SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं (२) २८/-/१/९९२ अनागारोवउत्तावि, एवं जाव वेमाणियाणं, एवं नाणावरणिज्ज्रेणवि दंडओ, एवं जाव अंतराइएणं, एवं एए जीवादीया वेमाणियपज्जवसामा नव दंडगा भवंति । सेवंभंते! २ जाव विहरइ । वृ. 'जीवा णं भंते!' इत्यादि, 'कहिं स मजिर्णेसु' त्ति कस्यां गतौ वर्त्तमानाः 'समर्जित वन्तः' ? गृहीतवन्तः 'कहिं समायरिंसु ' त्ति कस्यां समाचरितवन्तः ? पापकम्हितुसमाचरणेन, तद्विपाकानुभवनेनेति वृद्धाः, अथवा पर्यायशब्दावेताविति, 'सव्वेवि ताव तिरिक्खजोणिएसु होज 'ति । इह तिर्यग्योनि सर्वजीवीनां मातृस्थानीया बहुत्वात् ततश्च सर्वेऽपि तिर्यग्भ्योऽन्ये नारकादयस्तिर्यग्भ्य आगत्योत्पन्नाः कदाचिद् भवेयुस्ततस्ये सर्वेऽपि तिर्यग्योनिकेष्वभूवन्निति व्यपदिश्यन्ते, अयमभिप्रायः - ये विवक्षितसमये नारकादयोऽभूवंस्तेऽल्पत्वेन समस्तः अपि सिद्धिगमनेन तिर्यग्गतिप्रवेशेन च निर्लेपतयोवृत्तास्ततश्च तिर्यग्गतेरनन्तत्वेनानिर्लेपनीयत्वात्तत उद्वृत्तास्तिर्यस्तत्स्थानेषु नारकादित्वेनोत्पन्नास्ततस्ते तिर्यग्गतौ नरकगत्यादिहेतुभूतं पापं कर्म्म समर्जितवन्त इत्युच्यत इत्येकः । अहवा तिरिक्खजोणिएसु नेरइएस होज त्ति विवक्षितसमये ये मनुष्यदेवा अभूवंस्ते निर्लेपतया तथैवोद्वृत्ताः तत्स्थानेषु च तिर्यग्नारकेभ्य आगत्योत्पन्नाः, ते चैवं व्यपदिश्यन्तेतिर्यगनैरयिकेष्वभूवन्नेते, ये च यत्राभूवंस्ते तत्रैव कर्ममोपार्जितवन्त इत्यर्थो लभ्यत इति द्वितीयः ४६२ 'अहवा तिक्खजोणिएसु य मणुएसु य होज 'त्ति विवक्षितसमये ये नैरयिकदेवास्ते तथैव निर्लेपतयोवृत्ताः तत्स्थानेषु च तिर्यग्मनुष्येभ्य आगत्योत्पन्नाः, ते चैवं व्यपदिश्यन्तेतिर्यग्मनुष्येभूवन्नेते, । ये च यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त इति सामर्थ्यगम्यमिति तृतीयः, तदेवमनया भावनयाऽष्टावेते भङ्गाः, तत्रैकस्तिर्यग्गत्यैव, अन्ये तु तिर्यग्नैरयिकाभ्यां तिर्यग्मनुष्याभ्यां तिर्यग्देवाभ्यामिति त्रयो द्विकंयोगाः, तथा तिर्यग्नैरयिकमनुष्यैस्तिर्यग्नैरयिकदेवैस्तिर्यग्मनुष्यदेवैरिति त्रयस्त्रिकसंयोगा एकश्चतुष्कसंयोग इति । 'एवं सव्वत्थ' त्ति सलेश्यादिपदेषु 'नव दंडगा भवंति ' त्ति पापकर्मादिभेदेन पूर्वोक्तेनेति । शतकं - २८ उद्देशकः-१ समाप्तः -: शतकं - २८ उद्देशकः-२ : मू. (९९३) अनंतरोववन्नगा णं भंते! नेरइया पावं कम्मं कहिं समज्जिर्णिसु कहिं समायारिंसु ?, गोयमा ! सव्वेवि ताव तिरिक्खजोणिएसु होजा, एवं एत्थवि अट्ठ भंगा । एवं अनंतरोववन्नगाणं नेरइयाईणं जस्स जं अत्थि लेसादीयं अनागारोवओगपज्जवसाणं तं सव्वं एयाए भयणाए भाणियव्वं जाव वेमाणियाणं, नवरं अनंतरेसु जे परिहरियव्वा ते जहा बंधिसए तहा इहंपि, एवं नाणावरणिज्जेणविदंडओ एवं जाव अंतराइएणं निरवसेसं एसोवि नवदंडगसंगहिओ उद्देसओ भाणियव्वो । सेवं भंते ! २ त्ति । -: शतकं - २८ उद्देशकाः-३-११: मू. (९९४) एवं एएणं कमेणं जहेव बंधिसए उद्देसगाणं परिवाडी तहेव इहंपि अट्ठसु भंगेसु नेयव्वा नवरं जाणियव्वं जं जस्स अत्थि तं तस्स भाणियव्वं जाव अचरिमुद्देसो । सव्वेवि एए एक्रस उद्देसगा । सेवं भंते ! २ इति जाव विहरइ ॥ वृ. 'अनंतरोववन्नगाण’मित्यादिर्द्वितीयस्तत्र च 'अनंतरेसु जे परिहरियव्वा ते जहा बंधिसए For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy