं जाव नरदेवा २ । सेकेणणं भंते! एवं वृच्चइ धम्मदेवा धम्मदेवा ?, गोयमा ! जे इमे अनगारा भगवंतो ईरियासमिया जाव गुत्तबंभयारी से तेणट्टेणं जाव धम्मदेवा २ । भंते! एवं वृच्च देवाधिदेवा देवाधिदेवा ?, गोयमा ! जे इमे अरिहंता भगवंतो उप्पन्ननाणदंसणधरा जाव सव्वदरिसी से तेणट्टेणं जाव देनाधिदेवा २ । सेकेणणं भंते! एवं वृच्चइ - भावदेवा भावदेवा ?, गोयमा ! जे इमे भवणवइवाणमंतरजोइसवेमाणिया देवा देवगतिनामगोयाई कम्माइं वेदेंति से तेणट्टेणं जाव भावदेवा । वृ. 'कइविहाण 'मित्यादि, दीव्यन्ति - क्रीडां कुर्वन्ति दीव्यन्ते वा - स्तूयन्ते वाऽऽराध्यतयेति देवाः 'भवियदव्वदेव' त्ति द्रव्यभूता देवा द्रव्यदेवाः, द्रव्यता चाप्राधान्याद्भूतभावित्वाद्भाविभावत्वाद्वा, तत्राप्राधान्याद्देवगुणशून्या देवा द्रव्यदेवा यथा साध्वाभासा द्रव्यसाधवः, भूतभावपक्षे तु भूतस्य देवत्वपर्यायस्य प्रतिपन्नकारणा भावदेवत्वाच्युता द्रव्यदेवाः, भाविभावपक्षे तु भाविनो देवत्वपर्यायस्य योग्या देवतयोत्पस्यमाना द्रव्यदेवाः, तत्र भाविभावपक्षपरिग्रहार्थः माह - भव्याश्च ते द्रव्यदेवाश्चेति भव्यद्रव्यदेवाः । 'नरदेव' त्ति नराणां मध्ये देवा - आराधयाः क्रिडाकान्त्यादियुक्ता वा नराश्च ते देवाश्चेति वा नरदेवाः, 'धम्मदेव 'त्ति धर्मेण - श्रुतादिना देवा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy