________________
भगवती अङ्गसूत्रं (२) १२/-/४/५४० याणामसम्पूर्णत्वात् मनोवृत्तेश्चाभावाद् अतस्तेष्वपि मनः पुद्गलपरावर्त्ता न सन्ति । 'वइपोग्गलपरियट्टा एवं चेव'त्ति तैजसादिपरिवर्त्तवत्सर्वनारकादिजीवपदेषु वाच्याः, नवरमेकेन्द्रियेषु वचनाभावान्न सन्तीति वाच्याः । 'नेरइयाण' मित्यादिना पृथकत्वदण्डकानाह, 'जाव वेमाणियाण' मित्यादिना पर्यन्तिम- दण्डको दर्शितः ।
अथौदारिकादिपुद्गलपरावर्त्तानां स्वरूपमुपदर्शयितुमाह-
मू. (५४०) से केणट्टेणं भंते ! एवं वुच्चइ - ओरालियपोग्गलपरियट्टा ओ० ?, गोयमा ! जणं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरीरपयोगाइं दव्वाइं ओरालियसरीरत्ताए गहियाई बद्धा पुट्ठाई कडाइं पट्टवियाइं निविट्ठाई अभिनिविट्ठाइं अभिसम्नागयाइं परियाइयाई परिणामियाइं निञ्जिन्नाइं निसिरियाइं निसिट्ठाइं भवंति से तेणट्टेणं गोयमा ! एवं वुचइ ओरालियपोग्गलपरियट्टे ओरा० २, एवं वेउव्वियपोग्गलपरियट्टेवि ।
६८
नवरं वेउव्वियसरीरे वट्टमाणेणं वेउव्वियसरीरप्पयोगाइं सेसं तं चैव सव्वं एवं जाव आणापाणुपोग्गलपरियट्टे, नवरं आणापाणुपयोगाइं सव्वदव्वाइं आणापाणत्ताए सेसं तं चैव । ओरालियपोग्गलपरियट्टेणं भंते ! केवइकालस्स निव्वत्तिज्जइ ?, गोयमा ! अनंताहिं उस्सप्पिणिओसप्पिणीहिं एवतिकालस्स निव्वत्तिज्जइ, एवं वेउव्वियपोग्गलपरियट्टेवि, एवं जाव आणापाणुपोग्गलपरियट्टेवि ।
एयस्स णं भंते ! ओरालियपोग्गलपरियट्टनिव्वत्तणाकालस्स वेउच्चियपोग्गला जाव आणुपाणुपोग्गलपरियट्टनिव्वत्तणाकालस्स कयरे कयरेहिंतो जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवे कम्मगपोग्गलपरियट्टनिव्वत्तणाकाले तेयापोग्गलपरियट्टनिव्वत्तणाकाले अनंतगुणे ओरालियपोग्गल परियट्टे अनंतगुणे आणापाणुपोग्गल० अनंतगुणेमणपोग्गल० अनंतगुणे वइपो० अनंतगुणे वेउव्वियपो० परियट्टनिव्वत्तणाकाले अनंतगुणे ॥
वृ. 'सेकेणट्टेण' मित्यादि, 'गहियाई' ति स्वीकृतानि 'बद्धाई' ति जीवप्रदेशैरात्मीकरणात्, कुतः ? इत्याह- 'पुट्ठाई' ति यतः पूर्वं स्पृष्टानि तनौ रेणुवत् अथवा 'पुष्टानि' पोषितान्यपरापरग्रहणतः 'कडाई' ति पूर्वपरिणामापेक्षया परिणामान्तरेण कृतानि 'पट्ठवियाई' ति प्रस्थापितानि - स्थिरीकृतानि जीवेन ‘निवट्ठाईं’ति यतः स्थापितानि ततो निविष्टानि जीवेन स्वयम् 'अभिनिविट्ठाई' ति अभिअभिविधिना निविष्टानि सर्वाण्यपि जीवे लग्नानीत्यर्थः 'अभिसमन्नागत्याइं 'ति अभिविधिना सर्वाणीत्यर्थः समन्वागतानि - सम्प्राप्तानि जीवेन रसानुभूतिं समाश्रित्य 'परियाइयाई' ति पर्याप्तानि-जीवेन सर्वावयवैरात्तानि तद्रसादानद्वारेण 'परिणामियाई' ति रसानुभूतित एव परिणामान्तरमापादितानि 'निजिण्णाई' ति क्षीणरसीकृतानि 'निसिरियाई' ति जीवप्रदेशेभ्यो निसृतानि, कथं ? – 'निसिट्ठाई' ति जीवेन निसृष्टानि स्वप्रदेशेभ्यस्त्याजितानि, इहाद्यानि चत्वारि पदान्यौदारिकपुद्गलानां ग्रहणविषयाणि तदुत्तराणि तु पञ्च स्थितिविषयाणि तदुत्तराणि तु चत्वारि विगमविषयाणीति ।
अथ पुद्गलपरावर्त्तानां निर्वर्तनकालं तदल्पबहुत्वं च दर्शयन्नाह - 'ओरालिये 'त्यादि, 'केवइकालस्स’त्ति कियता कालेन निर्वर्त्यते ?, 'अनंताहिं उस्सप्पिणिओसप्पिणीहिं' ति एकस्य जीवस्य ग्राहकत्वात् पुद्गलानां चानन्तत्वात् पूर्वगृहीतानां च ग्रहणस्यागण्यमानत्वादनन्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org