________________
भगवतीअङ्गसूत्रं (२) २४/-/२४/८६०
“जहन्नेणं तिन्नि भवग्गहणाइंति आनतादिदेवो मनुष्येभ्य एवोत्पद्यते तेष्वेव च प्रत्यागच्छतीति जघन्यतो भवत्रयं भवतीति, एवं भवसप्तकमप्युत्कर्षतो भावनीयमिति, 'उक्कोसेणं सत्तावन्न'- मित्यादि, आनतदेवानामुत्कर्षत एकोनविंशतिसागरोपमाण्यायुः, तस्य च भवत्रयभावेन सप्तपञ्चाशत्सागरोपमाणि मनुष्यभवचतुष्टयसम्बन्धिपूर्वकोटिचतुष्काभ्यधिकानि भवन्तीति । शतकं - २४ उद्देशकः - २४ समाप्तः
३६६
चरमजिनवरेन्द्रप्रोदितार्थे परार्थं, निपुणगणधरेण स्थापितानिन्द्यसूत्रे । विवृतिमिह शते नो कर्त्तुमिष्टे बुधोऽपि प्रचुरगमगभीरे किं पुनर्मा६शोऽज्ञः ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे चतुर्विंशतीतमशतकसय अभयदेवसूरि विरचिता टीका परिसमाप्ता । शतकं - २४ - समाप्तम्
(शतकं - २५
वृ. व्याख्यातं चतुर्विंशतितमशतम्, अथ पञ्चविंशतितममारभ्यते, तस्य चैवमभिसम्बन्धःप्राक्तनशते जीवा उत्पादादिद्वारैश्चिन्तिता इह तु तेषामेव लेश्यादयो भावाश्चिन्त्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसङ्ग्रहगाथेयम्
मू. (८६१) लेसा य १ दव्वं २ संठाण ३ जुम्म ४ पज्जव ५ नियंठ ६ समणा य ७ । ओहे ८ भविया ९ भविए १० सम्मा ११ मिच्छे य १२ उद्देसा ॥
वृ. 'लेसे' त्यादि, तत्र 'लेसा य'त्ति प्रथमोद्देशके लेश्यादयोऽर्था वाच्या इति लेश्योद्देशक एवायमुच्यते इत्येवं सर्वत्र १ 'दव्व' त्ति द्वितीये द्रव्याणि वाच्यानि २ 'संठाण' त्ति तृतीये संस्थानादयोऽर्थाः ३ ।
'जुम्म'त्ति चतुर्थे कुतयुग्मादयोऽर्थाः पज्जव त्ति पञ्चमेपर्यकवाः - ५ 'नियंठ' त्ति षष्ठे पुलकादिका निर्ग्रन्थाः ६ 'समणाय' ति सप्तमे सामायिकादि संयतादयोऽर्थाः ७ ।
'ओहे' त्ति अष्टमे नारकादयो यथोत्पद्यन्ते तथा वाच्यं, कथम् ?, ओघे - सामान्ये वर्त्तमाना भव्याभव्यादिविशेषणैरविशेषिता इत्यर्थः ८ 'भविए 'त्ति नवमे भव्यविशेषणा नारकादयो यथोत्पद्यन्त् तथा वाच्यम् ९ 'अभविए'त्ति दशमेऽभव्यत्वे वर्त्तमाना अभव्यविशेषणा इत्यर्थः १० ।
'सम्म' त्ति एकादशे सम्यग्वष्टिविशेषणाः ११ 'मिच्छे य'त्ति द्वादशे मिथ्यात्वे वर्त्तमाना मिथ्याष्टिविशेषणा इत्यर्थः १२ 'उद्देस' त्ति एवमिह शते द्वादशोद्देशका भवन्तीति । -: शतकं-२५–उद्देशकः-१ :
मू. (८६२) तेणं कालेणं २ रायगिहे जाव एवं वयासी-कति णं भंते! लेस्साओ प० ?, गोयमा ! छल्लेसाओ प० तं० - कण्हलेसा जहा पढमसए बितिए उद्देसए तहेव लेस्साविभागो अप्पाबहुगं च जाब चउव्विहाणं देवाणं मीसगं अप्पबहुगंति ॥
बृ. तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्- 'तेणं कालेण 'मित्यादि, 'जहा पढमसए बितिए उद्देसए तहेव लेसाविभागो 'त्ति सच - 'नेरइयाणं भंते! कति लेस्साओ पन्नत्ताओ इत्यादि, 'अपाबहुयं च 'त्ति तच्चैवम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org