SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ शतकं- १२, वर्ग:-, उद्देशकः - ४ ६९ अवसर्पिण्य इत्यादि सुष्ठुक्तमिति । सव्वत्थोवे कम्मगपोग्गले' त्यादि, सर्वस्तोकः कार्म्मणपुद्गलपरिवर्त्तनिर्वर्त्तनाकालः, ते हि सूक्ष्मा बहुतमपरमाणुनिष्पन्नाश्च भवन्ति, ततस्ते सकृदपि बहवो गृह्यन्ते, सर्वेषुच नारकादिपदेषु वर्त्तमानस्य जीवस्य तेऽनुसमयं ग्रहणायान्तीति स्वल्पकालेनापि तत्सकलपुद्गलग्रहणं भवतीति, ततस्तैजसपुद्गलपरिवर्त्तनिर्वर्त्तनाकालः, ते हि सूक्ष्मा बहुतमपरमाणुनिष्पन्नाश्च भवन्ति, ततस्ते सकृदपि बहवो गृह्यन्ते, सर्वेषु च नारकादिपदेषु वर्त्तमानस्य जीवस्य तेऽनुसमयं ग्रहणमायान्तीति स्वल्पकालेनापि तत्सकलपुद्गलग्रहणं भवतीति, ततस्तैजसपुद्गलपरिवर्त्तिनिर्वर्त्तनाकालोऽनन्तगुणो । यतः स्थूलत्वेन तैजसपुद्गलानामल्पानामेकदा ग्रहणम्, एकग्रहणे चाल्पप्रदेशनिष्पन्नत्वेन तेषामल्पानामेव तदणूनां ग्रहणं भवत्यतोऽनन्तगुणोऽसाविति, तत औदारिकपुद्गलपरिवर्त्तनिवर्त्तनाकालोऽनन्तगुणो, यत औदारिकपुगला अतिस्थूराः, स्थूराणां चाल्पानामेवैकदा ग्रहणं भवति अल्पतरप्रदेशाश्च ते ततस्तद्रहणेऽप्येकदाऽल्पा एवाणवो गृह्यन्ते, न च कार्म्मणतैजसपुद्गलवत्तेषां सर्वपदेषु ग्रहणमस्ति, औदारिकशरीरिणामेव तद्रहणाद्, अतो बृहतैव कालेन तेषां ग्रहणमिति, तत आनप्राणपुद्गलपरिवर्त्तनाकालोऽनन्तगुणः, यद्यपि हि औदारिकपुद्गलेभ्य आनप्राणपुद्गलाः सूक्ष्मा व प्रदेशिकाश्चेति तेषामल्पकालेन ग्रहणं संभवति तथाऽप्यपयप्तिकावस्थायां तेषामग्रहणात्पर्याप्तकावस्थायामप्यदारिकशरीरपुद्गलापेक्षया तेषामल्पीयसामेव ग्रहणान्न शीघ्रं तद्रहणमित्यौदारिकपुद्गलपरिवर्त्तनिर्वर्त्तनाकालादनन्तगुणताऽऽनप्राणपुद्गलपरिवर्त्तनिर्वर्त्तनाकालस्येति, ततो मनःपुद्गल परिवर्त्तिनिर्वर्त्तनाकालोऽनन्तगुणः, कथम् ?, यद्यप्यानप्राणपुद्गलेभ्यो मनः पुद्गलाः सूक्ष्मा बहुप्रदेशाश्चेत्यल्पकालेन तेषां ग्रहणं भवति तथाऽप्येकेन्द्रियादिकायस्थितिवशान्मनसश्चिरेण लाभान्मानसपुद्गलपरिवरत्तो बहुकालसाध्य इत्यनन्तगुण उक्तः, ततोऽपि वाक्पुद्गलपरिवर्त्तनिर्वर्त्तनाकालोऽनन्तगुणः, कथम् ?, यद्यपि मनसः सकाशाद्भाषा शीघ्रतरं लभ्यते द्वीन्द्रियाद्यवस्थायां च भवति तथाऽपि मनोद्रव्येभ्यो भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा ग्रहणात्ततोऽनन्तगुणो वाक्पुद्गलपरिवर्त्तनिर्वर्त्तनाकाल इति, ततो वैक्रयपुद्गलपरिवर्त्तनिर्वर्त्तनाकालोऽनन्तगुणो, वैक्रयशरीरस्यातिबहुकाललभ्यत्वादिति । पुद्गलपरिवर्त्तानामेवाल्पबहुत्वं दर्शयन्नाह मू. (५४१) एएसि णं भंते! ओरालियपोग्गलपरियट्टाणं जाव आणापाणुपोग्गलपरियट्टाण य कयरे २ हिंतो जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा वेउव्वियपो० वइपो० परि० अनंत- गुना मणपोग्गलप० अनंत० आणापाणुपोग्गल० अनंतगुणा ओरालियपो० अनंतगुणा तेयापो० अनंत० कम्मगपोग्गल० अनंतगुणा । सेवं भंते! सेवं भंतेत्ति भगवं जाव विहरइ । वृ. 'एएसिणमित्यादि, सर्वस्तोका वैक्रियपुद्गलपरिवर्त्ता बहुतमकालनिर्वर्तनीयत्वात्तेषां, ततोऽनन्तगुणा वागविषया अल्पतरकालनिर्वर्त्तत्वात् एवं पूर्वोक्तयुक्ता बहुबहुतराः क्रमेणान्येऽपि वाच्या इति ॥ Jain Education International शतकं - १२ उद्देशकः-४ समाप्तः For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy