________________
४४
भगवतीअङ्गसूत्रं (२) ११/-/११/५२१ विवक्षितद्रव्यांशान् ‘चंदसूरदंसणिय'ति चन्द्रसूर्यदर्शनाभिदानुत्सवं जागरिय'ति रात्रिजागरणरूपमुत्सवविशेषं निव्वत्तेअसुइजायकम्मकरणे'त्ति निवृत्ते' अतिक्रन्ते अशुचीनांजातकर्मणां करणमशुचिताजकर्मकरणं तत्र ‘संपत्ते बारसाहदिवसे'त्ति संप्राप्ते द्वादशाख्यदिवसे।
अथवा द्वादशानामां समाहारो द्वादशाहं तस्य दिवसो द्वादशाहदिवसो येन स पूर्यते तत्र, 'कुलाणुरूवं ति कुलोचितं, कस्मादेवम् ? इत्याह-'कुलसरिसंति कुलसशं, तत्कुलस्य बलवत्पुरुषकुलत्वान्महाबल इति नाम्नश्च बलवदर्थाभिधायकत्वात् तत्कुलसय महाबल इति नाम्नश्च सादृश्यमिति 'कुलसंतामतंतुवद्धणकरं ति कुलरूपो यः सन्तानः स एव तन्तुदीर्घत्वात्तवर्द्धनकरंमाङ्गल्यत्वाद्यत्रतत्तथा अयमेयारूवंति इदमेतद्रूपं गोणं तिगौणं तच्चामुख्यमप्युच्यत इत्यत आह-'गुणनिष्फनं'ति, ‘जम्हाणं अम्हं इत्यादि अस्माकमयं दारकः प्रभावतीदेव्यात्मजो यस्माद्वलस्य राज्ञः पुत्रस्तस्मात्पितु मानुसारिनामास्य दारकस्यास्तु महाबल इति।
__ 'जहादढपइन्नेतियथौपपातिके ढप्रतिज्ञोऽधीतस्तथाऽयंवक्तव्यः, तच्चैवं-'मजणधाईए मंडणधाईए कीलावणधाईए अंकधाईए' इत्यादि, 'निवायनिव्वाघायंसी'त्यादि च वाक्यमिहैवं सम्बन्धनीयं 'गिरिकंदरमल्लीणेव्व चंपगपायवे निवायनिव्वाघायंसि सुहंसुहेणं परिवड्डइ'त्ति।
'परंगामणंतिभूमौ सर्पणं पयचंकामणं'तिपादाभ्यांसच्चारणं 'जेमामणं'तिभोजनकारणं "पिंडवद्धणं'ति कवलवृद्धिकारणं पजपावणं तिप्रजल्पकारणं कण्णेहणं'तिप्रतीतं संवच्छरपडिलेहणं'तिवर्षग्रन्थिकरणं चोलोयणं चूडाधरणम् ‘उवणयणं ति कलाग्राहणं 'गब्भाहाणजम्मणमाइयाइंकोउयाइंकरेंति'त्ति गर्भाधानादिषुयानि कौतुकानि-रक्षाविधानादीनि तानि गर्भाधानादीन्येवोच्यन्त इति गर्भाधानजन्मादिकानि कौतुकानीत्येवं समानाधिकरणतया निर्देशः कृतः, ‘एवं जहा दढपइन्नो' इत्यनेन यत्सूचितं तदेवं दृश्यं सोहणंसि तिहिकरणनक्खत्तमुहुत्तंसिण्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं महया इड्डिसक्क रसमुदएणं कलायरियस्स उवणयंती'त्यादीति।।
'अब्भुग्गयमूसियपहसिते इव' अभ्युद्गतोच्छ्रितान्-अत्युच्चान् इह चैवं व्याख्यानं द्वितीयाबहुवचनलोपदर्शनात्, ‘पहसिते इव'त्ति प्रहसितानिव-श्वेतप्रभापटलप्रबलतया हसत इवेत्यर्थः 'वन्नओ जहा रायप्पसेणइज्जे' इत्यनेने यत्सूनेने यत्सूचितं तदिदं–'मणिकणगरयणभत्तिचित्तवाउद्धयविजयवेजयंती पडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघ- माणसिहरे' इत्यादि, एतच्च प्रतीतार्थःमेव, नवरं 'मणिकनकरलानां भक्तिभि-विच्छित्तिभिश्चित्रा ये ते तथा, वातोद्भूता या विजयसूचिका वैजयन्त्यभिधानाःपताकाश्छत्रातिच्छत्राणिचतैः कलिता येते तथा ततः कर्मधारवस्ततस्तान् ‘अणेगखंभसयसंनिविलु'ति अनेकेषु स्तम्भशतेषु संनिविष्टं यदनेकानि वा स्तम्भशतानि संनिविष्टानि यत्र तत्तथा 'वन्नओ जहा रायप्पसेणइज्जे पेच्छाधरमंडवंसि'तति यथा राजप्रश्नकृते प्रेक्षागृहमण्डपविषयो वर्णक उक्तस्तथाऽस्य वाच्य इत्यर्थः । स च 'लीलठ्ठियसालिभंजियाग'मित्यादिरिति ।
मू. (५२२) तएणतंमहब्बलं कुमारं अम्मापियरोअन्नया कयावि सोभनंसि तिहिकरणदिवसनक्खत्तमुहुत्तंसि हायं कयबलिकम्मं कयकोउयमंगलपाय० सव्वालंकारविभूसियं पमक्खणगण्हाणगीयवाइयपसाहणटुंगतिलगकंकणअविहववहुउवणीयं मंगलसुजंपिएहि य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org