________________
३३३
शतकं-२४, वर्गः-, उद्देशकः-२ इह पल्योपमासङ्घयेयभागग्रहणेन पूर्वकोटी ग्राह्या,यतः संमूर्छिमस्योत्कर्ष पूर्वकोटीप्रमाणमायुर्भवति, सचोत्कर्षतः स्वायुष्कतुल्यमेवदेवायुर्वघ्नाति नातिरिक्तं, अतएवोक्तंचूर्णिकारेण"उक्कोसेणंसतुल्लपुव्वकोडीआउयत्तं निव्वत्तेइ, न य संमुच्छिमो पुव्वकोडीआयत्ताओ परोअस्थि त्ति।असङ्ख्यातवर्षायुःसज्ञिपञ्चेन्द्रियतिर्यग्गमेषु उक्कोसेणंतिपलिओवमट्टिइएसुउववजेज्जत्ति, इदं देवकुर्वादिमिथुनकतिरश्चोऽधिकृत्योक्तं, ते हि त्रिपल्योपमायुष्कत्वेनासङ्ख्यात- वर्षायुषो भवन्ति, ते च स्वायुःसदृशं देवायुर्वजन्तीति।
संखेना उववजंति'त्ति असङ्ख्यातवर्षायुस्तिरश्चामसङ्ख्यातानां कदाचिदप्यभावात्, 'वयरोसहनारायसंघयणी'ति असङ्ख्यातवर्षायुषांयतस्तदेव भवतीति, 'जहन्नेणंघनुहपुहुत्तंति इदंपक्षिणोऽधिकृत्योक्तं, पक्षिणामुत्कृष्टतो धनुःपृथकत्वप्रमाणशरीरत्वात्, आह च–“घणुयपुहुत्तं पक्खिसुत्तिअसङ्ख्यातवर्षायुषोऽपिते स्युर्यदाह- पलियअसंखेजपक्खीसुत्तिपल्योपमासङ्खयेयभागः पक्षिणामायुरिति, 'उक्कोसेणंछ गाउयाईति ।
इदं च देवकुर्वादिहस्त्यादीनधिकृत्योक्तं, 'नो नपुंसगवेय'त्ति असङ्ख्यातवर्षायुषो हि नपुसकवेदा न संभवन्त्येवेति, 'उक्कसेणं छप्पलिओवमाईति त्रीण्यसङ्ख्यातवर्षायुस्तिर्यग्भवसम्बन्धीनि त्रीणि चासुरभवासम्बन्धीनीत्येवंषट्, न च देवभवादुवृत्तः पुनरप्यसङ्घयातवर्षायुष्केषूत्पद्यत इति । सो चेव अप्पणा जहन्नकालद्वितीओ'इत्यादिश्चतुर्थो गमः, इह च जघन्यकालस्थितिकः सातिरेकपूर्वकोटयायुः सच पक्षिप्रभृतिकः प्रक्रान्तः ‘उक्कोसेणं सातिरेगपुव्वकोडिआउए सो'तिअसङ्ख्यातवर्षायुषांपक्ष्यादीनांसातिरेकं पूर्वकोटिरायुः तेच स्वायुस्तुल्यं देवायुः कुर्वन्तीतिकृत्वा सातिरेकेत्याधुक्तमिति, ‘उक्कोसेणं सातिरेगं घणुसहस्सं'ति यदुक्तं तत् सप्तमकुलकरप्राक्कालभाविनो हस्त्यादीनपेक्ष्येति संभाव्यते ।
तथाहि-इहासङ्ग्यातवर्षायुर्जघन्यस्थितिकः प्रक्रान्तः सच सातिरेकपूर्वकोट्यायुर्भवति तथैवागमे व्यवहृतत्वात्, एवंविधश्च हस्त्यादि सप्तमकुलकरप्राक्काले लभ्यते, तथा सप्तमकुलकरस्य पञ्चविंशत्यधिकानि पञ्च धनुःशतानि उच्चैस्त्वं तत्प्राक्कालभाविनां च तानि समधिकतराणीति तत्कालीनहस्त्यादयश्चैतद्विगुणोच्छ्रायाः अतः सप्तमकुलकरप्राक्कालभाविनामसङ्ख्यातवर्षायुषां हस्त्यादीनां यथोक्तमवगाहनाप्रमाणं लभ्यत इति, 'सातिरेगाओ दो पुव्वकोडीओ' इति एका सातिरेका तिर्यग्भवसत्काऽन्या तु सातिरेकैवासुर भवसत्केति ४।।
_ 'असुरकुमारट्टिई संवेहं च जाणिज्जत्ति तत्र जघन्याऽसुरकुमारस्थितिर्दशवर्षसहस्राणि संवेधस्तु सातिरेका पूर्वकोटी दशवर्षसहासणि चेति ५, शेषगमास्तु स्वयमेवाभ्यूह्याः ९ ।
एवमुत्पादितोऽसङ्ख्यातवर्षायुःसज्ज्ञिपञ्चेन्द्रियतिर्यगसुरे, अथ सङ्ख्यातवर्षायुरसावुत्पाद्यते-'जइ संखेज्जे त्यादि, 'उक्कोसेणं सातिरेगसागरोवमद्वितीएसुत्ति यदुक्तं तद्वलिनिकायमाश्रित्येति 'तिसुविगमएसुत्ति जघन्यकास्थितिकसम्बन्धिषुऔधिकादिषु चत्तारिलेसाओ'त्ति रलप्रभापृथिवीगामिनां जघन्यस्थितिकानां तिनता उक्ताः एषु पुनस्ताश्चतसः असुरेषु तेजोलेश्यावानप्युत्पद्यत इति, तथारलप्रभापृथिवीगामिनां जघन्यस्थितिकानामध्यवसायस्थानान्यप्रशस्तान्येवोक्तानि इह तु प्रशस्तान्येव, दीर्घस्थितिकत्वे हि द्विविधान्यपि संभवन्ति न त्वितरेषु कालस्याल्पत्वात्, ‘संवेहो सातिरेगेण सागरोवमेण कायव्वोतिरत्नप्रभागमेषुसागरोपमेणसंवेध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org