SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ शतकं - २४, वर्गः, उद्देशकः - २१ ३५९ , स्थितिमाश्रित्य मासपृथकत्वैः संवेधः कार्य इति भावः तथाहि - 'कालादेसेणं जहन्त्रेणं दस वाससहस्साइं मासपुहुत्तमब्भहियाई' इत्यादि । शर्कराप्रभादिवक्तव्यता तु पञ्चेन्द्रियतिर्यगुद्देशकानुसारेणावसेयेति । अथ तिर्यग्भ्यो मनुष्यमुत्पादयन्नाह - 'जइतिरिक्खे' त्यादि, इह पृथिवीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरिश्चो या वक्तव्यतोक्ता सैव तत उत्पद्यमानस्य मनुष्यस्यापि एतदेवाह - 'एवं जच्चेवे' त्यादि, विशेषं पुनराह - 'नवरं तईए' इत्यादि तत्र तृतीये औधिकेभ्यः पृथिवीकायिकेभ्य उत्कृष्टस्थितिषु मनुष्येषु ये उत्पद्यन्ते ते उत्कृष्टतः सङ्ख्याता एव भवन्ति, यद्यपि मनुष्याः संमुर्च्छिमसङ्ग्रहादयसङ्ख्याता भवन्ति तथाऽप्युत्कृष्टस्थितयः पूर्वकोट्यायुषः सङ्ख्याता एव पञ्चेन्द्रियतिर्यञ्चस्त्वसङ्ख्याता अपि भवन्तीति, एवं षष्ठे नवमे चेति । ‘जाहे अप्पणे’त्यादि, अयमर्थः--मध्यमगमानां प्रथमगमे औघिकेषूत्पद्यमानतायामित्यर्थः अध्यवसानानि प्रशस्तानि उत्कृष्टस्थितिकत्वेनोत्पत्तौ अप्रशस्तानि च जघन्यस्थितिकत्वेनोत्पत्तौ, ‘बीयगमए’त्ति जघन्यस्थितिकस्य जघन्यस्थितिषूत्पत्तावप्रशस्तानि, प्रशस्ताध्यवसानेभ्यो जघन्यस्थितिकत्वेनानुत्पत्तेरिति, एवं तृतीयोऽपि वाच्यः । अप्कायादिभ्यश्च तदुत्पादमतिदेशेनाह - ' एवं आउकाइयाणवी 'त्यादि । देवाधिकारे-‘एवं जाव ईसाणो देवो' त्ति यथाऽसुरकुमारा मनुष्येषु पञ्चेन्द्रियतिर्यग्योनिकोद्देशकवक्तव्यताऽतिदेशोनोत्पादिता एवं नागकुमारादय ईशानान्ता उत्पादनीयाः, समानवक्तव्यत्वात्, यथा च तत्र जघन्यस्थितेः परिमाणस्य च नानात्वमुक्तं तथैतेष्वप्यत एवाह - ' एयाणि चैव नाणत्ताणि' त्ति सनत्कुमारादीनां तु वक्तव्यतायां विशेषोऽस्तीति तान् भेदेन दर्शयि - 'सणंकुमारे' त्यादि, 'एसा उक्कोसा ठिई भणियव्व' त्तयदा औधिकेभ्य उत्कृष्टस्थितिकेभ्यश्च देवेभ्य औधिकादिमनुष्येषूत्पद्यते तदोत्कष्टा स्थितिर्भवि सा चोत्कृष्टसंवेधविवक्षायां चतुर्भिर्मनुष्य भवैः क्रमेणान्तरिता क्रियते, ततश्च सनत्कुमारदेवानामष्टाविंशत्यादिसागरोपममाना भवति सप्तादिसागरोपमप्रमाणत्वात्तस्या इति, यदा पुनर्जघन्यस्थितिकदेवेभ्य औधिकादिमनुष्येषूत्पद्यते तदा जघन्यस्थितिर्भवति, सा च तथैव चतुर्गुणिता सनत्कुमारादिसागरोपममाना भवति द्वयादिसागरोपममानत्वात्तस्या इति । 'आणयदेवे ण' मित्यादि, 'उक्कोसेणं छब्भवग्गहणाइं'ति त्रीणि दैविकानि त्रीण्येव क्रमेण मनुष्यसत्कानीत्येवं षट्, 'कालादेसेणं जहन्त्रेणं अट्ठारस सागरोवमाई' ति आनतदेवलोके जघन्यस्थितेरेवंभूतत्वात्, ‘उक्कोसेणं सत्तावन्नं सागरोवमाई' ति आनते उत्कृष्टस्थितेरेकोनविंशति-सागरोपमप्रमाणाया भवत्रयगुणनेन सप्तपञ्चाशत्सागरोपमाणि भवन्तीति । ग्रैवेयकाधिकारे 'एगे भवधारणिज्जे सरीरे'त्ति कल्पातीतदेवानामुत्तरवैक्रियं नास्तीत्यर्थः, 'नो चेव णं वेउव्विए' त्यादि, ग्रैवेयकदेवानामाद्याः पञ्च समुद्घाता- लब्ध्यपेक्षया संभवन्ति, केवलं वैक्रियतैजसाभ्यां न ते समुद्धातं कृतवन्त- कुर्वन्ति करिष्यन्तिवा, प्रयोजनाभावादित्यर्थः 'जहन्नेणं बावीसं सागरोवमाइं' ति प्रथमग्रैवेयके जघन्येन द्वाविंशतिस्तेषां भवति 'उक्कोसेणं एक्कतीसं'ति नवमग्रैवेयके उत्कर्षत एकत्रिंशत्तानीति, 'उक्कोसेणं तेनउई सागरोवमाई तिहिं पुव्यकोडीहिं अब्महियाई' ति इहोत्कर्षतः षड् भवग्रहणानि ततश्च त्रिषु देवभवग्रहणेषूत्कृष्टस्थितिषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy