SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ शतकं - २४, वर्ग:-, उद्देशकः - २० ३५५ 'उक्कोसेणं तिन्नि पलिओ माई पुव्यकोडीपुहुत्तमब्महियाई' ति, अस्य च भावना प्रागिवेति, 'लद्वी से जहा एयस्स चेवे' त्यादि, एतच्चैतत्सूत्रानुसारेणावगन्तव्यं 'संवेहो जहेवे' त्यादि 'एत्थ चेव'त्ति अत्रैव पञ्चेन्द्रियतिर्यगुद्देशके, स चैवं-भवादेशेन जघन्यतो द्वौ भवौ उत्कृष्टतस्त्वष्ट भवाः, कालादेशेन जघन्येन द्वे अन्तर्मुहूर्ते उत्कर्षतश्चतः पूर्वकोट्योऽन्तर्मुहूर्त्तचतुष्काधिकाः, एष जघन्यस्थितिक औघिकेष्वित्यत्र संवेधः, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र चान्तर्मुहूतैः संवेधः, जघन्यस्थितिक उत्कृष्टस्थितिकेष्वित्यत्र पुनरन्तमुहूतैः पूर्वकोटीभिश्चसंवेध इति, नवमगमे 'नवरं परिमाणमित्यादि, तत्र परिमाणुत्कर्षतः सङ्ख्याता उत्पद्यन्ते, अवगाहना चोत्कर्षतो योजनसहस्रमिति । अथ मनुष्येभ्यस्तमुत्पादयन्नाह - 'जइ मणुस्सेहिंतो' इत्यादि, 'लद्धीसे तिसुवि गमएसु' त्ति लब्धिः- परिमाणादिका 'से' तस्यासंज्ञिमनुष्यस्य त्रिष्वपि गमेष्वाद्येषु यतो नवानां गमानां मध्ये आद्या एवेह त्रयो गमाः संभवन्ति, जघन्योऽप्युत्कर्षतोऽपि चान्तर्मुहूर्त्तस्थितिकत्वेनैकस्थितिकत्वात्तस्येति, 'एत्थ चेव'त्ति अत्रैव पञ्चेन्द्रियतिर्यगुद्देशकेऽसंज्ञि पञ्चेन्द्रियतिर्यग्भ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे, 'नो असंखेज्जवासाउएहिंतो' त्ति असङ्ख्यातवर्षायुषो मनुष्या देवेष्वेवोत्पद्यन्ते न तिर्यविति । . 'लद्धी से' इत्यादि, लब्धिः - परिमाणादिप्राप्ति 'से' तस्य संज्ञिमनुष्यस्य यथैतस्यैवसंज्ञिमनुष्यस्य पृथिवीकायिकेषूत्पद्यमनास्य प्रथमगमेऽभिहिता, सा चैवं परिमाणतो जघन्येनैको द्वौ वा उत्कर्षेण तु सङ्ख्याता एवोत्पद्यन्ते स्वभावतोऽपि सङ्ख्यातत्वात् संज्ञिमनुष्याणां, तथा षड्विधसंहनिन उत्कर्षतः पञ्चधनुः शतावगाहनाः षड्विधसंस्थानिनः षडलेश्यास्त्रिविधदृष्टयो भजनया चतुर्ज्ञानास्त्र्यज्ञानाश्च त्रियोगा द्विविधोपयोगाश्चतुः संज्ञा श्चतुष्कषायाः पञ्चेन्द्रियाः षटसमुद्घाताः सातासातवेदनास्त्रिविधवेदा जघन्येनान्तर्मुहूर्त्तस्थितय उत्कर्षेण तु पूर्वकोट्यायुषः प्रशस्तेतराध्य - वसानाः स्थितिसमानानुबन्धाः, कायसंवेधस्तु भवादेशेन जघन्यतो द्वौ भवौ उत्कर्षतोऽष्टौ भवाः कालादेशेन तु लिखित एवास्ते १ । द्वितीयगमे 'सच्चेव वत्तब्वय'त्ति प्रथमगमोक्ता संवेधः कालादेशेन तु जघन्यतो द्वे अन्तर्मुहूर्ते उत्कर्षतश्चतस्रः पूर्वकोट्यश्चतुरन्तर्मुहूर्त्ताधिकाः, तृतीयेऽप्येवं- 'नवरं ओगाहणा जहन्त्रेणं अंगुल - पुहुत्तं त्ति, अनेनेदमवसितम् - अङ्गुलपृथकत्वाद्धीनतरशरीरो मनुष्यो नोत्कृष्टायुष्केषु तिर्यक्षूत्पद्यते, तथा 'मासपुहुत्तं' ति अनेनापि मासपृथक्तवाद्धीनतरायुष्को मनुष्यो नोत्कृष्टस्थितिषु तिर्यक्षूत्पद्यत इत्युक्तं, ‘जहा सन्नपिंचिदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणिर, उववज्ज्रमाणस्से त्यादि, सर्वथेह समतापरिहारार्थमाह 'नवरं परिमाण' मित्यादि तत्र परिमाणद्वारे उत्कर्षतोऽसङ्घयेयास्ते उत्पद्यन्ते इत्युक्तं इह तु संज्ञि मनुष्याणां सङ्घयेयत्वेन सङ्घयेया उत्पद्यन्त इति वाच्यं, संहननादिद्वाराणि तु यथा तत्रोक्तानि तथेहागन्तव्यानि तानि चैवं तेषां षट् संहननानि जघन्योत्कर्षाभ्यामगुलासङ्घयेयभागमात्राऽवगाहना षट् संस्थानानि तिम्रो लेश्या मिथ्या दृष्टि द्वे अज्ञाने कायरूपो योगो द्वौ उपयोगौ चतस्रः सज्ञाश्चत्वारः कषायाः पञ्चेन्द्रियाणि त्रयः समुद्घाता द्वे वेदने त्रयो वेदा जघन्योत्कर्षाभ्यामन्तर्मुहूर्तप्रमाणमायुरप्रशस्तान्यध्यवसायस्थानानि आयुः समानोऽनुबन्धः, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy