________________
५८
भगवतीअङ्गसूत्रं (२) १२/-/२/५३६ सेत्स्यन्ति ते सर्वेऽपि भवसिद्धिका एव नाभवसिद्धिक एकोऽपि, अन्यथा भवसिद्धिकत्वमेवन स्यादित्यभिप्रायः, 'हंते' त्याधुत्तरम् ।
अथ यदियेकेचन सेत्स्यन्ति सर्वेऽपि भवसिद्धिका एवनाभवसिद्धिकएकोऽपीत्यभ्युपगम्यते तदा कालेन सर्वभवसिद्धिकानां सिद्धिगमनाद् भव्यशून्यता जगतः स्यादितिजयन्त्याशङ्कां तत्परिहारंचदर्शयितुमाह-'जइण'मित्यादि, सव्वागाससेढि'त्तिसर्वाकाशस्य-बुद्धयाचतुरप्रतरीकृतस्य श्रेणि-प्रदेशपङ्किसर्वाकाशश्रेणि 'परित्त'त्ति एकप्रदेशिकत्वेन विष्कम्भाभावेन परिमिता 'परिवुड'त्ति श्रेण्यन्तरैः परिकरिता, स्वरूपमेतत्तस्याः, अत्रार्थे वृद्धोक्ता भावनागाथा भवन्ती॥१॥ “तो भन्नइ किं न सिज्झति अहव किमभव्वसावसेसत्ता।
निल्लेवणं न जुज्झइ तेसिं तो कारणं अन्नं ।।" ___अयमर्थः-यदि भवसिद्धिकाः सेत्स्यन्तीत्यभ्युपगम्यते ततो भणति शिष्यः-कस्मान्न ते सर्वेऽपि सिद्धयन्ति?, अन्यथा भवसिद्धिकत्वस्यैवाभावात्, अथवाऽपरंदूषणं-कस्मादभव्यसावशेषत्वाद्-अभव्यावशेषत्वेनाभव्या विमुच्येत्यर्थः तेषांभव्यानां निर्लेपनंनयुज्यते?,युज्यत एवेतिभावः, यस्मादेवंततःकारणं-सिद्धेहेतुरन्यद्भव्यत्वातिरिक्तं वाच्यं, तत्रसतिसर्वभव्यनिर्लेपनप्रसङ्गादिति। ॥२॥ “भन्नइ तेसिमभव्वेवि पइ अनिल्लेवणं न उ विरोहो ।
नउ सव्वभव्वसिद्धी सिद्धा सिद्धंतसिद्धीओ॥" अयमों-भण्यतेअत्रोत्तरं भव्यत्वमेवसिद्धिगमनकारणंनत्वन्यत्किञ्चित्, तत्र च सत्यपि भव्यत्वे सिद्धिगमनकारणे 'तेषां भव्यानाम् अभव्यानपि प्रति' अभव्यानप्याश्रित्य 'अनिर्लेपनम्' अव्यवच्छेदः, अभव्यानवशिष्य यद्भव्यानां निर्लेपनमुक्तं तदपि नेत्यर्थः 'न तु' न पुनरिहार्थे 'विरोधः' बाधाऽस्ति सिद्धान्तसिद्धत्वात्, एतदेवाह-नतु इत्यादि, न हि सर्वभव्यसिद्धि सिद्धा सिद्धान्तसिद्धेरिति॥ ॥३॥ "किह पुण भव्वबहुत्ता सव्वागासप्पएसदिटुंता।
नवि सिज्झिहिंति तो भणइ किंनु भव्वत्तणं तेसिं । ॥४॥ जइ होऊणं भव्वावि केइ सिद्धिं न चेव गच्छंति।
एवं तेवि अभव्वा को व विसेसो भवे तेसिं॥ ॥५॥ भन्नइ भव्वो जोगो दारुय दलियंति वाविपजाया।
जोगोविपुण न सिज्झइ कोई रुक्खाइदिळंता ।। ॥६॥ पडिमाईणं जोगा बहवो गोसीसचंदणदुभाई।
संति अजोगावि इहं अन्ने एरंडभेंडाई॥ ॥७॥
नय पुण पडिमुप्पायणसंपत्ती होइ सव्वजोगाणं ।
जेसिपिअसंपत्ती न यतेसि अजोग्गया होइ॥ ॥८॥ किं पुणजा संपत्ती सा नियमा होइ जोग्गरुक्खाणं ।
नय होइ अजोग्गाणं एमेव य भव्वसिज्झणया॥ ॥९॥
सिज्झिस्संति य भव्वा सव्वेवित्ति भणियं च जं पहुणा ।
तंपि य एयाएच्चिय दिट्ठीए जयंतिपुच्छाए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org