________________
३५४
भगवतीअङ्गसूत्रं (२) २४/-/२०/८५६ यदिचोत्कृष्टस्थितिस्त्ररस्त्रित्सागरोपमायुनारको भूत्वापूर्वकोट्यायुः पञ्चेन्द्रियतिर्यसूत्पद्यते तदा वारद्वयमेवैवमुत्ति स्यात् ततश्च षटषष्टि सागरोपमाणि पूर्वकोटीद्वयं च स्यात् तृतीया तिर्यग्भवसम्बन्धिपूर्वकोटी न लभ्यत इति नोत्कृष्टता भवानां कालस्य च स्यादिति।
उत्पादितोनारकेभ्यःपञ्चेन्द्रियतिर्यग्योनिकः, अथतिर्यग्योनिकेभ्यस्तमुत्पादयन्नाह-'जइ तिरिक्खे' त्यादि, 'जच्चेव अप्पणो सट्ठाणे वत्तव्वय'त्तियैवात्मनः-पृथिवीकायिकस्य स्वस्थानेपृथिवीकायिकलक्षणे उत्पाद्यमानस्य वक्तव्यताभणिता सैवात्रापिवाच्या, केवलंतत्रपरिमाणद्वारे प्रतिसमयसङ्घयेया उत्पद्यन्त इत्युक्तं इह त्वेकादिरिति, एतदेवाह-'नवर'मित्यादि ।
तथापृथिवीकायिकेभ्यः पृथिवीकायिकस्योत्पद्यमानस्य संवेधद्वारे प्रथमद्वितीयचतुर्थपचमगमेषूत्कर्षतोऽसङ्ख्यातानि भवग्रहणान्युक्तानि शेषेषु त्वष्टौ भवग्रहणानि इह पुनरष्टावेव नवस्वपीति।
. तथा 'कालादेसेणंउभयओठिईए करेज्जत्तिकालादेशेन संवैधंपृथिवीकायिकस्यससंज्ञिपञ्चेन्द्रियतिरिश्चश्च स्थित्या कुर्यात्, तथाहि-प्रथमेगमे 'कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताईति पृथिवीसत्कं पञ्चेन्द्रियसत्कं चेति, उत्कर्षतोऽष्टाशीतिवर्षसहस्राणि पृथिवीसत्कानि चतनश्च पूर्वकोट्यः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषगमेष्वप्यूह्यः. संवेध इति, 'सव्वत्थ अप्पणो लद्धी भाणियव्वत्तिसर्वत्राकायिकादिभ्यश्चतुरिन्द्रियान्तेभ्यउद्ल्तानां पञ्चेन्द्रियतिर्यसूत्पादे 'अप्पणो'त्ति अप्कायादेः सत्का लब्धिः परिमाणादिका भणितव्या, सा च प्राक्तन सूत्रेभ्योऽवगन्तव्या, अथानन्नरोक्तमेवार्थंस्कुटतरमाह 'जहेव पुढविकाइएसु उववज्जमाणाणं मित्यादि, यथा पृथिवीकायिकेभ्यः पञ्चेन्द्रियतिर्यसूत्पद्यमानानांजीवानांलब्धिरुक्तातथैवाप्कायादिभ्यश्चतुरिन्द्रयान्तेभ्य उत्पद्यमानानांसा वाच्येति। . .
असंज्ञिभ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे-'उक्कोसेणं पलिओवमस्स असंखेज्जइभागठिईए'त्ति, अनेनासंज्ञिपञ्चेन्द्रियाणाममसङ्ख्यातवर्षायुष्केषु पञ्चेन्द्रियतिर्यसूत्पत्तिरुक्ता, 'अवसेसंजहेवे'त्यादि, अवशेषं-परिमाणादिद्वारजातंयथा पृथिवीकायिकेषूत्पद्यमानस्यासंज्ञिनः पृथिवीकायिकोद्देशकेऽभिहितं तथैवासंज्ञिनः पञ्चेन्द्रियतिर्यसूत्पद्यमानस्य वाच्यमिति ।
___ 'उक्कोसेणंपलिओवमस्सअसंखेजइभागंपुवकोडिपुहुत्तमब्भहियंति, कथम्?,असंज्ञीपूर्वकोट्यायुष्कः पूर्वकोट्यायुष्केष्वेवपञ्चेन्द्रियतिर्यसूत्पन्न इत्येवंसप्तसुभवग्रहणेषु सप्त पूर्वकोट्यः अष्टमभवग्रहणे तु मिथुनकतिर्यक्षु पल्योपमासङ्ग्येयभागप्रमाणायुष्केषूत्पन्न इति ।
तृतीयगमे उक्कोसेणंसंखेज्जा उववज्जंति'त्तिअसङ्ख्यातवर्षायुषांपञ्चेन्द्रियतिरश्चामसङ्ख्यातानामभावादिति, चतुर्थगमे 'उक्कोसेणंपुव्वकोडिआउएसु उववज्जेज'त्तिजघन्यायुरसंज्ञी सङ्घयातायुष्केष्वेव पञ्चेन्द्रियतिरियसूत्पद्यत इतिकृत्वा पूर्वकोट्यायुष्केष्वित्युक्तम्, 'अवसेसं जहा एयस्से'त्यादि, इहावशेषं-परिमाणादि एतस्य-असंज्ञितिर्यपञ्चेन्द्रियस्य, 'मज्झिमेसु'त्ति जघन्यस्थितिकगमेषु “एवं जहा रयणप्पभाए पुढीवीए' इत्यादि तच्च संहननोच्चत्वादि अनुबन्धसंवेधान्तं, 'नवरंपरिमाण मित्यादि,तच्चेदम्-'उक्कोसेणंअसंखेज्जाउववजंति'त्ति अवशेषंपरिमाणादियथैतस्यैव-संज्ञिपञ्चेन्द्रियतिरश्चइत्यर्थः, केवलं तत्रावगाहना सप्तधनुरित्यादिकोक्ता इह तूत्कर्षतो योजनसहनमाना, सा चमत्स्यादीनाश्रित्यावसेयेति, एतदेवाह-'नवर'मित्यादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org