________________
शतकं-१२, वर्ग:-, उद्देशकः-२
-भव्यानामेव सिद्धिरित्येतया दृष्टया मतेनेति॥१०॥ "अहवा पडुच्च कालं न सव्वभव्वाण होइवोच्छित्ती।
जंतीतनागयाओ अद्धाओ दोवि तुल्लाओ। ॥११॥ तत्थातीतद्धाए सिद्धो एक्को अनंतभागो सिं।
कामं तावइओ च्चिय सिज्झिहिइ अनागयद्धाए ।। ॥१२॥ ते दो अनंतभागा होउं सोच्चिय अनंतभागो सिं।
. एवंपि सव्वभव्वाण सिद्धिगमणं अनिद्दिलं ॥ तौ द्वावप्यनन्तभागौ मीलितौ सर्वजीवानामनन्त एव भाग इति, यत्पुनरिदमुच्यतेअतीताद्धतोऽनागताद्धाऽनन्तगुणेति तन्मतान्तरं, तस्य चेदंबीजं-यदि द्वेअपितेसमाने स्यातां तदा मुहूर्तादावतिक्रान्तेऽतीताद्धासमधिकाअनागताद्धाच हीनेतिहतंसमत्वम्, एवंचमुहूर्त्तादिभि प्रतिक्षणंक्षीयमाणाऽप्यनागताद्धायतोनक्षीयते ततोऽवसितंततः साऽनन्तगुणेति, यच्चोभयोः समत्वं तदेवं-यथाऽनागताद्धाया अन्तो नास्तिएवमतीताद्धाया आदिरिति समतेति।
जीवाश्च न सुप्ताः किं तर्हि जागराएवेति सुप्तजागरसूत्रम-तत्रच 'सत्तत्तं तिनिद्रावशत्वं 'जागरियत्तं'तिजागरणं जागरः सोऽस्यास्तीतिजागरिकस्तद्भावोजागरिकत्वम् अहम्मिय'त्ति धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिकास्तन्निषेधादधार्मिकाः, कुत एतदेवतमित्यत आह'अहम्माणुया' धर्मं श्रुतरूपमनुगच्छन्तीति धर्मानुगास्तन्निषेधादधर्मानुगाः, कुत एतदेवमित्यत आह- 'अहम्मिट्ठा' धर्मः-श्रुतरूप एवेष्टो-वल्लभः पूजितो येषां तेधर्मेष्टाःधर्मिणां वेष्टाधर्मीष्टाः अतिशयेन वाधर्मिणो धर्मिष्ठास्तन्निषेधादधर्मेष्टाअधर्मीष्टा अधर्मिष्ठाव,अतएव अहम्मकखाई' नधर्ममाख्यान्तीत्येवंशीला अधर्माख्यायिनः अथवानधर्मात्ख्यातिर्येषांतेऽधर्मख्यातय अहम्मपलोइ'ति न धर्ममुपादेयतया प्रलोकयन्ति ये तेऽधर्मप्रलोकिनः 'अहम्मपलज्जण'त्ति न धर्मे प्ररज्यन्ते-आसजन्ति येतेऽधर्मप्ररञ्जनाः। ।
___एवंच अहम्मसमुदाचार'तितिनधर्मरूपः-चारित्रात्मकः समुदाचारः-समाचारः सप्रमोदो वाऽऽचारो येषां ते तथा, अत एव 'अहम्मेण चेवे'त्यादि, 'अधर्मेण' चारित्र श्रुतविरुद्धरूपेण 'वृत्ति' जीविकां 'कल्पयन्तः' कुर्वाणा इति । अनन्तरं सुप्तजाग्रतां साधुत्वं प्ररूपितम्, अथ दुर्बलादीनां तथैव तदेव प्ररूपयन् सूत्रद्वयमाह
. 'बलियत्तं भंते !' इत्यादि, 'बलियत्तंति बलमस्यास्तीति बलिकस्तद्भावो बलिकत्वं 'दुब्बलियत्तंति दुष्टं बलमस्यास्तीति दुर्बलिकस्तद्भावो दुर्बलिकत्वं । दक्षत्वं च तेषां साधु ये नेन्द्रियवशा भवन्तीतीन्द्रियवशानां यद्भवति तदाह-'सोइंदिए'त्यादि, 'सोइंदियवसट्टे'त्ति श्रोत्रेन्द्रियवशेन-तत्पारतन्त्रयेण ऋतः-पीडितःश्रोत्रेन्द्रियवशातः श्रोत्रेन्द्रियवशंवा ऋतो-गतः श्रोवेन्द्रियवशातः।
शतकं-१२ उद्देशकः-२ समाप्त
-शतकं-१२ उद्देशकः-३:वृ.अनन्तरं श्रोत्रादीन्द्रियवशात अष्टकर्मप्रकृतीर्बनतीत्युक्तं, तद्वन्दनाच्च नरकपृथिवीष्वप्युत्पद्यन्त इति नरकपृथिवीस्वरूपप्रतिपादनाय तृतीयोद्देशकमाह, तस्य चेदमादिसूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org