SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ शतकं -२४, वर्गः-, उद्देशकः - २४ ३६५ करेज्जा, एते तिन्नि गमगा सव्वट्ठसिद्धगदेवाणं । सेवं भंते! २ त्ति भगवं गोयमे जाव विहरइ । वृ. ‘जहन्नेणं पलिओवमट्ठिइएसु' त्ति सौधर्मे जघन्येनान्यस्यायुषोऽसत्वात्, 'उक्कोसेणं तिपलिओवमठिइएसु'त्तयद्यपि सौधर्मे बहुतरमायुष्कमस्ति तथाऽप्युत्कर्षतपिल्योपमायुष एव तिर्यञ्चो भवन्ति तदनतिरिक्तं च देवायुर्बन्धन्तीति, 'दो पलि ओवमाई' ति एवं तिर्यग्भवसत्कमपरं च देवभवसत्कं, 'छ पलिओवमाइं' ति त्रीणि पल्योपमानि तिर्यग्भवसत्कानि त्रीण्येव देवभवसत्कानीति । 'सो चेव अप्पणा जहन्नकालठिईओ जाओ' इत्यादिगमत्रयेऽप्येको गमः, भावना तु प्रदर्शितैव, 'जहन्त्रेणं घणुहपुहुत्तं' ति क्षुद्रकायचतुष्पदापेक्षं 'उक्कोसेणं दो गाउयाई' ति यत्र क्षेत्रे काले वा गव्यतमाना मनुष्या भवन्ति तत्सम्बन्धिनो हस्त्यादीनपेक्ष्योक्तमिति। सङ्ख्यातायुःपञ्चेन्द्रियतिर्यगधिकारे - 'जाहे व अप्पणा जहन्नकालट्ठिइओ भवई' त्यादौ 'नो सम्मामिच्छादिट्ठी' त्ति मिश्रष्टिर्निषेध्यो जघन्यस्थितिकस्य तदसम्भवादजघन्यस्थितिकेषु दृष्टित्रयस्यापि भावादिति, तथा ज्ञानादिद्वारेऽपि द्वे ज्ञाने वा अज्ञाने वा स्यातां, जघन्यस्थितेरन्ययोरभावादिति । अथ मनुष्याधिकारे - 'नवरं आदिल्लएसु दोसु गमएसु' इत्यादि, आद्यगमयोर्हि सर्वत्र धनुष्पृथक्त्वं जघन्यावगाहना उत्कृष्टा तु गव्यूतषट्कमुक्ता इह तु 'जहन्नेणं गाउय 'मित्यादि, तृतीयगमे तु जघन्यत उत्कर्षतश्च षड् गव्यतान्युक्तानि इह तु त्रीणि, चतुर्थे गमे तु प्राग् जघन्यतो धनुष्पृथक्त्वमुत्कर्षतस्तु द्वे गव्यूते उक्ते इह तु जघन्यत उत्कर्षतश्च गव्यूतम्, एवमन्यदप्यूह्यम् । ईशानकदेवाधिकारे - 'सातिरेगं पलिओवमं कायव्वं 'ति ईशाने सातिरेकपल्योपमस्य जघन्यस्थितिकत्वात्, तथा 'चउत्थगमए ओगाहणा जहन्त्रेणं घनुहपुहुत्तं 'ति ये सातिरेकलपल्योपमायुषस्तिर्यञ्चः सुषमांशोद्भवाः क्षुद्रतरकायास्तानपेक्ष्योक्तम्, 'उक्कोसेणं साइरेगाई दो गाउयाई'ति एतच्च यत्र काले सातिरेकगव्यूतमाना मनुष्या भवन्ति तत्कालभवान् हस्त्यादीनपेक्ष्योक्तं, तथा 'जेसु ठाणेसु गाउयं' ति सौधर्म्मदेवाधिकारे येषु स्थानेष्वसङ्ख्यातवर्षायुर्मनुष्याणं गव्यतमुक्तं 'तेसु ठाणेसु इहं साइरेगं गाउयंति जघन्यतः सातिरेकपल्पोपमस्थितिकत्वादीशानकदेवस्य प्राप्तव्यदेवस्थित्यनुसारेण चासङ्ख्यावर्षायुर्मनुष्याणां स्थितिसद्भावात् तदनुसारेणैव च तेषामवगाहना भावादिति । सनत्कुमार देवाधिकारे - 'जाहे य अप्पण जहन्ने' त्यादौ 'पंचलेस्सामो आदिल्लाओ कायव्वाओ' त्ति जघन्यस्थितिकस्तिर्यक् सनत्कुमारे समुत्पित्सुर्जघन्यस्थिति सामर्थ्यात्कृष्णादीनां चतसृणां लेश्यानामन्यतरस्यां परिणतो भूत्वा मरणकाले पद्मलेश्यामासाद्य म्रियते ततस्तत्रोत्पद्यते, यतोऽग्रेतनभवलेश्यापरिणामे सति जीवः परभवं गच्छतीत्यागमः, तदेवमस्य पञ्च लेश्या भवन्ति 'लंतगाईणं जहन्ने' त्यादि, एतद्भावना चानन्तरोक्तन्यायेन कार्या, 'संघयणाई बंभलोए लंतएसु पंच आइल्लगाणि'त्ति छेदवर्त्तिसंहननस्य चतुर्णामेव देवलोकानां गमने निबन्धनत्वात्, यदाह 119 11 Jain Education International "छेवट्टेण उ गम्मइ चत्तारि उ जाव आइमा कप्पा । वड्डेज कप्पजुयलं संघयणे कीलियाईए ॥” इति For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy